आश्वमेधिक पर्व

अध्याय 59: रैवतक उत्सव के समय श्रीकृष्ण द्वारका लौटे

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनषष्टितमोऽध्यायः ॥

24 श्लोक · 59 में से 118

इस अध्याय में क्या होता है

रैवतक उत्सव के समय श्रीकृष्ण द्वारका लौटे

उत्तंक को वर देकर श्रीकृष्ण सात्यकि के साथ सरोवरों, नदियों और पर्वतों को पार कर द्वारका पहुँचते हैं। उस समय रैवतक पर्वत पर महोत्सव चल रहा है। पर्वत रत्नजटित मण्डपों, सोने की मालाओं और दीपवृक्षों से सजा है, जिनसे गुफाएँ दिन-सी उजली हैं; ध्वजाओं पर घण्टियाँ बजती हैं, स्त्री-पुरुष गाते-नाचते हैं। हाट हैं, वीणा, वेणु और मृदंग बजते हैं, हर प्रकार का भोजन-पेय है, और दीनों तथा अन्धों को दिन-रात दान मिलता है। अदृश्य देव, गन्धर्व और ऋषि श्रीकृष्ण की सृष्टिकर्ता और शरणदाता रूप में स्तुति करते हैं। भोज, वृष्णि और अन्धक उनसे मिलने आते हैं। वे माता-पिता को प्रणाम करते हैं, जो उन्हें हृदय से लगाते हैं। विश्राम के बाद पिता युद्ध का वृत्तान्त पूछते हैं।

जनमेजय उवाच

59.1

उदङ्कस्य वरं दत्त्वा गोविन्दो द्विजत्तम ।
अत ऊर्ध्वं महाबाहुः किं चकार महायशाः

udaṅkasya varaṃ dattvā govindo dvijattama |
ata ūrdhvaṃ mahābāhuḥ kiṃ cakāra mahāyaśāḥ

वैशम्पायन उवाच

59.2

उदङ्काय वरं दत्त्वा प्रायात्सात्यकिना सह ।
द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः

udaṅkāya varaṃ dattvā prāyātsātyakinā saha |
dvārakāmeva govindaḥ śīghravegairmahāhayaiḥ

59.3

सरांसि सरितश्चैव वनानि च गिरींस्तथा ।
अतिक्रम्याससादाथ रम्यां द्वारवतीं पुरीम्

sarāṃsi saritaścaiva vanāni ca girīṃstathā |
atikramyāsasādātha ramyāṃ dvāravatīṃ purīm

59.4

वर्तमाने महाराज महे रैवतकस्य च ।
उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा

vartamāne mahārāja mahe raivatakasya ca |
upāyātpuṇḍarīkākṣo yuyudhānānugastadā

59.5

अलङ्कृतस्तु स गिरिर्नानारूपैर्विचित्रितैः ।
बभौ रत्नमयैः कोशैः संवृतः पुरुर्षर्षभ

alaṅkṛtastu sa girirnānārūpairvicitritaiḥ |
babhau ratnamayaiḥ kośaiḥ saṃvṛtaḥ pururṣarṣabha

59.6

काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च ।
वासोभिश्च महाशैलः कल्पवृक्षैस्तथैव च

kāñcanasragbhiragryābhiḥ sumanobhistathaiva ca |
vāsobhiśca mahāśailaḥ kalpavṛkṣaistathaiva ca

59.7

दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः ।
गुहानिर्झरदेशेषु दिवाभूतो बभूव ह

dīpavṛkṣaiśca sauvarṇairabhīkṣṇamupaśobhitaḥ |
guhānirjharadeśeṣu divābhūto babhūva ha

59.8

एताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः ।
पुंभिः स्त्रीभिश्च संघुष्टः प्रगीत इव चाभवत् ।
अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव

etākābhirvicitrābhiḥ saghaṇṭābhiḥ samantataḥ |
puṃbhiḥ strībhiśca saṃghuṣṭaḥ pragīta iva cābhavat |
atīva prekṣaṇīyo'bhūnmerurmunigaṇairiva

59.9

मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत ।
गायतां पर्वतेन्द्रस्य दिविस्पृगिव निःस्वनः

mattānāṃ hṛṣṭarūpāṇāṃ strīṇāṃ puṃsāṃ ca bhārata |
gāyatāṃ parvatendrasya divispṛgiva niḥsvanaḥ

59.10

प्रमत्तमत्तसम्मत्तक्ष्वेडितोद्धुष्टसंकुलः ।
तथा किलकिलाशब्दैर्भूधरोऽभून्मनोहरः

pramattamattasammattakṣveḍitoddhuṣṭasaṃkulaḥ |
tathā kilakilāśabdairbhūdharo'bhūnmanoharaḥ

59.11

विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान् ।
वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान्

vipaṇāpaṇavānramyo bhakṣyabhojyavihāravān |
vastramālyotkarayuto vīṇāveṇumṛdaṅgavān

59.12

सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह ।
दीनान्धकृपणादिभ्यो दीयमानेन चानिशम् ।
बभौ परमकल्याणो महस्तस्य महागिरेः

surāmaireyamiśreṇa bhakṣyabhojyena caiva ha |
dīnāndhakṛpaṇādibhyo dīyamānena cāniśam |
babhau paramakalyāṇo mahastasya mahāgireḥ

59.13

पुण्यावसथवान्वीरैः पुण्यकृद्भिर्निषेवितः ।
विहारो वृष्णिवीराणां महे रैवतस्य ह

puṇyāvasathavānvīraiḥ puṇyakṛdbhirniṣevitaḥ |
vihāro vṛṣṇivīrāṇāṃ mahe raivatasya ha

59.14

स नानावेश्मसंकीर्णो देवलोक इवाबभौ ।
तदा च कृष्णसान्निध्यान्मुदा देवगणैर्युतः

sa nānāveśmasaṃkīrṇo devaloka ivābabhau |
tadā ca kṛṣṇasānnidhyānmudā devagaṇairyutaḥ

59.15

स्तुवन्त्यन्तर्हिता देवा गन्धर्वाश्च सहर्षिभिः ।
साधकः सर्वधर्माणामसुराणां विनाशकः

stuvantyantarhitā devā gandharvāśca saharṣibhiḥ |
sādhakaḥ sarvadharmāṇāmasurāṇāṃ vināśakaḥ

59.16

त्वं स्रष्टा सृज्यमाधारं कारणं धर्मवेदवित् ।
त्वया सत्क्रियते देव ज जानीमोऽत्र मायया

tvaṃ sraṣṭā sṛjyamādhāraṃ kāraṇaṃ dharmavedavit |
tvayā satkriyate deva ja jānīmo'tra māyayā

59.17

केवलं त्वाऽभिजानीमः शरणं परमेश्वरम् ।
ब्रह्मादीनां च गोविन्द सान्निध्वं शरणं नमः

kevalaṃ tvā'bhijānīmaḥ śaraṇaṃ parameśvaram |
brahmādīnāṃ ca govinda sānnidhvaṃ śaraṇaṃ namaḥ

59.18

इति स्तुते मानुषैश्च पूजिते देवकीसुते ।
शक्रसद्मप्रतीकाशो बभूव स हि शैलराट्

iti stute mānuṣaiśca pūjite devakīsute |
śakrasadmapratīkāśo babhūva sa hi śailarāṭ

59.19

ततः सम्पूज्यमानः स विवेश भवनं शुभम् ।
गोविन्दः सात्यकिश्चैव जग्मतुर्भवनं स्वकम्

tataḥ sampūjyamānaḥ sa viveśa bhavanaṃ śubham |
govindaḥ sātyakiścaiva jagmaturbhavanaṃ svakam

59.20

विवेश च प्रहृष्टात्मा चिरकालप्रवासतः ।
कृत्वा नसुकरं कर्म दानवेष्विव वासवः

viveśa ca prahṛṣṭātmā cirakālapravāsataḥ |
kṛtvā nasukaraṃ karma dānaveṣviva vāsavaḥ

59.21

उपायान्तं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तथा ।
अभ्यगच्चन्महात्मानं देवा इव शतक्रतुम्

upāyāntaṃ tu vārṣṇeyaṃ bhojavṛṣṇyandhakāstathā |
abhyagaccanmahātmānaṃ devā iva śatakratum

59.22

स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा ।
अभ्यवादयत प्रीतः पितरं मातरं तदा

sa tānabhyarcya medhāvī pṛṣṭvā ca kuśalaṃ tadā |
abhyavādayata prītaḥ pitaraṃ mātaraṃ tadā

59.23

ताभ्यां स सम्परिष्वक्तः सान्त्वितश्च महाभुजः ।
उपोपविष्टैः सर्वैस्तैर्वृष्णिभिः परिवारितः

tābhyāṃ sa sampariṣvaktaḥ sāntvitaśca mahābhujaḥ |
upopaviṣṭaiḥ sarvaistairvṛṣṇibhiḥ parivāritaḥ

59.24

स विश्रान्तो महातेजाः कृतपादावनेजनः ।
कथयामास तत्सर्वं पृष्टः पित्रा महाहवम्

sa viśrānto mahātejāḥ kṛtapādāvanejanaḥ |
kathayāmāsa tatsarvaṃ pṛṣṭaḥ pitrā mahāhavam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)