बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम् ।
महाभूतारविष्कम्भं निमेषपरिवेष्टनम्
buddhisāraṃ manastambhamindriyagrāmabandhanam |
mahābhūtāraviṣkambhaṃ nimeṣapariveṣṭanam
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चचत्वारिंशोऽध्यायः ॥
26 श्लोक · 45 में से 118
ब्रह्मा कालचक्र का वर्णन करते हैं। बुद्धि उसका सार है, मन धुरी, इन्द्रियाँ बन्धन और महाभूत अरे; दिन-रात, सर्दी-गर्मी, सुख-दुःख और भूख-प्यास उसे घेरे हैं, तम उसकी कीचड़ है, रज उसे चलाता है और सत्त्व उसे चमकाता है। मन जैसा वेगवान यह जड़ चक्र जगत् को रचता और समेटता है। जो इसका चलना और रुकना जानता है, वह मोह में नहीं पड़ता। चारों आश्रमों का मूल गृहस्थ है। व्रत और वेदाध्ययन पूरा कर वह योग्य विवाह करे, अपनी पत्नी में निरत रहे, पाँच महायज्ञ करे, देवों और अतिथियों को देकर खाए, और हाथ, नेत्र तथा वाणी से चंचल न हो। वह यज्ञोपवीत पहने, बाँस की लाठी और कमण्डलु रखे। ब्राह्मण अध्यापन, याजन और शुद्ध प्रतिग्रह से जीविका चलाए, और स्वयं दान, अध्ययन तथा यज्ञ करे।
ब्रह्मोवाच
बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम् ।
महाभूतारविष्कम्भं निमेषपरिवेष्टनम्
buddhisāraṃ manastambhamindriyagrāmabandhanam |
mahābhūtāraviṣkambhaṃ nimeṣapariveṣṭanam
जराशोकसमाविष्टं व्याधिव्यसनसञ्चरम् ।
देशकालविचारीदं श्रमव्यायामनिःस्वनम्
jarāśokasamāviṣṭaṃ vyādhivyasanasañcaram |
deśakālavicārīdaṃ śramavyāyāmaniḥsvanam
अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम् ।
सुखदुःखान्तसंश्लेषं क्षुत्पिपासावकीलकम्
ahorātraparikṣepaṃ śītoṣṇaparimaṇḍalam |
sukhaduḥkhāntasaṃśleṣaṃ kṣutpipāsāvakīlakam
छायातपविलेखं च निमेषोन्मेषविह्वलम् ।
शोकमोहजराकीर्णं वर्तमानमचेतनम्
chāyātapavilekhaṃ ca nimeṣonmeṣavihvalam |
śokamohajarākīrṇaṃ vartamānamacetanam
मासार्धमासगुणितं विषमं लोकसञ्चरम् ।
तमोनिचयपङ्कं च रजोवेगप्रवर्तकम्
māsārdhamāsaguṇitaṃ viṣamaṃ lokasañcaram |
tamonicayapaṅkaṃ ca rajovegapravartakam
सत्त्वालङ्कारदीप्तं च गुणसंघातमण्डलम् ।
विरतिग्रहणाभीकं शोकसंहारवर्तनम्
sattvālaṅkāradīptaṃ ca guṇasaṃghātamaṇḍalam |
viratigrahaṇābhīkaṃ śokasaṃhāravartanam
क्रियाकारणसंयुक्तं रागविस्तारमायतम् ।
लोभेप्सापरिविक्षोभं विविक्तज्ञानसम्भवम्
kriyākāraṇasaṃyuktaṃ rāgavistāramāyatam |
lobhepsāparivikṣobhaṃ viviktajñānasambhavam
भयमोहपरीवारं भूतसंमोहकारकम् ।
आनन्दप्रीतिचारं च कामक्रोधपरिग्रहम्
bhayamohaparīvāraṃ bhūtasaṃmohakārakam |
ānandaprīticāraṃ ca kāmakrodhaparigraham
महदादिविशेषान्तमव्यक्तं प्रभवाप्ययम् ।
मनोजवनमश्रान्तं कालचक्रं प्रवर्तते
mahadādiviśeṣāntamavyaktaṃ prabhavāpyayam |
manojavanamaśrāntaṃ kālacakraṃ pravartate
एतद्द्वन्द्वसमायुक्तं कालचक्रमचेतनम् ।
विसृजेत्संक्षिपेच्चापि बोधयेत्स्वापयेज्जगम्
etaddvandvasamāyuktaṃ kālacakramacetanam |
visṛjetsaṃkṣipeccāpi bodhayetsvāpayejjagam
कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः ।
यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति
kālacakrapravṛttiṃ ca nivṛttiṃ caiva tattvataḥ |
yastu veda naro nityaṃ na sa bhūteṣu muhyati
विमुक्तः सर्वसङ्क्लेशैः सर्वद्वन्द्वातिगो मुनिः ।
विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम्
vimuktaḥ sarvasaṅkleśaiḥ sarvadvandvātigo muniḥ |
vimuktaḥ sarvapāpebhyaḥ prāpnoti paramāṃ gatim
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः ।
चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः
gṛhastho brahmacārī ca vānaprastho'tha bhikṣukaḥ |
catvāra āśramāḥ proktāḥ sarve gārhasthyamūlakāḥ
यः कश्चिदिह लोकेऽस्मिन्नाश्रमः परिकीर्तितः ।
तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी
yaḥ kaścidiha loke'sminnāśramaḥ parikīrtitaḥ |
tasyāntagamanaṃ śreyaḥ kīrtireṣā sanātanī
संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः ।
जातौ गुणविशिष्टायां समावर्तेत वेदवित्
saṃskāraiḥ saṃskṛtaḥ pūrvaṃ yathāvaccaritavrataḥ |
jātau guṇaviśiṣṭāyāṃ samāvarteta vedavit
स्वदारनिरतो नित्यं शिष्टाचारो जितेन्द्रियः ।
पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेदिह
svadāranirato nityaṃ śiṣṭācāro jitendriyaḥ |
pañcabhiśca mahāyajñaiḥ śraddadhāno yajediha
देवतातिथिशिष्टाशी निरतो वेदकर्मसु ।
इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि
devatātithiśiṣṭāśī nirato vedakarmasu |
ijyāpradānayuktaśca yathāśakti yathāvidhi
न पाणिपादचपलो न नेत्रचपलो मुनिः ।
न च वागङ्गचपल इति शिष्टस्य गोचरः
na pāṇipādacapalo na netracapalo muniḥ |
na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ
नित्यं यज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः ।
नियतो यमदानाभ्यां सदा शिष्टैश्च संविशेत्
nityaṃ yajñopavītī syācchuklavāsāḥ śucivrataḥ |
niyato yamadānābhyāṃ sadā śiṣṭaiśca saṃviśet
जितशिश्नोदरो मैत्रः शिष्टाचारसमन्वितः ।
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम्
jitaśiśnodaro maitraḥ śiṣṭācārasamanvitaḥ |
vaiṇavīṃ dhārayedyaṣṭiṃ sodakaṃ ca kamaṇḍalum
त्रीणि धारयते नित्यं कमण्डलुमतन्द्रितः ।
एकमाचमनार्थाय एकं वै पादधावनम् ।
एकं शौचविधानार्थमित्येतत्त्रितयं तथा
trīṇi dhārayate nityaṃ kamaṇḍalumatandritaḥ |
ekamācamanārthāya ekaṃ vai pādadhāvanam |
ekaṃ śaucavidhānārthamityetattritayaṃ tathā
अधीत्याध्यापनं कुर्यात्तथा यजनयाजने ।
दानं प्रतिग्रहं वाऽपि षङ्गुणां वृत्तिमाचरेत्
adhītyādhyāpanaṃ kuryāttathā yajanayājane |
dānaṃ pratigrahaṃ vā'pi ṣaṅguṇāṃ vṛttimācaret
त्रीणि कर्माणि जानीत ब्राह्मणानां तु जीविकाः ।
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः
trīṇi karmāṇi jānīta brāhmaṇānāṃ tu jīvikāḥ |
yājanādhyāpane cobhe śuddhāccāpi pratigrahaḥ
अथ शेषाणि चान्यानि त्रीणि कर्माणि यानि तु ।
दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु
atha śeṣāṇi cānyāni trīṇi karmāṇi yāni tu |
dānamadhyayanaṃ yajño dharmayuktāni tāni tu
तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित् ।
दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः
teṣvapramādaṃ kurvīta triṣu karmasu dharmavit |
dānto maitraḥ kṣamāyuktaḥ sarvabhūtasamo muniḥ
सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः ।
एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः
sarvametadyathāśakti vipro nirvartayañśuciḥ |
evaṃ yukto jayetsvargaṃ gṛhasthaḥ saṃśitavrataḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)