ततस्तु राजन्नेतेषामाश्रमे पुण्यकर्मणाम् ।
शिवा नक्षत्रसम्पन्ना सा व्यतीयाय शर्वरी
tatastu rājanneteṣāmāśrame puṇyakarmaṇām |
śivā nakṣatrasampannā sā vyatīyāya śarvarī
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि एकोनत्रिंशोऽध्यायः ॥
26 श्लोक · 29 में से 41
रात धर्म और अर्थ की चर्चा में बीतती है। पाण्डव माता के चारों ओर भूमि पर सोते हैं और वही खाते हैं जो राजा खाते हैं। प्रातः धृतराष्ट्र की अनुमति से युधिष्ठिर भाइयों, स्त्रियों और पुरोहित के साथ आश्रम देखते हैं। वे प्रज्वलित वेदियाँ, निर्भय मृग और पक्षी देखते हैं और चारों ओर वेदपाठ सुनते हैं। वे तपस्वियों को कलश, मृगचर्म, स्रुवा और कमण्डलु, जो जिसे चाहिए, देते हैं। लौटकर वे धृतराष्ट्र को गान्धारी सहित शान्त बैठा और कुन्ती को शिष्या की तरह झुकी पास खड़ी देखते हैं। वे प्रणाम कर अपना नाम बताते हैं और आसन पर बैठते हैं, भाई भी। तभी शतयूप और कुरुक्षेत्र के महर्षि आते हैं, और शिष्यों सहित व्यास भी, जो श्रेष्ठ आसन ग्रहण करते हैं।
वैशम्पायन उवाच
ततस्तु राजन्नेतेषामाश्रमे पुण्यकर्मणाम् ।
शिवा नक्षत्रसम्पन्ना सा व्यतीयाय शर्वरी
tatastu rājanneteṣāmāśrame puṇyakarmaṇām |
śivā nakṣatrasampannā sā vyatīyāya śarvarī
ततस्तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः ।
विचित्रपदसञ्चारा नानाश्रुतिभिरन्विताः
tatastatra kathāścāsaṃsteṣāṃ dharmārthalakṣaṇāḥ |
vicitrapadasañcārā nānāśrutibhiranvitāḥ
पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा ।
उत्सृज्य तु महार्हाणि शयनानि नराधिप
pāṇḍavāstvabhito māturdharaṇyāṃ suṣupustadā |
utsṛjya tu mahārhāṇi śayanāni narādhipa
यदाहारोऽभकवद्राजा धृतराष्ट्रो महामनाः ।
तदाहारा नृवींरास्ते न्यवसंस्तां निशां तदा
yadāhāro'bhakavadrājā dhṛtarāṣṭro mahāmanāḥ |
tadāhārā nṛvīṃrāste nyavasaṃstāṃ niśāṃ tadā
व्यतीतायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियः ।
भ्रातृभिः सहितो राजा ददर्शाश्रममण्डलम्
vyatītāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyaḥ |
bhrātṛbhiḥ sahito rājā dadarśāśramamaṇḍalam
सान्तः पुरपरीवारः सभृत्यः सपुरोहितः ।
यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया
sāntaḥ puraparīvāraḥ sabhṛtyaḥ sapurohitaḥ |
yathāsukhaṃ yathoddeśaṃ dhṛtarāṣṭrābhyanujñayā
ददर्श तत्र वेदीश्च सम्प्रज्वलितपावकाः ।
कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः
dadarśa tatra vedīśca samprajvalitapāvakāḥ |
kṛtābhiṣekairmunibhirhutāgnibhirupasthitāḥ
वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि ।
ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणस्य ताः
vāneyapuṣpanikarairājyadhūmodgamairapi |
brāhmeṇa vapuṣā yuktā yuktā munigaṇasya tāḥ
मृगयूथैरनुद्विग्नैस्तत्रतत्र समाश्रितैः ।
अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो
mṛgayūthairanudvignaistatratatra samāśritaiḥ |
aśaṅkitaiḥ pakṣigaṇaiḥ pragītairiva ca prabho
केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः ।
कोकिलानां कुहुरवैः सुखैः श्रुतिमनोहरैः
kekābhirnīlakaṇṭhānāṃ dātyūhānāṃ ca kūjitaiḥ |
kokilānāṃ kuhuravaiḥ sukhaiḥ śrutimanoharaiḥ
प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलङ्कृतम् ।
फलमूलसमाहारैर्महद्भिश्चोपशोभितम्
prādhītadvijaghoṣaiśca kvacitkvacidalaṅkṛtam |
phalamūlasamāhārairmahadbhiścopaśobhitam
ततः स राजा प्रददौ तापसार्थमुपाहृतान् ।
कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि
tataḥ sa rājā pradadau tāpasārthamupāhṛtān |
kalaśānkāñcanānrājaṃstathaivaudumbarānapi
अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः ।
कमण्डलूंश्चि स्थालीश्च पिठराणि च भारत
ajināni praveṇīśca sruksruvaṃ ca mahīpatiḥ |
kamaṇḍalūṃści sthālīśca piṭharāṇi ca bhārata
भाजनानि च लौहानि पात्रीश्च विविधा नृप ।
यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम्
bhājanāni ca lauhāni pātrīśca vividhā nṛpa |
yadyadicchati yāvacca yadanyadapi kāṅkṣitam
एवं स राजा धर्मात्मा परीत्याश्रममण्डलम् ।
वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः
evaṃ sa rājā dharmātmā parītyāśramamaṇḍalam |
vasu viśrāṇya tatsarvaṃ punarāyānmahīpatiḥ
कृताह्निकं च राजानं धृतराष्ट्रं महीपतिम् ।
ददर्शासीनमव्यग्रं गान्धारीसहितं तदा
kṛtāhnikaṃ ca rājānaṃ dhṛtarāṣṭraṃ mahīpatim |
dadarśāsīnamavyagraṃ gāndhārīsahitaṃ tadā
मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम् ।
कुन्तीं ददर्श धर्मात्मा शिष्टाचारसमन्विताम्
mātaraṃ cāvidūrasthāṃ śiṣyavatpraṇatāṃ sthitām |
kuntīṃ dadarśa dharmātmā śiṣṭācārasamanvitām
स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः ।
निषीदेत्यभ्यनुज्ञातो वृस्यामुपविवेश ह
sa tamabhyarcya rājānaṃ nāma saṃśrāvya cātmanaḥ |
niṣīdetyabhyanujñāto vṛsyāmupaviveśa ha
भीमसेनादयश्चैव पाण्डव भरतर्षभ ।
अभिवाद्योपसङ्गृह्य निषेदुः पार्थिवाज्ञया
bhīmasenādayaścaiva pāṇḍava bharatarṣabha |
abhivādyopasaṅgṛhya niṣeduḥ pārthivājñayā
स तैः परिवृतो राजा शुशुभेऽतीव कौरवः ।
बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः
sa taiḥ parivṛto rājā śuśubhe'tīva kauravaḥ |
bibhradbrāhmīṃ śriyaṃ dīptāṃ devairiva bṛhaspatiḥ
तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः ।
शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः
tathā teṣūpaviṣṭeṣu samājagmurmaharṣayaḥ |
śatayūpaprabhṛtayaḥ kurukṣetranivāsinaḥ
व्यासश्च भगवान्विप्रो देवर्षिगणसेवितः ।
वृतः शिष्यैर्महातेजा दर्शयामास पार्थिवम्
vyāsaśca bhagavānvipro devarṣigaṇasevitaḥ |
vṛtaḥ śiṣyairmahātejā darśayāmāsa pārthivam
ततः स राजा कौरव्यः कुन्तीपुत्रश्च धर्मराट् ।
भीमसेनादयश्चैव प्रत्युत्थायाभ्यवादयन्
tataḥ sa rājā kauravyaḥ kuntīputraśca dharmarāṭ |
bhīmasenādayaścaiva pratyutthāyābhyavādayan
समागतस्ततो व्यासः शतयूपादिभिर्वृतः ।
धृतराष्ट्रं महीपालमास्यतामित्यभाषत
samāgatastato vyāsaḥ śatayūpādibhirvṛtaḥ |
dhṛtarāṣṭraṃ mahīpālamāsyatāmityabhāṣata
वरं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम् ।
प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम्
varaṃ tu viṣṭaraṃ kauśyaṃ kṛṣṇājinakuśottaram |
pratipede tadā vyāsastadarthamupakalpitam
ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः ।
द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः
te ca sarve dvijaśreṣṭhā viṣṭareṣu samantataḥ |
dvaipāyanābhyanujñātā niṣedurvipulaujasaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)