अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान् ।
ऋषेः प्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह
adṛṣṭvā tu nṛpaḥ putrāndarśanaṃ pratilabdhavān |
ṛṣeḥ prasādātputrāṇāṃ svarūpāṇāṃ kurūdvaha
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि सप्तत्रिंशोऽध्यायः ॥
18 श्लोक · 37 में से 41
वैशम्पायन बताते हैं कि ऋषि की कृपा से पुत्रों को देखकर धृतराष्ट्र ने राजधर्म और उपनिषद् का ज्ञान पाया, और विदुर पहले ही तप से सिद्धि पा चुके थे। जनमेजय कहते हैं कि यदि व्यास उन्हें उनके पिता को उसी रूप, वेश और आयु में दिखा दें, तो वे सब पर विश्वास कर लेंगे। सौति बताते हैं कि व्यास यह कृपा करते हैं और परीक्षित को स्वर्ग से ले आते हैं। जनमेजय उन्हें देखते हैं और शमीक तथा शृंगी को भी। यज्ञ के अवभृथ स्नान में प्रसन्न राजा पिता को स्नान कराते हैं और स्वयं भी नहाते हैं, फिर परीक्षित अन्तर्धान हो जाते हैं। आस्तीक कहते हैं कि इस यज्ञ से दोनों लोक जीत लिए गए। जनमेजय आस्तीक का सत्कार कर वैशम्पायन से वनवास की शेष कथा पूछते हैं।
वैशम्पायन उवाच
अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान् ।
ऋषेः प्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह
adṛṣṭvā tu nṛpaḥ putrāndarśanaṃ pratilabdhavān |
ṛṣeḥ prasādātputrāṇāṃ svarūpāṇāṃ kurūdvaha
स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा ।
अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च ।
sa rājā rājadharmāṃśca brahmopaniṣadaṃ tathā |
avāptavānnaraśreṣṭho buddhiniścayameva ca |
विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात् ।
धृतराष्ट्रः समासाद्य व्यासं चैव तपस्विनम्
viduraśca mahāprājño yayau siddhiṃ tapobalāt |
dhṛtarāṣṭraḥ samāsādya vyāsaṃ caiva tapasvinam
जनमेजय उवाच
ममापि वरदो व्यासो दर्शयेत्पितरं यदि ।
तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव तत्
mamāpi varado vyāso darśayetpitaraṃ yadi |
tadrūpaveṣavayasaṃ śraddadhyāṃ sarvameva tat
प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः ।
प्रसादादृषिमुख्यस्य मम कामः समृद्ध्यताम्
priyaṃ me syātkṛtārthaśca syāmahaṃ kṛtaniścayaḥ |
prasādādṛṣimukhyasya mama kāmaḥ samṛddhyatām
सौतिरुवाच
इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान् ।
प्रसादमकरोद्धीमानानयच्च परिक्षितम्
ityuktavacane tasminnṛpe vyāsaḥ pratāpavān |
prasādamakaroddhīmānānayacca parikṣitam
ततस्तद्रूपवयसमागतं नृपतिं दिवः ।
श्रीमन्तं पितरं राजा ददर्श स परीक्षितम्
tatastadrūpavayasamāgataṃ nṛpatiṃ divaḥ |
śrīmantaṃ pitaraṃ rājā dadarśa sa parīkṣitam
शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम् ।
अमात्या ये च निहता राज्ञस्तांश्च ददर्श ह
śamīkaṃ ca mahātmānaṃ putraṃ taṃ cāsya śṛṅgiṇam |
amātyā ye ca nihatā rājñastāṃśca dadarśa ha
ततः सोवभृथे राजा मुदितो जनमेजयः ।
पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः
tataḥ sovabhṛthe rājā mudito janamejayaḥ |
pitaraṃ snāpayāmāsa svayaṃ sasnau ca pārthivaḥ
परीक्षिदपि तत्रैव बभूव स तिरोहितः ।
स्नात्वा स नृपतिर्विप्रमास्तीकमिदमब्रवीत् ।
यायावरकुलोत्पन्नं जरत्कारुसुतं तदा
parīkṣidapi tatraiva babhūva sa tirohitaḥ |
snātvā sa nṛpatirvipramāstīkamidamabravīt |
yāyāvarakulotpannaṃ jaratkārusutaṃ tadā
आस्तीक विविधाश्चर्यो यज्ञेऽयमिति मे मतिः ।
यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः
āstīka vividhāścaryo yajñe'yamiti me matiḥ |
yadadyāyaṃ pitā prāpto mama śokapraṇāśanaḥ
आस्तीक उवाच
ऋषिर्द्वैपायनो यत्र पुराणस्तपसो निधिः ।
यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ
ṛṣirdvaipāyano yatra purāṇastapaso nidhiḥ |
yajñe kurukulaśreṣṭha tasya lokāvubhau jitau
श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन ।
सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः
śrutaṃ vicitramākhyānaṃ tvayā pāṇḍavanandana |
sarpāśca bhasmasānnītā gatāśca padavīṃ pituḥ
कथंचित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव ।
ऋषयः पूजिताः सर्वे गतिर्दृष्टा महात्मनः
kathaṃcittakṣako muktaḥ satyatvāttava pārthiva |
ṛṣayaḥ pūjitāḥ sarve gatirdṛṣṭā mahātmanaḥ
प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम् ।
विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात्
prāptaḥ suvipulo dharmaḥ śrutvā pāpavināśanam |
vimukto hṛdayagranthirudārajanadarśanāt
ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये ।
यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रिया
ye ca pakṣadharā dharme sadvṛttarucayaśca ye |
yāndṛṣṭvā hīyate pāpaṃ tebhyaḥ kāryā namaskriyā
सौतिरुवाच
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः ।
पूजयामास तमृषिमनुमान्य पुनःपुनः
etacchrutvā dvijaśreṣṭhātsa rājā janamejayaḥ |
pūjayāmāsa tamṛṣimanumānya punaḥpunaḥ
पप्रच्छ तमृषि चापि वैशम्पायनमच्युतम् ।
कथावशेषं धर्मज्ञो वनवासस्य सत्तम
papraccha tamṛṣi cāpi vaiśampāyanamacyutam |
kathāvaśeṣaṃ dharmajño vanavāsasya sattama
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)