रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः ।
निबोधत महाभागा गुणवृत्तं च राजसम्
rajo'haṃ vaḥ pravakṣyāmi yāthātathyena sattamāḥ |
nibodhata mahābhāgā guṇavṛttaṃ ca rājasam
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टत्रिंशोऽध्यायः ॥
18 श्लोक · 38 में से 118
अब ब्रह्मा ऋषियों को रजोगुण बताते हैं। उसके लक्षणों की लम्बी सूची है: सन्ताप, परिश्रम, सुख-दुःख, सर्दी-गर्मी, ऐश्वर्य, कलह, शौर्य, मद, रोष, ईर्ष्या, इच्छा, चुगली, युद्ध, ममता, क्रय-विक्रय, काटो-फाड़ो की पुकार, पराए धन का लोभ, व्यर्थ तर्क, निन्दा-स्तुति, सेवा, तृष्णा, छल और प्रमाद। फल की इच्छा से किए स्वाहा, स्वधा, वषट्कार, दूसरों के लिए यज्ञ और अध्यापन, दान और प्रतिग्रह भी तब राजस हैं, जब मन कहता है कि यह मेरा हो। जुआ, लोकनिन्दा, स्त्रियों से जुड़े सम्बन्ध और नृत्य, वाद्य, गीत की आसक्ति भी इसी में हैं। ऐसे लोग धर्म, अर्थ और काम में रमते हैं, इसी लोक में सुख मानते हैं और बार-बार जन्म लेते हैं। जो इन लक्षणों को जानता है, वह रजोगुण से छूट जाता है।
ब्रह्मोवाच
रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः ।
निबोधत महाभागा गुणवृत्तं च राजसम्
rajo'haṃ vaḥ pravakṣyāmi yāthātathyena sattamāḥ |
nibodhata mahābhāgā guṇavṛttaṃ ca rājasam
संतापो रूपमायासः सुखदुःखे हिमातपौ ।
ऐश्वर्यं विग्रहः सिद्धिर्हेतुवादोऽरतिः क्षमा
saṃtāpo rūpamāyāsaḥ sukhaduḥkhe himātapau |
aiśvaryaṃ vigrahaḥ siddhirhetuvādo'ratiḥ kṣamā
बलं शौर्यं मदो रोषो व्यायामकलहावपि ।
ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम्
balaṃ śauryaṃ mado roṣo vyāyāmakalahāvapi |
īrṣyepsā paiśunaṃ yuddhaṃ mamatvaṃ paripālanam
वधबन्धपरिक्लेशाः क्रयो विक्रय एव च ।
निकृन्त च्छिन्धि भिन्धीति परवर्मावकर्तनम्
vadhabandhaparikleśāḥ krayo vikraya eva ca |
nikṛnta cchindhi bhindhīti paravarmāvakartanam
उग्रं दारुणमाक्रोशः परवित्तानुरागिता ।
लोकचिन्ताऽनुचिन्ता च मत्सरः परिभाषणम्
ugraṃ dāruṇamākrośaḥ paravittānurāgitā |
lokacintā'nucintā ca matsaraḥ paribhāṣaṇam
वृथाशास्त्रं मृषावादो विकल्पपरिभाषणम् ।
निन्दा स्तुतिः प्रशंसा च प्रतापः परिधर्षणम्
vṛthāśāstraṃ mṛṣāvādo vikalpaparibhāṣaṇam |
nindā stutiḥ praśaṃsā ca pratāpaḥ paridharṣaṇam
परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः ॥
व्यूहो नयः प्रमादश्च परिवादः परिग्रहः
paricaryā ca śuśrūṣā sevā tṛṣṇā vyapāśrayaḥ ||
vyūho nayaḥ pramādaśca parivādaḥ parigrahaḥ
संस्कारा ये च लोकेषु प्रवर्तन्ते पृथक्पृथक् ।
नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च
saṃskārā ye ca lokeṣu pravartante pṛthakpṛthak |
nṛṣu nārīṣu bhūteṣu dravyeṣu śaraṇeṣu ca
संतापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये ।
प्रधानमाशीर्युक्तं च सततं मे भवत्विति
saṃtāpo'pratyayaścaiva vratāni niyamāśca ye |
pradhānamāśīryuktaṃ ca satataṃ me bhavatviti
स्वाहाकारो नमस्कारः स्वधाकारो वषट्क्रिया ।
याजनाध्यापने चोभे यजनाध्ययने अपि
svāhākāro namaskāraḥ svadhākāro vaṣaṭkriyā |
yājanādhyāpane cobhe yajanādhyayane api
दानं प्रतिग्रहश्चैव प्रायश्चित्तानि मङ्गलम् ।
इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः
dānaṃ pratigrahaścaiva prāyaścittāni maṅgalam |
idaṃ me syādidaṃ me syātsneho guṇasamudbhavaḥ
अभिद्रोहस्तथा माया निकृतिर्मान एव च ।
स्तैन्यं हिंसा जुगुप्सा च परितापः प्रजागरः
abhidrohastathā māyā nikṛtirmāna eva ca |
stainyaṃ hiṃsā jugupsā ca paritāpaḥ prajāgaraḥ
दम्भो दर्पोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम् ।
द्यूतं च जनवादश्च सम्बन्धाः स्त्रीकृताश्च ये
dambho darpo'tha rāgaśca bhaktiḥ prītiḥ pramodanam |
dyūtaṃ ca janavādaśca sambandhāḥ strīkṛtāśca ye
नृत्यवादित्रगीतानां प्रसङ्गा ये च केचन ।
सर्व एते गुणा विप्रा राजसाः सम्प्रकीर्तिताः
nṛtyavāditragītānāṃ prasaṅgā ye ca kecana |
sarva ete guṇā viprā rājasāḥ samprakīrtitāḥ
भूतभव्यभविष्याणां भावानां भुवि भावनाः ।
त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि
bhūtabhavyabhaviṣyāṇāṃ bhāvānāṃ bhuvi bhāvanāḥ |
trivarganiratā nityaṃ dharmo'rthaḥ kāma ityapi
कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः ।
अर्वाक्स्रोतस इत्येते मनुष्या रजसा वृताः
kāmavṛttāḥ pramodante sarvakāmasamṛddhibhiḥ |
arvāksrotasa ityete manuṣyā rajasā vṛtāḥ
अस्मिँलोके प्रमोदन्ते जायमानाः पुनःपनः ।
प्रेत्यभाविकमीहन्ते हलौकिकमेव च ।
ददति प्रतिगृह्णन्ति तर्पयन्त्यथ जुह्वति
asmim̐loke pramodante jāyamānāḥ punaḥpanaḥ |
pretyabhāvikamīhante halaukikameva ca |
dadati pratigṛhṇanti tarpayantyatha juhvati
रजोगुणा वो बहुधानुकीर्तिता
यथावदुक्तं गुणवृत्तमेव च ।
नरोपि यो वेद गुणानिमान्सदा
स राजसैः सर्वगुणैर्विमुच्यते
rajoguṇā vo bahudhānukīrtitā
yathāvaduktaṃ guṇavṛttameva ca |
naropi yo veda guṇānimānsadā
sa rājasaiḥ sarvaguṇairvimucyate
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)