आश्रमवासिक पर्व

अध्याय 8: सन्धि, विग्रह, सेना और राजा का पुण्य

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि अष्टमोऽध्यायः ॥

23 श्लोक · 8 में से 41

इस अध्याय में क्या होता है

सन्धि, विग्रह, सेना और राजा का पुण्य

धृतराष्ट्र अपनी शिक्षा पूरी करते हैं। सन्धि और विग्रह को उनके अनेक रूपों में तौलो। चढ़ाई से पहले अपनी और शत्रु की तीन शक्तियाँ आँको: उत्साह, प्रभुत्व और मन्त्र। छह प्रकार की सेना जुटाओ, मौल, मित्र, वनवासी, भृत, श्रेणी और शत्रु से टूटे लोग; इनमें मौल और मित्र सेना श्रेष्ठ है। आपदाओं का सामना साम आदि उपायों से करो। सेना प्रसन्न और पुष्ट हो तब चढ़ाई करो, उशना के शास्त्र के शकट और पद्म जैसे व्यूह काम में लो। धर्म से प्रजा की रक्षा करने वाला राजा स्वर्ग पाता है; यह सहस्र अश्वमेधों के बराबर फल है। वे कहते हैं, भीष्म, श्रीकृष्ण और विदुर तुम्हें यह सब बता चुके हैं; मैं स्नेह से कह रहा हूँ।

धृतराष्ट्र उवाच

8.1

सन्धिविग्रहमप्यत्र पश्येथा राजसत्तम ।
द्वियोनिं विविधोपायं बहुकल्पं युधिष्ठिर

sandhivigrahamapyatra paśyethā rājasattama |
dviyoniṃ vividhopāyaṃ bahukalpaṃ yudhiṣṭhira

8.2

कौरव्य पर्युपासीथाः स्थित्वा द्वैविध्यमात्मनः ।
तुष्टपुष्टजनः शत्रुरर्थवानिति च स्मरेत्

kauravya paryupāsīthāḥ sthitvā dvaividhyamātmanaḥ |
tuṣṭapuṣṭajanaḥ śatrurarthavāniti ca smaret

8.3

पर्युपासनकाले तु विपरीतं विधीयते ।
आमर्दकाले राजेन्द्र व्यवसायस्ततोऽपरः

paryupāsanakāle tu viparītaṃ vidhīyate |
āmardakāle rājendra vyavasāyastato'paraḥ

8.4

व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः ।
कर्षणं भीषणं चैव युद्धे चैव बहुक्षयम्

vyasanaṃ bhedanaṃ caiva śatrūṇāṃ kārayettataḥ |
karṣaṇaṃ bhīṣaṇaṃ caiva yuddhe caiva bahukṣayam

8.5

प्रयास्यमानो नृपतिस्त्रिविधं परिचिन्तयेत् ।
आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः

prayāsyamāno nṛpatistrividhaṃ paricintayet |
ātmanaścaiva śatrośca śaktiṃ śāstraviśāradaḥ

8.6

उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत ।
उपपन्नो नृपो यायाद्विपरीतं च वर्जयेत्

utsāhaprabhuśaktibhyāṃ mantraśaktyā ca bhārata |
upapanno nṛpo yāyādviparītaṃ ca varjayet

8.7

आददीत बलं राजा मौलं मित्रबलं तथा ।
अटवीबलं भृतं चैव तता श्रेणीबलं प्रभो

ādadīta balaṃ rājā maulaṃ mitrabalaṃ tathā |
aṭavībalaṃ bhṛtaṃ caiva tatā śreṇībalaṃ prabho

8.8

मित्रामित्रबलं राजन्न्यायाद्वृद्ध्युदये धृतः ।
तत्र मित्रबलं राजन्मौलं चैव विशिष्यते ।
श्रेणीबलं भृतं चैव तुल्ये एवेति मे मतिः

mitrāmitrabalaṃ rājannyāyādvṛddhyudaye dhṛtaḥ |
tatra mitrabalaṃ rājanmaulaṃ caiva viśiṣyate |
śreṇībalaṃ bhṛtaṃ caiva tulye eveti me matiḥ

8.9

तथाऽऽचारबलं चैव परस्परसमं नृप ।
विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते

tathā''cārabalaṃ caiva parasparasamaṃ nṛpa |
vijñeyaṃ balakāleṣu rājñā kāla upasthite

8.10

आपदश्चापि बोद्धव्या बहुरूपा नराधिप ।
भवन्ति राज्ञा कौरव्य यास्ताः पृथगतः शृणु

āpadaścāpi boddhavyā bahurūpā narādhipa |
bhavanti rājñā kauravya yāstāḥ pṛthagataḥ śṛṇu

8.11

विकल्पा बहुधा राजन्नापदां पाण्डुनन्दन ।
सामादिभिरुपन्यस्य गमयेत्तान्नृपः सदा

vikalpā bahudhā rājannāpadāṃ pāṇḍunandana |
sāmādibhirupanyasya gamayettānnṛpaḥ sadā

8.12

यात्रां गच्छेद्बलैर्युक्तो राजा षड्भिः परंतप ।
युक्तश्च देशकालाभ्यां बलैरात्मगुणैस्तथा

yātrāṃ gacchedbalairyukto rājā ṣaḍbhiḥ paraṃtapa |
yuktaśca deśakālābhyāṃ balairātmaguṇaistathā

8.13

हृष्टपुष्टबलो गच्छेद्राजा वृद्ध्युदये रतः ।
अकृशश्चाप्यथो यायादनृतावपि पाण्डव

hṛṣṭapuṣṭabalo gacchedrājā vṛddhyudaye rataḥ |
akṛśaścāpyatho yāyādanṛtāvapi pāṇḍava

8.14

तूणाश्मानं वाजिरथप्रवाहां
ध्वजद्रुमैः संवृतकूलरोधसम् ।
पदातिनागैर्बहुकर्दमां नदीं
सपत्नानाशे नृपतिः प्रयोजयेत्

tūṇāśmānaṃ vājirathapravāhāṃ
dhvajadrumaiḥ saṃvṛtakūlarodhasam |
padātināgairbahukardamāṃ nadīṃ
sapatnānāśe nṛpatiḥ prayojayet

8.15

अथोपपत्त्या शकटं पद्मवज्रं च भारत ।
उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो

athopapattyā śakaṭaṃ padmavajraṃ ca bhārata |
uśanā veda yacchāstraṃ tatraitadvihitaṃ vibho

8.16

चारयित्वा परबलं कृत्वा स्वबलदर्शनम् ।
स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च

cārayitvā parabalaṃ kṛtvā svabaladarśanam |
svabhūmau yojayedyuddhaṃ parabhūmau tathaiva ca

8.17

बलं प्रसादयेद्राजा निक्षिपेद्बलनो नरान् ।
ज्ञात्वा स्वविषयं तत्र सामादिभिरुपक्रमेत्

balaṃ prasādayedrājā nikṣipedbalano narān |
jñātvā svaviṣayaṃ tatra sāmādibhirupakramet

8.18

सर्वथैव महाराज शरीरं धारयेदिह ।
प्रेत्य चेह च कर्तव्यमात्मनिःश्रेयसं परम्

sarvathaiva mahārāja śarīraṃ dhārayediha |
pretya ceha ca kartavyamātmaniḥśreyasaṃ param

8.19

एवं कुर्वञ्शुभा वाचो लोकेऽस्मिञ्शृणु ते नृप ।
प्रेत्य स्वर्गमवाप्नोति प्रजा धर्मेणि पालयन्

evaṃ kurvañśubhā vāco loke'smiñśṛṇu te nṛpa |
pretya svargamavāpnoti prajā dharmeṇi pālayan

8.20

एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजासु वै ।
उभयोर्लोकयोस्तात प्राप्तये नित्यमेव हि

evaṃ tvayā kuruśreṣṭha vartitavyaṃ prajāsu vai |
ubhayorlokayostāta prāptaye nityameva hi

8.21

भीष्मेण सर्वमुक्तोसि कृष्णेन विदुरेण च ।
मयाऽप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम

bhīṣmeṇa sarvamuktosi kṛṣṇena vidureṇa ca |
mayā'pyavaśyaṃ vaktavyaṃ prītyā te nṛpasattama

8.22

एतत्सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण ।
प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि

etatsarvaṃ yathānyāyaṃ kurvīthā bhūridakṣiṇa |
priyastathā prajānāṃ tvaṃ svarge sukhamavāpsyasi

8.23

अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः ।
पालयेद्वाऽपि धर्मेणि प्रजास्तुल्यं फलं लभेत्

aśvamedhasahasreṇa yo yajetpṛthivīpatiḥ |
pālayedvā'pi dharmeṇi prajāstulyaṃ phalaṃ labhet

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)