आश्रमवासिक पर्व

अध्याय 7: राजमण्डल और षाड्गुण्य की शिक्षा

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि सप्तमोऽध्यायः ॥

20 श्लोक · 7 में से 41

इस अध्याय में क्या होता है

राजमण्डल और षाड्गुण्य की शिक्षा

धृतराष्ट्र राजनीति की शिक्षा आगे बढ़ाते हैं। राजमण्डल को जानो: उदासीन, मध्यम, चार प्रकार के शत्रु, मित्र और शत्रु का मित्र। नीतिज्ञ आचार्य इसे मण्डल कहते हैं, और इसी से षाड्गुण्य निकलता है। जब अपना पक्ष बलवान और शत्रु दुर्बल हो, तब चढ़ाई करो। जब शत्रु बलवान हो, तब सन्धि करो और धन जोड़ो। सन्धि सोच-समझकर करो और शरण आए सामन्त की हिंसा न करो। सज्जनों को अपनाओ, दुष्टों को रोको, और बलवान दुर्बल का पीछा न करे। बलवान राजा आक्रमण करे तो बेंत की तरह झुको और साम से उसे लौटाओ; सब विफल हो तो कोष और विश्वस्त लोगों के साथ निकलकर प्राण बचाओ।

धृतराष्ट्र उवाच

7.1

मण्डलानि च बुध्येथाः परेषामात्मनस्तथा ।
उदासीनगुणानां च मध्यस्थानां च भारत

maṇḍalāni ca budhyethāḥ pareṣāmātmanastathā |
udāsīnaguṇānāṃ ca madhyasthānāṃ ca bhārata

7.2

चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम् ।
मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन

caturṇāṃ śatrujātānāṃ sarveṣāmātatāyinām |
mitraṃ cāmitramitraṃ ca boddhavyaṃ te'rikarśana

7.3

अथ नानाजनपदा दुर्गाणि विविधानि च ।
बलानि च कुरुश्रेष्ठ भवत्येषां यथेच्छकम्

atha nānājanapadā durgāṇi vividhāni ca |
balāni ca kuruśreṣṭha bhavatyeṣāṃ yathecchakam

7.4

ते च द्वादश कौन्तेय राजानो विविधात्मकाः ।
मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो

te ca dvādaśa kaunteya rājāno vividhātmakāḥ |
mantripradhānāśca guṇāḥ ṣaṣṭirdvādaśa ca prabho

7.5

एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः ।
अत्र षाड्गुण्यमाचत्तं युधिष्ठिर निबोध तत्

etanmaṇḍalamityāhurācāryā nītikovidāḥ |
atra ṣāḍguṇyamācattaṃ yudhiṣṭhira nibodha tat

7.6

वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुसत्तम ।
द्विसप्तत्यां महाबाहो ततः षाड्गुण्यजा गुणाः

vṛddhikṣayau ca vijñeyau sthānaṃ ca kurusattama |
dvisaptatyāṃ mahābāho tataḥ ṣāḍguṇyajā guṇāḥ

7.7

यथा स्वपक्षो बलवान्परपक्षस्तथा बलः ।
विगृह्य शत्रून्कौन्तेय यायात्क्षितिपतिस्तदा

yathā svapakṣo balavānparapakṣastathā balaḥ |
vigṛhya śatrūnkaunteya yāyātkṣitipatistadā

7.8

यदा परे च बलिनः स्वपक्षश्चैव दुर्बलः ।
सार्धं विद्वांस्तदा क्षीणः परैः सन्धिं मसाश्रयेत्

yadā pare ca balinaḥ svapakṣaścaiva durbalaḥ |
sārdhaṃ vidvāṃstadā kṣīṇaḥ paraiḥ sandhiṃ masāśrayet

7.9

द्रव्याणां सञ्चयश्चैव कर्तव्यः सुमहांस्तथा ।
यदा समर्था यानाय नचिरेणैव भारत

dravyāṇāṃ sañcayaścaiva kartavyaḥ sumahāṃstathā |
yadā samarthā yānāya nacireṇaiva bhārata

7.10

तदा सर्वं विधेयं स्यात्स्थानेन च विचारयेत् ।
भूमिरल्पफला देया विपरीतस्य भारत

tadā sarvaṃ vidheyaṃ syātsthānena ca vicārayet |
bhūmiralpaphalā deyā viparītasya bhārata

7.11

हिरण्यरूप्यभूयिष्ठं मित्रं क्षीणमकोशभृत् ।
विपरीतं निगृह्णीयात्स्वयं सन्धिविशारदः

hiraṇyarūpyabhūyiṣṭhaṃ mitraṃ kṣīṇamakośabhṛt |
viparītaṃ nigṛhṇīyātsvayaṃ sandhiviśāradaḥ

7.12

सन्ध्यर्थं राजपुत्रं वा लिप्सेथा भरतर्षभ ।
विपरीतं न तच्छ्रेयः पुत्र कस्यांचिदापदि

sandhyarthaṃ rājaputraṃ vā lipsethā bharatarṣabha |
viparītaṃ na tacchreyaḥ putra kasyāṃcidāpadi

7.13

तस्याः प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित् ।
प्रकृतीनां च राजेन्द्र राजा दीनान्विभावयेत्

tasyāḥ pramokṣe yatnaṃ ca kuryāḥ sopāyamantravit |
prakṛtīnāṃ ca rājendra rājā dīnānvibhāvayet

7.14

क्रमेणि युगपद्बुध्वा व्यसनानां बलाबलम् ।
पीडनं स्तंभनं चैव कोशभङ्गस्तथैव च

krameṇi yugapadbudhvā vyasanānāṃ balābalam |
pīḍanaṃ staṃbhanaṃ caiva kośabhaṅgastathaiva ca

7.15

कार्यं यत्नेन शत्रूणां स्वराज्यं रक्षता स्वयम् ।
न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता

kāryaṃ yatnena śatrūṇāṃ svarājyaṃ rakṣatā svayam |
na ca hiṃsyo'bhyupagataḥ sāmanto vṛddhimicchatā

7.16

कौन्तेय तद्धितं ते स्यात्पृथिवीं विजिगीषतः ।
गुणानां भेदने योगमीप्सेथाः सह मन्त्रिभिः

kaunteya taddhitaṃ te syātpṛthivīṃ vijigīṣataḥ |
guṇānāṃ bhedane yogamīpsethāḥ saha mantribhiḥ

7.17

साधुसङ्ग्रहणाच्चैव पापनिग्रहणात्तथा ।
आत्मसात्करणे नित्यं पालनानि गृहे तथा ।
दुर्बलाश्चैव सततं नान्वेष्टव्या बलीयसा

sādhusaṅgrahaṇāccaiva pāpanigrahaṇāttathā |
ātmasātkaraṇe nityaṃ pālanāni gṛhe tathā |
durbalāścaiva satataṃ nānveṣṭavyā balīyasā

7.18

तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः ।
यद्येनमभियायाच्च बलवान्दुर्बल नृपः ।

tiṣṭhethā rājaśārdūla vaitasīṃ vṛttimāsthitaḥ |
yadyenamabhiyāyācca balavāndurbala nṛpaḥ |

7.19

सामादिभिरुपायैस्तं क्रमेणि विनिवर्तयेः ।
अशक्नुवंश्च युद्धाय निष्पतेत्सह मन्त्रिभिः

sāmādibhirupāyaistaṃ krameṇi vinivartayeḥ |
aśaknuvaṃśca yuddhāya niṣpatetsaha mantribhiḥ

7.20

कोशेन पौरैर्दण्डेन ये चास्य प्रियकारिणः ।
असम्भवे तु सर्वस्य यथा मुख्येन निष्पतेत् ।
क्रमेणानेन मोक्षः स्याच्छरीरं प्रति केवलम्

kośena paurairdaṇḍena ye cāsya priyakāriṇaḥ |
asambhave tu sarvasya yathā mukhyena niṣpatet |
krameṇānena mokṣaḥ syāccharīraṃ prati kevalam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)