आश्वमेधिक पर्व

अध्याय 25: अनुगीता: नारद देवमत संवाद और उदान

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चविशोऽध्यायः ॥

19 श्लोक · 25 में से 118

इस अध्याय में क्या होता है

अनुगीता: नारद देवमत संवाद और उदान

ब्राह्मण नारद और ऋषि देवमत का संवाद सुनाते हैं। देवमत पूछते हैं कि प्राणी के जन्म के समय पहले कौन सा प्राण चलता है। नारद बताते हैं कि संकल्प से और इन्द्रियों के विषयों से हर्ष उपजता है, और शोणित से मिले शुक्र में पहले प्राण चलता है; प्राण से शुक्र में विकार होने पर अपान चलता है। प्राण और अपान नीचे ऊपर चलने वाला जोड़ा हैं; व्यान और समान तिरछे चलते हैं। यज्ञ में समान और व्यान हवि हैं, प्राण और अपान दो आज्यभाग हैं और उनके बीच अग्नि है। हर द्वन्द्व के बीच, दिन और रात, सत्य और असत्य, सत् और असत्, शुभ और अशुभ के बीच वही अग्नि है, यही उदान का परम रूप है। उसकी शान्ति वामदेव्य साम है, और शान्ति ही सनातन ब्रह्म है।

ब्राह्मण उवाच

25.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादमृषेर्देवमतस्य च

atrāpyudāharantīmamitihāsaṃ purātanam |
nāradasya ca saṃvādamṛṣerdevamatasya ca

देवमत उवाच

25.2

जन्तोः संजायमानस्य किंनु पूर्वं प्रवर्तते ।
प्राणोऽपानः समानो वा व्यानो वोदान एव च

jantoḥ saṃjāyamānasya kiṃnu pūrvaṃ pravartate |
prāṇo'pānaḥ samāno vā vyāno vodāna eva ca

नारद उवाच

25.3

येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम् ।
प्राणद्वन्द्वं हि विज्ञेयं तिर्यगूर्ध्वमधश्च यत्

yenāyaṃ sṛjyate jantustato'nyaḥ pūrvameti tam |
prāṇadvandvaṃ hi vijñeyaṃ tiryagūrdhvamadhaśca yat

देवमत उवाच

25.4

केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् ।
प्राणद्वन्द्वं च मे ब्रूहि तिर्यगूर्ध्वमधश्च यत्

kenāyaṃ sṛjyate jantuḥ kaścānyaḥ pūrvameti tam |
prāṇadvandvaṃ ca me brūhi tiryagūrdhvamadhaśca yat

नारद उवाच

25.5

सङ्कल्पाज्जायते हर्षः शब्दादपि च जायते ।
रसात्संजायते चापि रूपादपि च जायते

saṅkalpājjāyate harṣaḥ śabdādapi ca jāyate |
rasātsaṃjāyate cāpi rūpādapi ca jāyate

25.6

स्पर्शात्संजायते चापि गन्धादपि च जायते ।
शुक्राच्छोणितसंसृष्टात्पूर्वं प्राणः प्रवर्तते ।
प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते

sparśātsaṃjāyate cāpi gandhādapi ca jāyate |
śukrācchoṇitasaṃsṛṣṭātpūrvaṃ prāṇaḥ pravartate |
prāṇena vikṛte śukre tato'pānaḥ pravartate

25.7

शुक्रात्संजायते चापि रसादपि च जायते ।
एतद्रूपमुदानस्य हर्षो मिथुनमन्तरा

śukrātsaṃjāyate cāpi rasādapi ca jāyate |
etadrūpamudānasya harṣo mithunamantarā

25.8

कामात्संजायते शुक्रं शुक्रात्संजायते रजः ।
समानव्यानजनिते सामान्ये शुक्रशोणिते

kāmātsaṃjāyate śukraṃ śukrātsaṃjāyate rajaḥ |
samānavyānajanite sāmānye śukraśoṇite

25.9

प्राणापानाविदं द्वन्द्वमवाक् चोर्ध्वं च गच्छतः ।
व्यानः समानश्चैवोभौ तिर्यग्द्वन्द्वत्वमुच्यते

prāṇāpānāvidaṃ dvandvamavāk cordhvaṃ ca gacchataḥ |
vyānaḥ samānaścaivobhau tiryagdvandvatvamucyate

25.10

अग्निर्वै देवताः सर्वा इति देवस्य शासनात् ।
संजायते हि प्राणेषु ज्ञानं बुद्धिसमन्वितम्

agnirvai devatāḥ sarvā iti devasya śāsanāt |
saṃjāyate hi prāṇeṣu jñānaṃ buddhisamanvitam

25.11

तस्य धूमस्तमोरूपं रजो भस्म सुतेजसः ।
सर्वं संजायते तस्य यत्र प्रक्षिप्यते हविः

tasya dhūmastamorūpaṃ rajo bhasma sutejasaḥ |
sarvaṃ saṃjāyate tasya yatra prakṣipyate haviḥ

25.12

हविः समानो व्यानश्च इति यज्ञविदो विदुः ।
प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः

haviḥ samāno vyānaśca iti yajñavido viduḥ |
prāṇāpānāvājyabhāgau tayormadhye hutāśanaḥ

25.13

एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ।
निर्द्वन्द्वमिति यत्त्वेतत्तन्मे निगदतः शृणुः

etadrūpamudānasya paramaṃ brāhmaṇā viduḥ |
nirdvandvamiti yattvetattanme nigadataḥ śṛṇuḥ

25.14

अहोरात्रमिदं द्वन्द्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः

ahorātramidaṃ dvandvaṃ tayormadhye hutāśanaḥ |
etadrūpamudānasya paramaṃ brāhmaṇā viduḥ

25.15

उभे सत्यानृते द्वन्द्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः

ubhe satyānṛte dvandvaṃ tayormadhye hutāśanaḥ |
etadrūpamudānasya paramaṃ brāhmaṇā viduḥ

25.16

सच्चासच्चैव तद्द्वन्द्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः

saccāsaccaiva taddvandvaṃ tayormadhye hutāśanaḥ |
etadrūpamudānasya paramaṃ brāhmaṇā viduḥ

25.17

उभे शुभाशुभे द्वन्द्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः

ubhe śubhāśubhe dvandvaṃ tayormadhye hutāśanaḥ |
etadrūpamudānasya paramaṃ brāhmaṇā viduḥ

25.18

ऊर्ध्वं समानो व्यानश्च व्यस्यते कर्म तेन तत् ।
द्वितीयं तु समानेन पुनरेव व्यवस्यते

ūrdhvaṃ samāno vyānaśca vyasyate karma tena tat |
dvitīyaṃ tu samānena punareva vyavasyate

25.19

शान्त्यर्थं वामदेव्यं च शान्तिर्ब्रह्म सनातनम् ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः

śāntyarthaṃ vāmadevyaṃ ca śāntirbrahma sanātanam |
etadrūpamudānasya paramaṃ brāhmaṇā viduḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)