आश्रमवासिक पर्व

अध्याय 26: यमुना-तट पर पाण्डवों का गुरुजनों से मिलन

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि षड्विंशोऽध्यायः ॥

20 श्लोक · 26 में से 41

इस अध्याय में क्या होता है

यमुना-तट पर पाण्डवों का गुरुजनों से मिलन

पाण्डव दूर ही वाहनों से उतरकर विनय से पैदल आश्रम जाते हैं। आश्रम सूना पाकर युधिष्ठिर आँसू भरकर तपस्वियों से पूछते हैं कि हमारे ज्येष्ठ पिता कहाँ हैं। वे बताते हैं कि वे यमुना में स्नान करने और फूल तथा जल लाने गए हैं। उसी मार्ग पर चलकर वे पास ही गुरुजनों को देखते हैं। सहदेव दौड़कर कुन्ती के चरणों में रो पड़ते हैं; वे उन्हें उठाकर गले लगाती हैं और गान्धारी को बताती हैं। बाकी भाई गुरुजनों के चरणों में गिरते हैं। धृतराष्ट्र स्वर और स्पर्श से उन्हें पहचानकर ढाढ़स देते हैं। पुत्र स्वयं जल के कलश उठा लेते हैं।

वैशम्पायन उवाच

26.1

ततस्ते पाण्डवा दूरादवतीर्य पदातयः ।
अभिजग्मुर्नरपतेराश्रमं विनयानताः

tataste pāṇḍavā dūrādavatīrya padātayaḥ |
abhijagmurnarapaterāśramaṃ vinayānatāḥ

26.2

स च योधजनः सर्वो ये च राष्ट्रनिवासिनः ।
स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा

sa ca yodhajanaḥ sarvo ye ca rāṣṭranivāsinaḥ |
striyaśca kurumukhyānāṃ padbhirevānvayustadā

26.3

आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः ।
शून्यं मृगगणाकीर्णं कदलीवनशोभितम्

āśramaṃ te tato jagmurdhṛtarāṣṭrasya pāṇḍavāḥ |
śūnyaṃ mṛgagaṇākīrṇaṃ kadalīvanaśobhitam

26.4

ततस्तत्र समाजग्मुस्तापसा नियतव्रताः ।
पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः

tatastatra samājagmustāpasā niyatavratāḥ |
pāṇḍavānāgatāndraṣṭuṃ kautūhalasamanvitāḥ

26.5

तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत् ।
पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः

tānapṛcchattato rājā kvāsau kauravavaṃśabhṛt |
pitā jyeṣṭho gato'smākamiti bāṣpapariplutaḥ

26.6

ते तमूचुस्ततो वाक्यं यमुनामवगाहितुम् ।
पुष्पाणामुदकुंभस्य चार्थे गत इति प्रभो

te tamūcustato vākyaṃ yamunāmavagāhitum |
puṣpāṇāmudakuṃbhasya cārthe gata iti prabho

26.7

तैराख्यातेन मार्गेण ततस्ते जग्मुरञ्जसा ।
ददृशुश्चाविदूरे तान्सर्वानथ पदातयः

tairākhyātena mārgeṇa tataste jagmurañjasā |
dadṛśuścāvidūre tānsarvānatha padātayaḥ

26.8

ततस्ते सत्वरा जग्मुः वितुर्दर्शनकाङ्क्षिणः ।
सहदेवस्तु वेगेन प्राधावद्यत्र सा पृथा

tataste satvarā jagmuḥ viturdarśanakāṅkṣiṇaḥ |
sahadevastu vegena prādhāvadyatra sā pṛthā

26.9

सुस्वरं रुरुदे धीमान्मातुः पादावुपस्पृशन् ।
सा च बाष्पाकुलमुखी ददर्शक दयितं सुतम्

susvaraṃ rurude dhīmānmātuḥ pādāvupaspṛśan |
sā ca bāṣpākulamukhī dadarśaka dayitaṃ sutam

26.10

बाहुभ्यां सम्परिष्वज्य समुन्नाम्य च पुत्रकम् ।
गान्धार्याः कथयामास सहद्रेवमुपस्थितम्

bāhubhyāṃ sampariṣvajya samunnāmya ca putrakam |
gāndhāryāḥ kathayāmāsa sahadrevamupasthitam

26.11

अनन्तरं च राजानं भीमसेनमथार्जुनम् ।
नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे

anantaraṃ ca rājānaṃ bhīmasenamathārjunam |
nakulaṃ ca pṛthā dṛṣṭvā tvaramāṇopacakrame

26.12

सा ह्यग्रे गच्छति तयोर्दपत्योर्हतपुत्रयोः ।
कर्षन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन्भुवि ।
तयोस्तु पादयो राजन्न्यपतन्हतपुत्रयोः

sā hyagre gacchati tayordapatyorhataputrayoḥ |
karṣantī tau tataste tāṃ dṛṣṭvā saṃnyapatanbhuvi |
tayostu pādayo rājannyapatanhataputrayoḥ

26.13

राजा तान्स्वरयोगेन स्पर्शेन च महामनाः ।
प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः

rājā tānsvarayogena sparśena ca mahāmanāḥ |
pratyabhijñāya medhāvī samāśvāsayata prabhuḥ

26.14

ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम् ।
उपतस्थुर्महात्मानो मातरं च यथाविधि

tataste bāṣpamutsṛjya gāndhārīsahitaṃ nṛpam |
upatasthurmahātmāno mātaraṃ ca yathāvidhi

26.15

सर्वेषां तोयकलशाञ्जगृहुस्ते स्वयं तदा ।
पाण्डवा लब्धसंज्ञास्ते मात्रा चाश्वासिताः पुनः

sarveṣāṃ toyakalaśāñjagṛhuste svayaṃ tadā |
pāṇḍavā labdhasaṃjñāste mātrā cāśvāsitāḥ punaḥ

26.16

तथा नार्यो नृसिंहानां सोऽवरोधजनस्तदा ।
पौरजानपदाश्चैव ददृशुस्तं जनाधिपम्

tathā nāryo nṛsiṃhānāṃ so'varodhajanastadā |
paurajānapadāścaiva dadṛśustaṃ janādhipam

26.17

निवेदयामास तदा जनं तन्नामगोत्रतः ।
युधिष्ठिरो नरपतिः स चैनं प्रत्यपूजयत्

nivedayāmāsa tadā janaṃ tannāmagotrataḥ |
yudhiṣṭhiro narapatiḥ sa cainaṃ pratyapūjayat

26.18

स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः ।
राजाऽऽत्मानं गृहगतं पुरेवि गजसाह्वये

sa taiḥ parivṛto mene harṣabāṣpāvilekṣaṇaḥ |
rājā''tmānaṃ gṛhagataṃ purevi gajasāhvaye

26.19

अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः ।
गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत

abhivādito vadhūbhiśca kṛṣṇādyābhiḥ sa pārthivaḥ |
gāndhāryā sahito dhīmānkuntyā ca pratyanandata

26.20

ततश्चाश्रममागच्छत्सिद्धचारणसेवितम् ।
दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव

tataścāśramamāgacchatsiddhacāraṇasevitam |
didṛkṣubhiḥ samākīrṇaṃ nabhastārāgaṇairiva

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)