नेदमल्पात्मना शक्यं वेदितुं वाऽकृतात्मना ।
बहु चाल्पं च संक्षिप्तं विस्तृतं च मतं मम
nedamalpātmanā śakyaṃ vedituṃ vā'kṛtātmanā |
bahu cālpaṃ ca saṃkṣiptaṃ vistṛtaṃ ca mataṃ mama
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चत्रिंशोऽध्यायः ॥
12 श्लोक · 35 में से 118
ब्राह्मण कहता है कि यह ज्ञान छोटे मन से नहीं जाना जाता। साधन पूछने पर वह उपमा देता है: शिष्य नीचे की अरणि है, गुरु ऊपर की; तप और श्रुत से मन्थन होने पर ज्ञान की अग्नि प्रकट होती है। पत्नी पूछती है कि क्षेत्रज्ञ का लक्षण क्या है। वह उत्तर देता है कि उसका कोई चिह्न नहीं, वह निर्गुण है। मोक्ष के विषय में यह करो, यह मत करो, ऐसा उपदेश नहीं होता; देखने और सुनने वाले में बुद्धि स्वयं जागती है। श्रीकृष्ण कहते हैं कि तब ब्राह्मणी संशय से पार हुई। अर्जुन पूछते हैं कि वह ब्राह्मणी और वह ब्राह्मण कहाँ हैं। श्रीकृष्ण कहते हैं: मेरे मन को ब्राह्मण और मेरी बुद्धि को ब्राह्मणी जानो, और जिसे क्षेत्रज्ञ कहा गया, वह मैं ही हूँ, धनंजय।
ब्राह्मण उवाच
नेदमल्पात्मना शक्यं वेदितुं वाऽकृतात्मना ।
बहु चाल्पं च संक्षिप्तं विस्तृतं च मतं मम
nedamalpātmanā śakyaṃ vedituṃ vā'kṛtātmanā |
bahu cālpaṃ ca saṃkṣiptaṃ vistṛtaṃ ca mataṃ mama
उपायं तं मम ब्रूहि येनैषा लभ्यते मतिः ।
तन्मन्ये कारणं कर्म यत एषा प्रवर्तते
upāyaṃ taṃ mama brūhi yenaiṣā labhyate matiḥ |
tanmanye kāraṇaṃ karma yata eṣā pravartate
अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः ।
तपःश्रुतेभिमथिनी ज्ञानाग्निर्जायते ततः
araṇīṃ brāhmaṇīṃ viddhi gururasyottarāraṇiḥ |
tapaḥśrutebhimathinī jñānāgnirjāyate tataḥ
ब्राह्मणयुवाच
यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञ इति संज्ञितम् ।
ग्रहीतुं येन यच्छक्यं लक्षणं तस्य तद्वद
yadidaṃ brahmaṇo liṅgaṃ kṣetrajña iti saṃjñitam |
grahītuṃ yena yacchakyaṃ lakṣaṇaṃ tasya tadvada
ब्राह्मण उवाच
अलिङ्गो निर्गुणश्चैव कारणं नास्य विग्रहे ।
उपायमेव वक्ष्यामि येन गृह्येत भावना
aliṅgo nirguṇaścaiva kāraṇaṃ nāsya vigrahe |
upāyameva vakṣyāmi yena gṛhyeta bhāvanā
सम्यगप्युपदिष्टस्य ह्यमृतस्येव तृप्यसे ।
कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गान्निपातितः ।
samyagapyupadiṣṭasya hyamṛtasyeva tṛpyase |
karmabuddhirabuddhitvājjñānaliṅgānnipātitaḥ |
इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते ।
पश्यतः शृण्वतो बुद्धिरात्मनैवोपजायते
idaṃ kāryamidaṃ neti na mokṣeṣūpadiśyate |
paśyataḥ śṛṇvato buddhirātmanaivopajāyate
यावन्त इह शक्येरंस्तावतोंऽसान्प्रकल्पयेत् ।
अव्यक्तान्व्यक्तरूपांश्च शतशोऽथ सहस्रशः
yāvanta iha śakyeraṃstāvatoṃ'sānprakalpayet |
avyaktānvyaktarūpāṃśca śataśo'tha sahasraśaḥ
सर्वानुमानयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान् ।
यतः परं न विद्येत ततोऽभ्यासे भविष्यति
sarvānumānayuktāṃśca sarvānpratyakṣahetukān |
yataḥ paraṃ na vidyeta tato'bhyāse bhaviṣyati
श्रीभगवानुवाच
ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसंशये ।
क्षेत्रज्ञानेन परतः क्षेत्रज्ञोऽन्यः प्रवर्तते
tatastu tasyā brāhmaṇyā matiḥ kṣetrajñasaṃśaye |
kṣetrajñānena parataḥ kṣetrajño'nyaḥ pravartate
अर्जुन उवाच
क्व नु सा ब्राह्मणि कृष्ण क्व चासौ ब्राह्मणर्षभः ।
याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत
kva nu sā brāhmaṇi kṛṣṇa kva cāsau brāhmaṇarṣabhaḥ |
yābhyāṃ siddhiriyaṃ prāptā tāvubhau vada me'cyuta
श्रीभगवानुवाच
मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् ।
क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनंजय
mano me brāhmaṇaṃ viddhi buddhiṃ me viddhi brāhmaṇīm |
kṣetrajña iti yaścoktaḥ so'hameva dhanaṃjaya
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)