ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम् ।
श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन
brūhi keśava tattvena tvamadhyātmamaninditam |
śrutvā śreyo'bhidhāsyāmi śāpaṃ vā te janārdana
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुःपञ्चाशोऽध्यायः ॥
25 श्लोक · 54 में से 118
उत्तंक उपदेश माँगते हैं। श्रीकृष्ण कहते हैं कि तम, रज और सत्त्व उन्हीं में स्थित हैं; ब्रह्मा, विष्णु और रुद्र रूप में वे सृष्टि, पालन और संहार के अधिष्ठाता हैं। सब प्राणी उनमें हैं और वे सबमें; रुद्र, वसु, दैत्य, गन्धर्व और नाग उन्हीं से उत्पन्न हैं। व्यक्त और अव्यक्त, चारों आश्रमों के धर्म, ओंकार से उपजे वेद, यूप, सोम और यज्ञ के ऋत्विज, सब उन्हीं का स्वरूप हैं। धर्म उनका ज्येष्ठ मानस पुत्र है। युग-युग में वे देव, गन्धर्व, नाग और मनुष्य योनि में जन्म लेकर धर्म का सेतु बाँधते हैं और वैसा ही आचरण करते हैं। मनुष्य रूप में उन्होंने कौरवों से दीनता से विनती की, भयंकर रूप भी दिखाया, पर वे नहीं माने। धर्मयुद्ध में मरकर वे स्वर्ग गए।
उदङ्क उवाच
ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम् ।
श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन
brūhi keśava tattvena tvamadhyātmamaninditam |
śrutvā śreyo'bhidhāsyāmi śāpaṃ vā te janārdana
वासुदेव उवाच
तमो रजश्च सत्वं च विद्धि भावान्मदाश्रयान् ।
स्थितिसृष्टिलयाध्यक्षो विष्णुब्रह्मेशसंज्ञितः
tamo rajaśca satvaṃ ca viddhi bhāvānmadāśrayān |
sthitisṛṣṭilayādhyakṣo viṣṇubrahmeśasaṃjñitaḥ
कदाचित्तमसा रुद्रो विष्णुः सत्त्वगुणे स्थितः ।
रजस्यपि तथा ब्रह्मा स्वगुणान्यगुणानुभौ
kadācittamasā rudro viṣṇuḥ sattvaguṇe sthitaḥ |
rajasyapi tathā brahmā svaguṇānyaguṇānubhau
प्रणवात्मा च शब्दादींस्त्रिगुणात्मा चराचरम् ।
तथा रुद्रान्वसून्वाऽपि विद्धि मत्प्रभवान्द्विज
praṇavātmā ca śabdādīṃstriguṇātmā carācaram |
tathā rudrānvasūnvā'pi viddhi matprabhavāndvija
मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम् ।
स्थित इत्यभिजानीहि मा ते भूदत्र संशयः
mayi sarvāṇi bhūtāni sarvabhūteṣu cāpyaham |
sthita ityabhijānīhi mā te bhūdatra saṃśayaḥ
तथा दैत्यगणान्सर्वान्यक्षगन्धर्वराक्षसान् ।
नागानप्सरसश्चैव विद्धि मत्प्रभवान्द्विज
tathā daityagaṇānsarvānyakṣagandharvarākṣasān |
nāgānapsarasaścaiva viddhi matprabhavāndvija
सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च ।
अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम्
sadasaccaiva yatprāhuravyaktaṃ vyaktameva ca |
akṣaraṃ ca kṣaraṃ caiva sarvametanmadātmakam
ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने ।
वैदिकानि च कर्माणि विद्धि सर्वं मदात्मकम्
ye cāśrameṣu vai dharmāścaturṣu vihitā mune |
vaidikāni ca karmāṇi viddhi sarvaṃ madātmakam
असच्च सच्चैव च यद्विश्वं सदसतः परम् ।
ततः परतरं नास्ति देवदेवात्सनातनात्
asacca saccaiva ca yadviśvaṃ sadasataḥ param |
tataḥ parataraṃ nāsti devadevātsanātanāt
ओंकारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह ।
यूपं सोमं चरुं होमं त्रिदशाप्यायनं मखे
oṃkāraprabhavānvedānviddhi māṃ tvaṃ bhṛgūdvaha |
yūpaṃ somaṃ caruṃ homaṃ tridaśāpyāyanaṃ makhe
होतारमपि हव्यं च विद्धिं मां भृगुनन्दन ।
अध्वर्युः कल्पकृच्चापि हविः परमसंस्कृतम्
hotāramapi havyaṃ ca viddhiṃ māṃ bhṛgunandana |
adhvaryuḥ kalpakṛccāpi haviḥ paramasaṃskṛtam
उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे ।
प्रायश्चित्तेषु मां ब्रह्मञ्शान्तिमङ्गलवाचकाः
udgātā cāpi māṃ stauti gītaghoṣairmahādhvare |
prāyaścitteṣu māṃ brahmañśāntimaṅgalavācakāḥ
स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तम ।
मम विद्धि सुतं धर्ममग्रजं द्विजसत्तम
stuvanti viśvakarmāṇaṃ satataṃ dvijasattama |
mama viddhi sutaṃ dharmamagrajaṃ dvijasattama
मानसं दयितं विप्र सर्वभूतदयात्मकम् ।
तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः
mānasaṃ dayitaṃ vipra sarvabhūtadayātmakam |
tatrāhaṃ vartamānaiśca nivṛttaiścaiva mānavaiḥ
बह्वीः संसरमाणो वै योनीर्वर्तामि सत्तम ।
लोकसरंक्षणार्थाय धर्मसंस्थापनाय च
bahvīḥ saṃsaramāṇo vai yonīrvartāmi sattama |
lokasaraṃkṣaṇārthāya dharmasaṃsthāpanāya ca
तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव ।
अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः
taistairveṣaiśca rūpaiśca triṣu lokeṣu bhārgava |
ahaṃ viṣṇurahaṃ brahmā śakro'tha prabhavāpyayaḥ
भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च ।
अधर्मे वर्तमानानां सर्वेषामहमच्युतः
bhūtagrāmasya sarvasya sraṣṭā saṃhāra eva ca |
adharme vartamānānāṃ sarveṣāmahamacyutaḥ
धर्मस्य सेतुं बध्नामि चलिते चलिते युगे ।
तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया
dharmasya setuṃ badhnāmi calite calite yuge |
tāstā yonīḥ praviśyāhaṃ prajānāṃ hitakāmyayā
यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन ।
तदाऽहं देववत्सर्वमाचरामि न संशयः
yadā tvahaṃ devayonau vartāmi bhṛgunandana |
tadā'haṃ devavatsarvamācarāmi na saṃśayaḥ
यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन ।
तदा गन्धर्ववच्चेष्टा सर्वाश्चेष्टामि भार्गव
yadā gandharvayonau tu vartāmi bhṛgunandana |
tadā gandharvavacceṣṭā sarvāśceṣṭāmi bhārgava
नागयोनौ यदा चैव तदा वर्तामि नागवत् ।
यक्षराक्षसयोन्योस्तु यथावद्विचराम्यहम्
nāgayonau yadā caiva tadā vartāmi nāgavat |
yakṣarākṣasayonyostu yathāvadvicarāmyaham
मानुष्ये वर्तमाने तु कृपणं याचिता मया ।
न च ते जातसम्मोहा वचोऽगृह्णन्त मोहिताः
mānuṣye vartamāne tu kṛpaṇaṃ yācitā mayā |
na ca te jātasammohā vaco'gṛhṇanta mohitāḥ
भयं च महदुद्दिश्य त्रासिताः कुरवो मया ।
क्रुद्धेन भूत्वा तु पुर्यथावदनुदर्शिताः
bhayaṃ ca mahaduddiśya trāsitāḥ kuravo mayā |
kruddhena bhūtvā tu puryathāvadanudarśitāḥ
तेऽधर्मेणेह संयुक्ताः परीताःक कालधर्मणा ।
धर्मेण निहता युद्धे गताः स्वर्गं न संशयः
te'dharmeṇeha saṃyuktāḥ parītāḥka kāladharmaṇā |
dharmeṇa nihatā yuddhe gatāḥ svargaṃ na saṃśayaḥ
लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम ।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
lokeṣu pāṇḍavāścaiva gatāḥ khyātiṃ dvijottama |
etatte sarvamākhyātaṃ yanmāṃ tvaṃ paripṛcchasi
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)