आश्वमेधिक पर्व

अध्याय 44: अनुगीता: सबमें प्रथम और सबका अन्त

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुश्चत्वारिशोऽध्यायः ॥

22 श्लोक · 44 में से 118

इस अध्याय में क्या होता है

अनुगीता: सबमें प्रथम और सबका अन्त

ब्रह्मा हर वर्ग में जो प्रथम है उसे बताते हैं। रात से पहले दिन है, मास का आरम्भ शुक्ल पक्ष से। गन्ध का आदि पृथ्वी है, रस का जल, रूप का अग्नि, स्पर्श का वायु और शब्द का आकाश। ज्योतियों में सूर्य, सब विद्याओं में सावित्री, सब वेदों में ॐ, छन्दों में गायत्री, चौपायों में गौ, युगों में कृतयुग, पर्वतों में मेरु और नदियों में गंगा प्रथम हैं। ब्रह्मा स्वयं को प्रजापतियों में प्रथम कहते हैं, और अचिन्त्य विष्णु सारे जगत् के आदि हैं। फिर वे अन्त बताते हैं: दिन का अन्त सूर्यास्त, संचय का क्षय, संयोग का वियोग, जीवन का मृत्यु। यज्ञ, दान, तप और अध्ययन सबका अन्त है, पर ज्ञान का अन्त नहीं; शुद्ध ज्ञान से मनुष्य मुक्त होता है।

ब्रह्मोवाच

44.1

यदादिमध्यपर्यन्तं ग्रहणोपायमेव च ।
नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः

yadādimadhyaparyantaṃ grahaṇopāyameva ca |
nāmalakṣaṇasaṃyuktaṃ sarvaṃ vakṣyāmi tattvataḥ

44.2

अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः ।
श्रवणादीनि ऋक्षाणि ऋतवः शिशिरादयः

ahaḥ pūrvaṃ tato rātrirmāsāḥ śuklādayaḥ smṛtāḥ |
śravaṇādīni ṛkṣāṇi ṛtavaḥ śiśirādayaḥ

44.3

भूमिरादिस्तु गन्धानां रसानामाप एव च ।
रूपाणामादिरग्निस्तु स्पर्शादिर्वायुरुच्यते

bhūmirādistu gandhānāṃ rasānāmāpa eva ca |
rūpāṇāmādiragnistu sparśādirvāyurucyate

44.4

शब्दस्यादिस्तथाऽऽकाशमेष भूतकृतो गुणः ।
अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम्

śabdasyādistathā''kāśameṣa bhūtakṛto guṇaḥ |
ataḥ paraṃ pravakṣyāmi bhūtānāmādimuttamam

44.5

आदित्यो ज्योतिषामादिरग्निर्भूतादिरुच्यते ।
सावित्री सर्वविद्यानां देवतानां प्रजापतिः

ādityo jyotiṣāmādiragnirbhūtādirucyate |
sāvitrī sarvavidyānāṃ devatānāṃ prajāpatiḥ

44.6

ओङ्कारः सर्ववेदानां वचसां प्राण एव च ।
यदस्मिन्नियतं लोके सर्वं सावित्रमुच्यते

oṅkāraḥ sarvavedānāṃ vacasāṃ prāṇa eva ca |
yadasminniyataṃ loke sarvaṃ sāvitramucyate

44.7

गायत्री च्छन्दसामादिः प्रजानां सर्ग उच्यते ।
गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः

gāyatrī cchandasāmādiḥ prajānāṃ sarga ucyate |
gāvaścatuṣpadāmādirmanuṣyāṇāṃ dvijātayaḥ

44.8

श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम् ।
प्रसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः

śyenaḥ patatriṇāmādiryajñānāṃ hutamuttamam |
prasarpiṇāṃ tu sarveṣāṃ jyeṣṭhaḥ sarpo dvijottamāḥ

44.9

कृतमादिर्युगानां च सर्वेषां नात्र संशयः ।
हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा

kṛtamādiryugānāṃ ca sarveṣāṃ nātra saṃśayaḥ |
hiraṇyaṃ sarvaratnānāmoṣadhīnāṃ yavāstathā

44.10

सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते ।
द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः

sarveṣāṃ bhakṣyabhojyānāmannaṃ paramamucyate |
dravāṇāṃ caiva sarveṣāṃ peyānāmāpa uttamāḥ

44.11

स्थावराणां तु भूतानां सर्वेषामविशेषतः ।
ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रवरजः स्मृतः

sthāvarāṇāṃ tu bhūtānāṃ sarveṣāmaviśeṣataḥ |
brahmakṣetraṃ sadā puṇyaṃ plakṣaḥ pravarajaḥ smṛtaḥ

44.12

अहं प्रजापतीनां च सर्वेषां नात्र संशयः ।
मम विष्णुरचिन्त्यात्मा स्वयंभूरिति संस्मृतः

ahaṃ prajāpatīnāṃ ca sarveṣāṃ nātra saṃśayaḥ |
mama viṣṇuracintyātmā svayaṃbhūriti saṃsmṛtaḥ

44.13

पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः ।
दिशां च प्रदिशां चोर्ध्वं दिक्पूर्वा प्रथमा तथा

parvatānāṃ mahāmeruḥ sarveṣāmagrajaḥ smṛtaḥ |
diśāṃ ca pradiśāṃ cordhvaṃ dikpūrvā prathamā tathā

44.14

तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता ।
तथा सरोदपाननां सर्वेषां सागरोऽग्रजः

tathā tripathagā gaṅgā nadīnāmagrajā smṛtā |
tathā sarodapānanāṃ sarveṣāṃ sāgaro'grajaḥ

44.15

देवदानवभूतानां पिशाचोरगरक्षसाम् ।
नरकिन्नरयक्षाणां सर्वेषामीश्वरः प्रभुः

devadānavabhūtānāṃ piśācoragarakṣasām |
narakinnarayakṣāṇāṃ sarveṣāmīśvaraḥ prabhuḥ

44.16

आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान् ।
ततः परतरं यस्मात्त्रैलोक्ये नेह विद्यते

ādirviśvasya jagato viṣṇurbrahmamayo mahān |
tataḥ parataraṃ yasmāttrailokye neha vidyate

44.17

आश्रमाणां च सर्वेषां गार्हस्थ्यं नात्र संशयः ।
लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च

āśramāṇāṃ ca sarveṣāṃ gārhasthyaṃ nātra saṃśayaḥ |
lokānāmādiravyaktaṃ sarvasyāntastadeva ca

44.18

अहान्यस्तमयान्तानि उदयान्ता च शर्वरी ।
सुखस्यान्तं सदा दुःखं दुःखस्यान्तं सदा सुखम

ahānyastamayāntāni udayāntā ca śarvarī |
sukhasyāntaṃ sadā duḥkhaṃ duḥkhasyāntaṃ sadā sukhama

44.19

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगाश्च वियोगान्ता मरणान्तं च जीवितम्

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
saṃyogāśca viyogāntā maraṇāntaṃ ca jīvitam

44.20

सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम् ।
अशाश्वतं हि लोकेऽस्मिन्सदा स्थावरजङ्गमम्

sarvaṃ kṛtaṃ vināśāntaṃ jātasya maraṇaṃ dhruvam |
aśāśvataṃ hi loke'sminsadā sthāvarajaṅgamam

44.21

इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये ।
सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते

iṣṭaṃ dattaṃ tapo'dhītaṃ vratāni niyamāśca ye |
sarvametadvināśāntaṃ jñānasyānto na vidyate

44.22

तस्माज्ज्ञानेन शुद्धेन प्रशान्तात्मा जितेन्द्रियः ।
निर्ममो निरहंकारो मुच्यते सर्वपाप्मभिः

tasmājjñānena śuddhena praśāntātmā jitendriyaḥ |
nirmamo nirahaṃkāro mucyate sarvapāpmabhiḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)