आश्वमेधिक पर्व

अध्याय 109: भोजन की विधि; गौ, तिल और ईख

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि नवाधिकशततमोऽध्यायः ॥

39 श्लोक · 109 में से 118

इस अध्याय में क्या होता है

भोजन की विधि; गौ, तिल और ईख

युधिष्ठिर पूछते हैं कि द्विज भोजन कैसे करे। श्रीकृष्ण विधि बताते हैं: स्नान करके, गीले पैरों से, बने मण्डल में पवित्र आसन पर पूर्वमुख बैठे, अन्न को प्रणाम करे, उसके चारों ओर जल फेरे, और मन्त्रसहित पाँच प्राणाहुतियाँ दे। कौर मुँह के माप का हो। मुँह से गिरा, बाल, कीड़े या पैर से छुआ अन्न और दूसरे का जूठा राक्षसों का अन्न है, जिसका प्रायश्चित्त चान्द्रायण है। न अधिक खाए, न बहुत कम। बैल पिता और गौएँ जगत की माताएँ हैं; जो वर्षभर प्रतिदिन मन्त्र पढ़कर पराई गौ को मुट्ठीभर घास देता है, उसके पाप नष्ट होते हैं। नारायण से उत्पन्न तिल पवित्र है; ब्राह्मण उसे न बेचे, न कोल्हू में पेरे। ईख से सोम उत्पन्न हुआ, अतः ब्राह्मण उसे भी यन्त्र में न पेरे।

युधिष्ठिर उवाच

109.1

अन्नदानफलं श्रुत्वा प्रीतोस्मि मधुसूदन ।
भोजनस्य विधिं वक्तुं देवदेव त्वमर्हसि

annadānaphalaṃ śrutvā prītosmi madhusūdana |
bhojanasya vidhiṃ vaktuṃ devadeva tvamarhasi

भगवानुवाच

109.2

बोजनस्य द्विजातीनां विधानं शृणु पाण्डव ।
स्नातः शुचिः शुचौ देशे निर्जने हुतपावकः

bojanasya dvijātīnāṃ vidhānaṃ śṛṇu pāṇḍava |
snātaḥ śuciḥ śucau deśe nirjane hutapāvakaḥ

109.3

मण्डलं कारयित्वा च चतुरश्रं द्विजोत्तमः ।
क्षत्रियश्चेत्ततो वृत्तं वैश्योऽर्धेन्दुसमाकृतिम्

maṇḍalaṃ kārayitvā ca caturaśraṃ dvijottamaḥ |
kṣatriyaścettato vṛttaṃ vaiśyo'rdhendusamākṛtim

109.4

आर्द्रपादस्तु भुञ्जीयात्प्राङ्मुखश्चासने शुचौ ।
पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः

ārdrapādastu bhuñjīyātprāṅmukhaścāsane śucau |
pādābhyāṃ dharaṇīṃ spṛṣṭvā pādenaikena vā punaḥ

109.5

नैकवासास्तु भुञ्जीयान्न चान्तर्धाय वा द्विजः ।
न भिन्नपात्रे भुञ्जीत पर्णपृष्ठे तथैव च

naikavāsāstu bhuñjīyānna cāntardhāya vā dvijaḥ |
na bhinnapātre bhuñjīta parṇapṛṣṭhe tathaiva ca

109.6

अन्नं पूर्वं नमस्कुर्यात्प्रहृष्टेनान्तरात्मना ।
नान्यदालोकयेदन्नान्न जुगुप्सेन तत्परः

annaṃ pūrvaṃ namaskuryātprahṛṣṭenāntarātmanā |
nānyadālokayedannānna jugupsena tatparaḥ

109.7

जुगुप्सितं च यच्चान्नं राक्षसा एव भुञ्जते ।
पाणिना जलमुद्धृत्य कुर्यादन्नं प्रदक्षिणम्

jugupsitaṃ ca yaccānnaṃ rākṣasā eva bhuñjate |
pāṇinā jalamuddhṛtya kuryādannaṃ pradakṣiṇam

109.8

अपेयं तद्विजानीयात्पीत्वा चान्द्रायणं चरेत् ।
परिवेषजलादन्यत्पेयमेव तु मन्त्रवत्

apeyaṃ tadvijānīyātpītvā cāndrāyaṇaṃ caret |
pariveṣajalādanyatpeyameva tu mantravat

109.9

पञ्च प्राणाहुतीः कुर्यात्समन्त्रं तु पृथक्पृथक्

pañca prāṇāhutīḥ kuryātsamantraṃ tu pṛthakpṛthak

109.10

यथा रसं न जानाति जिह्वा प्रामाहुतौ नृप ।
तथा समाहितः कुर्यात्प्राणाहुतिमतन्द्रिकतः

yathā rasaṃ na jānāti jihvā prāmāhutau nṛpa |
tathā samāhitaḥ kuryātprāṇāhutimatandrikataḥ

109.11

विदित्वाऽन्नमथान्नादं पञ्च प्राणांश्च पाण्डव ।
यः कुर्यादाहुतीः पञ्च तेनेष्टाः पञ्चवायवः

viditvā'nnamathānnādaṃ pañca prāṇāṃśca pāṇḍava |
yaḥ kuryādāhutīḥ pañca teneṣṭāḥ pañcavāyavaḥ

109.12

अतोऽन्यथा तु भुञ्जानो ब्राह्मणो ज्ञानदुर्बलः ।
तेनान्नेनासुरान्प्रेतान्राक्षसांस्तर्पयिष्यति

ato'nyathā tu bhuñjāno brāhmaṇo jñānadurbalaḥ |
tenānnenāsurānpretānrākṣasāṃstarpayiṣyati

109.13

वक्त्रप्रमाणान्पिण्डांश्च ग्रसेदेकैकशः पुनः ।
वक्त्राधिकं तु यत्पिण्डमात्मोच्छिष्टं तदुच्यते

vaktrapramāṇānpiṇḍāṃśca grasedekaikaśaḥ punaḥ |
vaktrādhikaṃ tu yatpiṇḍamātmocchiṣṭaṃ taducyate

109.14

पिण्डावशिष्टमन्यच्च वक्त्रान्निस्सृतमेव च ।
अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत्

piṇḍāvaśiṣṭamanyacca vaktrānnissṛtameva ca |
abhojyaṃ tadvijānīyādbhuktvā cāndrāyaṇaṃ caret

109.15

स्वमुच्छिष्टं तु यो भुङ्क्ते यो भुङ्क्ते मुक्तभोजनम् ।
चान्द्रायणं चरेन्कृच्छ्रं प्राजापत्यमथापि वा

svamucchiṣṭaṃ tu yo bhuṅkte yo bhuṅkte muktabhojanam |
cāndrāyaṇaṃ carenkṛcchraṃ prājāpatyamathāpi vā

109.16

स्त्रीपात्रभुङ्नरः पापः स्त्रीणामुच्छिष्टभुक्तथा ।
तया सह च यो भुङ्क्ते स भुङ्क्ते मद्यमेव हि ।
न तस्य निष्कृतिर्दृष्टा मुनिभिस्तत्वदर्शिभिः

strīpātrabhuṅnaraḥ pāpaḥ strīṇāmucchiṣṭabhuktathā |
tayā saha ca yo bhuṅkte sa bhuṅkte madyameva hi |
na tasya niṣkṛtirdṛṣṭā munibhistatvadarśibhiḥ

109.17

पिबतः पतिते तोये भोजने मुखनिस्सृते ।
अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत्

pibataḥ patite toye bhojane mukhanissṛte |
abhojyaṃ tadvijānīyādbhuktvā cāndrāyaṇaṃ caret

109.18

पीतशेषं तु तन्नाम न पेयं पाण्डुनन्दन ।
पिबेद्यदि हि तन्मोहाद्द्विजश्चान्द्रायणं चरेत्

pītaśeṣaṃ tu tannāma na peyaṃ pāṇḍunandana |
pibedyadi hi tanmohāddvijaścāndrāyaṇaṃ caret

109.19

पानीयानि पिबेद्यते तत्पात्रं द्विजसत्तमः ।
अनुच्छिष्टं भवेत्तावद्यावद्भूमौ न निक्षिपेत्

pānīyāni pibedyate tatpātraṃ dvijasattamaḥ |
anucchiṣṭaṃ bhavettāvadyāvadbhūmau na nikṣipet

109.20

मौनी वाऽप्यथवा भूमौ नावलोक्य दिशस्तथा ।
भुञ्जीत विधिवद्विप्रो न चोच्छिष्टं प्रदापयेत्

maunī vā'pyathavā bhūmau nāvalokya diśastathā |
bhuñjīta vidhivadvipro na cocchiṣṭaṃ pradāpayet

109.21

सदा चात्यशनं नाद्यान्नातिहीनं च कर्हिचित् ।
यथाऽन्नेन व्यथा न स्यात्तथा भुञ्जीत नित्यशः

sadā cātyaśanaṃ nādyānnātihīnaṃ ca karhicit |
yathā'nnena vyathā na syāttathā bhuñjīta nityaśaḥ

109.22

उदक्यामपि चण्डालं श्वानं सूकरमेव वा ।
भुञ्जानो यदि वा पश्येत्तदन्नं च परित्यजेत् ।
भुञ्जानो ह्यत्यजन्मोहाद्द्विजश्चान्द्रायणं चरेत्

udakyāmapi caṇḍālaṃ śvānaṃ sūkarameva vā |
bhuñjāno yadi vā paśyettadannaṃ ca parityajet |
bhuñjāno hyatyajanmohāddvijaścāndrāyaṇaṃ caret

109.23

केशकीटोपपन्नं च मुखमारुतवीजितम् ।
अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत्

keśakīṭopapannaṃ ca mukhamārutavījitam |
abhojyaṃ tadvijānīyādbhuktvā cāndrāyaṇaṃ caret

109.24

उत्थाय च पुनः स्पृष्टं पादस्पृष्टं च लङ्घितम् ।
अन्नं तद्राक्षसं विद्यात्तस्मात्तत्परिवर्जयेत्

utthāya ca punaḥ spṛṣṭaṃ pādaspṛṣṭaṃ ca laṅghitam |
annaṃ tadrākṣasaṃ vidyāttasmāttatparivarjayet

109.25

राक्षसोच्छिष्टभुग्विप्रः सप्त पूर्वान्परानपि ।
नरके रौरवे घोर स पितॄन्पातयिष्यति

rākṣasocchiṣṭabhugvipraḥ sapta pūrvānparānapi |
narake raurave ghora sa pitṝnpātayiṣyati

109.26

तस्मिन्नाचमनं कुर्याद्यस्मिन्पात्रे स भुक्तवान् ।
यद्युत्तिष्ठत्यनाचान्तो भुक्तवानासनात्ततः ।
स्नानं सद्यः प्रकुर्वीत सोन्यथाऽप्रयतो भवेत्

tasminnācamanaṃ kuryādyasminpātre sa bhuktavān |
yadyuttiṣṭhatyanācānto bhuktavānāsanāttataḥ |
snānaṃ sadyaḥ prakurvīta sonyathā'prayato bhavet

युधिष्ठिर उवाच

109.27

तृणमुष्टिविधानं च तृणमाहात्म्यमेव च ।
इक्षोः सोमसमुद्भूतिं वक्तुमर्हसि मानदः

tṛṇamuṣṭividhānaṃ ca tṛṇamāhātmyameva ca |
ikṣoḥ somasamudbhūtiṃ vaktumarhasi mānadaḥ

भगवानुवाच

109.28

पितरो वृषभा ज्ञेयो गावो लोकस्य मातरः ।
तासां तु पूजया राजन्पूजिताः पितृदेवताः

pitaro vṛṣabhā jñeyo gāvo lokasya mātaraḥ |
tāsāṃ tu pūjayā rājanpūjitāḥ pitṛdevatāḥ

109.29

सभा प्रपा गृहाश्चापि देवतायतनानि च ।
शुद्ध्यन्ति शकृता यासांकिं भूतमधिकं ततः

sabhā prapā gṛhāścāpi devatāyatanāni ca |
śuddhyanti śakṛtā yāsāṃkiṃ bhūtamadhikaṃ tataḥ

109.30

ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः ।
अकृत्वा स्वयमाहारं प्राप्तस्तत्सार्वकालिकम्

grāsamuṣṭiṃ paragave dadyātsaṃvatsaraṃ tu yaḥ |
akṛtvā svayamāhāraṃ prāptastatsārvakālikam

109.31

गावो मे मातरः सर्वाः पितरश्चैव गोवृषाः ।
ग्रासमुष्टिं मया दत्तं प्रतिगृह्णीत मातरः

gāvo me mātaraḥ sarvāḥ pitaraścaiva govṛṣāḥ |
grāsamuṣṭiṃ mayā dattaṃ pratigṛhṇīta mātaraḥ

109.32

इत्युक्त्वाऽनेन मन्त्रेण गायत्र्या वा समाहितः ।
अभिमन्त्र्य ग्रासमुष्टिं तस्य पुण्यफलं शृणु

ityuktvā'nena mantreṇa gāyatryā vā samāhitaḥ |
abhimantrya grāsamuṣṭiṃ tasya puṇyaphalaṃ śṛṇu

109.33

यत्कृतं दुष्कृतं तेन ज्ञानतोऽज्ञानतोपि वा ।
तस्य नश्यति तत्सर्वं दुःखप्नं च विनश्यति

yatkṛtaṃ duṣkṛtaṃ tena jñānato'jñānatopi vā |
tasya naśyati tatsarvaṃ duḥkhapnaṃ ca vinaśyati

109.34

तिलाः पिवित्राः पापघ्ना नारायणसमुद्भवाः ।
तिलाञ्श्राद्धे प्रशंसनति दानमेतदनुत्तमम्

tilāḥ pivitrāḥ pāpaghnā nārāyaṇasamudbhavāḥ |
tilāñśrāddhe praśaṃsanati dānametadanuttamam

109.35

तिलान्दद्यात्तिलान्भक्ष्यात्तिलानप्रातरुपस्पृशेत् ।
तिलंतिलमिति ब्रूयात्तिलाः पापहरा हि ते

tilāndadyāttilānbhakṣyāttilānaprātarupaspṛśet |
tilaṃtilamiti brūyāttilāḥ pāpaharā hi te

109.36

क्रीत्वा प्रतिगृहीत्वा वा न विक्रेया द्विजातिभिः ।
भोजनाभ्यञ्जनाद्दानाद्योन्यत्तु कुरुते तिलैः ।
कृमिर्भूत्वा श्वविष्ठायां पितृभिः सह मज्जति

krītvā pratigṛhītvā vā na vikreyā dvijātibhiḥ |
bhojanābhyañjanāddānādyonyattu kurute tilaiḥ |
kṛmirbhūtvā śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati

109.37

तिलान्नपीडयेद्विप्रो यन्त्रचक्रे स्वयं नृप ।
पीडयन्हि द्विजो मोहान्नरकं याति रौरवम्

tilānnapīḍayedvipro yantracakre svayaṃ nṛpa |
pīḍayanhi dvijo mohānnarakaṃ yāti rauravam

109.38

इक्षुवंशोद्भवः सोमः सोमवंशोद्भवा द्विजाः ।
इक्षुं न पीडयेत्तस्मादिक्षुघात्यात्मघातकः

ikṣuvaṃśodbhavaḥ somaḥ somavaṃśodbhavā dvijāḥ |
ikṣuṃ na pīḍayettasmādikṣughātyātmaghātakaḥ

109.39

इक्षुदण्डसहस्राणामेकैकेन युधिष्ठिर ।
ब्रह्महत्यामवाप्नोति द्विजश्चेद्यन्त्रपीडकः ।
तस्मान्न पीडयेदिक्षुं यन्त्रचक्रे द्विजोत्तमः

ikṣudaṇḍasahasrāṇāmekaikena yudhiṣṭhira |
brahmahatyāmavāpnoti dvijaścedyantrapīḍakaḥ |
tasmānna pīḍayedikṣuṃ yantracakre dvijottamaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)