आश्वमेधिक पर्व

अध्याय 33: अनुगीता: जनक को अपना राज्य नहीं मिला

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्र्यस्त्रिंशोऽध्यायः ॥

26 श्लोक · 33 में से 118

इस अध्याय में क्या होता है

अनुगीता: जनक को अपना राज्य नहीं मिला

ब्राह्मण पत्नी को राजा जनक और एक अपराधी ब्राह्मण का संवाद सुनाता है। जनक ने उसे अपने राज्य से निकल जाने को कहा। ब्राह्मण ने पूछा कि आपका राज्य कहाँ तक है। जनक ने लम्बी साँस ली, मूर्च्छित हुए और सचेत होकर बोले कि मुझे अपना कोई राज्य नहीं मिलता, मिथिला में भी नहीं। या तो कुछ भी मेरा नहीं, या सब मेरा है; जहाँ चाहो रहो। मैं अपने लिए न गन्ध चाहता हूँ, न रस, न रूप, न स्पर्श, न शब्द, इसलिए पृथ्वी, जल, अग्नि, वायु, आकाश और मन मेरे वश में हैं; मेरे सब कर्म देवों, पितरों, भूतों और अतिथियों के लिए हैं। तब ब्राह्मण हँसकर बोले कि मैं धर्म हूँ, तुम्हारी परीक्षा लेने आया था।

ब्राह्मणि उवाच

33.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ब्राह्मणस्य च संवादं जनकस्य च भामिनि

atrāpyudāharantīmamitihāsaṃ purātanam |
brāhmaṇasya ca saṃvādaṃ janakasya ca bhāmini

33.2

ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागसि ।
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत्

brāhmaṇaṃ janako rājā sannaṃ kasmiṃścidāgasi |
viṣaye me na vastavyamiti śiṣṭyarthamabravīt

33.3

इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् ।
आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः

ityuktaḥ pratyuvācātha brāhmaṇo rājasattamam |
ācakṣva viṣayaṃ rājanyāvāṃstava vaśe sthitaḥ

33.4

सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो ।
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते

so'nyasya viṣaye rājño vastumicchāmyahaṃ vibho |
vacaste kartumicchāmi yathāśāstraṃ mahīpate

33.5

इत्युक्तस्तु तदा राजा ब्राह्मणेन यशस्विना ।
मुहुरुष्णं विनिःस्वस्य न किञ्चित्प्रत्यभाषत

ityuktastu tadā rājā brāhmaṇena yaśasvinā |
muhuruṣṇaṃ viniḥsvasya na kiñcitpratyabhāṣata

33.6

तमासीनं ध्यायमानं राजानममितौजसम् ।
कश्मलं सहसाऽगच्छद्भानुमन्तमिव ग्रहः

tamāsīnaṃ dhyāyamānaṃ rājānamamitaujasam |
kaśmalaṃ sahasā'gacchadbhānumantamiva grahaḥ

33.7

समाश्वास्य ततो राजा विगते कश्यमे तदा ।
ततो मूहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत्

samāśvāsya tato rājā vigate kaśyame tadā |
tato mūhūrtādiva taṃ brāhmaṇaṃ vākyamabravīt

33.8

पितृपैतामहे राज्ये वश्ये जनपदे सति ।
विषयं नाधिगच्छामि विचिन्वन्पृथिवीमहम्

pitṛpaitāmahe rājye vaśye janapade sati |
viṣayaṃ nādhigacchāmi vicinvanpṛthivīmaham

33.9

नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया ।
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया

nādhyagacchaṃ yadā pṛthvyāṃ mithilā mārgitā mayā |
nādhyagacchaṃ yadā tasyāṃ svaprajā mārgitā mayā

33.10

नाध्यगच्छं यदा तस्यां तदा मे कश्मलोऽभवत् ।
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता

nādhyagacchaṃ yadā tasyāṃ tadā me kaśmalo'bhavat |
tato me kaśmalasyānte matiḥ punarupasthitā

33.11

तदा न विषयं मन्ये सर्वो वा विषयो मम ।
आत्माऽपि चायं न मम सर्वा वा पृथिवी मम

tadā na viṣayaṃ manye sarvo vā viṣayo mama |
ātmā'pi cāyaṃ na mama sarvā vā pṛthivī mama

33.12

यथा मम तथाऽन्येषामिति मन्ये द्विजोत्तम ।
उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते

yathā mama tathā'nyeṣāmiti manye dvijottama |
uṣyatāṃ yāvadutsāho bhujyatāṃ yāvadiṣyate

ब्राह्मण उवाच

33.13

पितृपैतामहे राज्ये वश्ये जनपदे सति ।
ब्रूहि कां मतिमास्थाय ममत्वं वर्जितं त्वया

pitṛpaitāmahe rājye vaśye janapade sati |
brūhi kāṃ matimāsthāya mamatvaṃ varjitaṃ tvayā

33.14

कां वै बुद्धिं समाश्रित्य सर्वो वै विषयस्तव ।
नावैषि विषयं येन सर्वो वा विषयस्तव

kāṃ vai buddhiṃ samāśritya sarvo vai viṣayastava |
nāvaiṣi viṣayaṃ yena sarvo vā viṣayastava

जनक उवाच

33.15

अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु ।
नाध्यगच्छमहं तस्मान्ममेदमिति यद्भवेत्

antavanta ihārambhā viditāḥ sarvakarmasu |
nādhyagacchamahaṃ tasmānmamedamiti yadbhavet

33.16

कस्येदमिति कस्य स्वमिति वेदवचस्तथा ।
नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत्

kasyedamiti kasya svamiti vedavacastathā |
nādhyagacchamahaṃ buddhyā mamedamiti yadbhavet

33.17

एतां बुद्धिं समाश्रित्य ममत्वं वर्जितं मया ।
शृणु बुद्धिं च यां ज्ञात्वा सर्वत्र विषयो मम

etāṃ buddhiṃ samāśritya mamatvaṃ varjitaṃ mayā |
śṛṇu buddhiṃ ca yāṃ jñātvā sarvatra viṣayo mama

33.18

नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि ।
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा

nāhamātmārthamicchāmi gandhānghrāṇagatānapi |
tasmānme nirjitā bhūmirvaśe tiṣṭhati nityadā

33.19

नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः ।
आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा

nāhamātmārthamicchāmi rasānāsye'pi vartataḥ |
āpo me nirjitāstasmādvaśe tiṣṭhanti nityadā

33.20

नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषः ।
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा

nāhamātmārthamicchāmi rūpaṃ jyotiśca cakṣuṣaḥ |
tasmānme nirjitaṃ jyotirvaśe tiṣṭhati nityadā

33.21

नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये ।
तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा

nāhamātmārthamicchāmi sparśāṃstvaci gatāśca ye |
tasmānme nirjito vāyurvaśe tiṣṭhati nityadā

33.22

नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि ।
आकाशं मे जितं तस्माद्वशे तिष्ठति नित्यदा

nāhamātmārthamicchāmi śabdāñśrotragatānapi |
ākāśaṃ me jitaṃ tasmādvaśe tiṣṭhati nityadā

33.23

नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे ।
मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा

nāhamātmārthamicchāmi mano nityaṃ manontare |
mano me nirjitaṃ tasmādvaśe tiṣṭhati nityadā

33.24

देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह ।
इत्यर्थं सर्व एवेति समारम्भा भवन्ति वै

devebhyaśca pitṛbhyaśca bhūtebhyo'tithibhiḥ saha |
ityarthaṃ sarva eveti samārambhā bhavanti vai

33.25

ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत् ।
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम्

tataḥ prahasya janakaṃ brāhmaṇaḥ punarabravīt |
tvajjijñāsārthamadyeha viddhi māṃ dharmamāgatam

33.26

त्वमस्य ब्रह्मिनाभस्य दुर्वारस्यानिवर्तिनः ।
सत्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः

tvamasya brahminābhasya durvārasyānivartinaḥ |
satvaneminiruddhasya cakrasyaikaḥ pravartakaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)