अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम् ।
सर्वभूतहितं लोके सतां धर्ममनिन्दितम्
ataḥ paraṃ pravakṣyāmi tṛtīyaṃ guṇamuttamam |
sarvabhūtahitaṃ loke satāṃ dharmamaninditam
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनचत्वारिंशोऽध्यायः ॥
15 श्लोक · 39 में से 118
ब्रह्मा तीसरा और उत्तम गुण बताते हैं, जो सज्जनों का अनिन्दित धर्म है और सब प्राणियों का हित करता है। उसके लक्षण हैं आनन्द, प्रीति, प्रकाश, सन्तोष, कृपणता और उतावलेपन का अभाव, श्रद्धा, क्षमा, धृति, अहिंसा, समता, सत्य, सरलता, क्रोध और असूया का अभाव, शौच। साथ ही विश्वास, लज्जा, त्याग, सब प्राणियों पर दया, भाव की शुद्धि, ब्रह्मचर्य, और बिना बदले की इच्छा के किए दान, यज्ञ, अध्ययन और तप। ममता और अहंकार से रहित, कामनाहीन, सबके प्रति सम: यही सज्जनों का सनातन धर्म है। जो सत्त्व में स्थित होकर ऐसा जीवन जीते हैं, वे सब पाप त्यागकर स्वर्ग पाते हैं और इच्छानुसार शरीर धारण करते हैं। वे ऊर्ध्वस्रोत कहलाते हैं। जो इन गुणों को जानता है, वह गुणों को भोगता है पर उनसे बँधता नहीं।
ब्रह्मोवाच
अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम् ।
सर्वभूतहितं लोके सतां धर्ममनिन्दितम्
ataḥ paraṃ pravakṣyāmi tṛtīyaṃ guṇamuttamam |
sarvabhūtahitaṃ loke satāṃ dharmamaninditam
आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च ।
अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता
ānandaḥ prītirudrekaḥ prākāśyaṃ sukhameva ca |
akārpaṇyamasaṃrambhaḥ saṃtoṣaḥ śraddadhānatā
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् ।
अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः
kṣamā dhṛtirahiṃsā ca samatā satyamārjavam |
akrodhaścānasūyā ca śaucaṃ dākṣyaṃ parākramaḥ
मुधाज्ञानं मुधावृत्तं मुधासेवा मुदाश्रमः ।
एवं यो युक्तधर्मः स्यात्सोमुत्रात्यन्तमश्नुते
mudhājñānaṃ mudhāvṛttaṃ mudhāsevā mudāśramaḥ |
evaṃ yo yuktadharmaḥ syātsomutrātyantamaśnute
निर्ममो निरहङ्कारो निराशीः सर्वतः समः ।
अकामहत इत्येव सतां धर्मः सनातनः
nirmamo nirahaṅkāro nirāśīḥ sarvataḥ samaḥ |
akāmahata ityeva satāṃ dharmaḥ sanātanaḥ
विश्रंभो ह्रीस्तितिक्षा च त्यागः शौचमतन्द्रिता ।
आनृशंस्यमसंमोहो दया भूतेष्वपैशुनम्
viśraṃbho hrīstitikṣā ca tyāgaḥ śaucamatandritā |
ānṛśaṃsyamasaṃmoho dayā bhūteṣvapaiśunam
हर्षस्तुष्टिर्विस्मयश्च विनयः साधुवृत्तिता ।
शान्तिकर्मविशुद्धिश्च भावशुद्धिर्विमोचनम्
harṣastuṣṭirvismayaśca vinayaḥ sādhuvṛttitā |
śāntikarmaviśuddhiśca bhāvaśuddhirvimocanam
उपेक्षा ब्रह्मचर्यं च परित्यागश्च सर्वशः ।
निर्ममत्वमनाशीष्ट्वमपरिक्षतधर्मता
upekṣā brahmacaryaṃ ca parityāgaśca sarvaśaḥ |
nirmamatvamanāśīṣṭvamaparikṣatadharmatā
मुधादानं मुधायज्ञो मुधाधीतं मुधाव्रतम् ।
मुधाप्रतिग्रहश्चैव मधाध्रमो मुधातपः
mudhādānaṃ mudhāyajño mudhādhītaṃ mudhāvratam |
mudhāpratigrahaścaiva madhādhramo mudhātapaḥ
एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन्सत्वसंश्रयाः ।
ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः
evaṃvṛttāstu ye kecilloke'sminsatvasaṃśrayāḥ |
brāhmaṇā brahmayonisthāste dhīrāḥ sādhudarśinaḥ
हित्वा सर्वाणि पापानि निःशोका ह्यजरामराः ।
दिव्यं प्राप्य तु ते धीराः कुर्वते वै ततस्तनूः
hitvā sarvāṇi pāpāni niḥśokā hyajarāmarāḥ |
divyaṃ prāpya tu te dhīrāḥ kurvate vai tatastanūḥ
ईशित्वं च वशित्वं च लघुत्वं चाणुता तथा ।
विकुर्वते महात्मानो देवास्त्रिदिवगा इव
īśitvaṃ ca vaśitvaṃ ca laghutvaṃ cāṇutā tathā |
vikurvate mahātmāno devāstridivagā iva
ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः ।
विकुर्वन्तः प्रकृत्या वै दिवं प्राप्तास्ततस्ततः
ūrdhvasrotasa ityete devā vaikārikāḥ smṛtāḥ |
vikurvantaḥ prakṛtyā vai divaṃ prāptāstatastataḥ
यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च ।
इत्येतत्सात्विकं वृत्तं कथितं वो द्विजर्षभाः ।
एतद्विज्ञाय लभते विधिवद्यद्यदिच्छति
yadyadicchanti tatsarvaṃ bhajante vibhajanti ca |
ityetatsātvikaṃ vṛttaṃ kathitaṃ vo dvijarṣabhāḥ |
etadvijñāya labhate vidhivadyadyadicchati
प्रकीर्तिताः सत्त्वगुणा विशेषतो
यथावदुक्तं गुणवृत्तमेव च ।
नरस्तु यो वेद गुणानिमान्सदा
गुणान्स भुङ्क्ते न गुणैः स युज्यते
prakīrtitāḥ sattvaguṇā viśeṣato
yathāvaduktaṃ guṇavṛttameva ca |
narastu yo veda guṇānimānsadā
guṇānsa bhuṅkte na guṇaiḥ sa yujyate
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)