आश्रमवासिक पर्व

अध्याय 19: पाण्डव लौटते हैं; गंगा-तट पर पहली रात

इति श्रीमन्महाभारते आश्रमवासिकर्वणि आश्रमवासपर्वणि एकोनविंशोऽध्यायः ॥

24 श्लोक · 19 में से 41

इस अध्याय में क्या होता है

पाण्डव लौटते हैं; गंगा-तट पर पहली रात

कुन्ती के वचनों से लज्जित पाण्डव और द्रौपदी लौट पड़ते हैं। वे धृतराष्ट्र की परिक्रमा कर प्रणाम करते हैं और कुन्ती के बिना लौटते हैं। धृतराष्ट्र गान्धारी और विदुर से कहते हैं कि कुन्ती को लौट जाना चाहिए, युधिष्ठिर ठीक कहते हैं: वे राज्य में रहकर भी तप और महादान कर सकती हैं। गान्धारी यह कहती हैं, पर धर्म में दृढ़ कुन्ती नहीं लौटतीं। पाण्डव माता से बिछड़े बछड़ों की भाँति आनन्दहीन हस्तिनापुर में प्रवेश करते हैं। धृतराष्ट्र भागीरथी तट पर डेरा डालते हैं। वे अग्नि में आहुति देकर सन्ध्या-सूर्य का उपस्थान करते हैं। विदुर और संजय कुशा की शय्या बनाते हैं। रात वेदपाठ में बीतती है, और प्रातः वे उपवास करते हुए उत्तर की ओर बढ़ते हैं।

वैशम्पायन उवाच

19.1

कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम ।
व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सह भारत

kuntyāstu vacanaṃ śrutvā pāṇḍavā rājasattama |
vrīḍitāḥ saṃnyavartanta pāñcālyā saha bhārata

19.2

ततः शब्दो महानेव सर्वेषामभवत्तदा ।
अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथा गताम्

tataḥ śabdo mahāneva sarveṣāmabhavattadā |
antaḥpurāṇāṃ rudatāṃ dṛṣṭvā kuntīṃ tathā gatām

19.3

प्रदक्षिणमथावृत्त्य राजानं पाण्डवास्तदा ।
अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै

pradakṣiṇamathāvṛttya rājānaṃ pāṇḍavāstadā |
abhivādya nyavartanta pṛthāṃ tāmanivartya vai

19.4

ततोऽब्रवीन्महातेजा धृतराष्ट्रोंऽबिकासुतः ।
गान्धारीं विदुरं चैव समाभाष्यावगृह्य च

tato'bravīnmahātejā dhṛtarāṣṭroṃ'bikāsutaḥ |
gāndhārīṃ viduraṃ caiva samābhāṣyāvagṛhya ca

19.5

युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम् ।
यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि

yudhiṣṭhirasya jananī devī sādhu nivartyatām |
yathā yudhiṣṭhiraḥ prāha tatsarvaṃ satyameva hi

19.6

पुत्रैश्वर्यं महदिदमपास्य च महाफलम् ।
काऽनुगच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत्

putraiśvaryaṃ mahadidamapāsya ca mahāphalam |
kā'nugacchedvanaṃ durgaṃ putrānutsṛjya mūḍhavat

19.7

राज्यस्थया तपस्तप्तुं कर्तुं दानव्रतं महत् ।
अनया शक्यमेवाद्य श्रूयतां च वचो मम

rājyasthayā tapastaptuṃ kartuṃ dānavrataṃ mahat |
anayā śakyamevādya śrūyatāṃ ca vaco mama

19.8

गान्धारि परितुष्टोस्मि वध्वाः शुश्रूषणेन वै ।
तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि

gāndhāri parituṣṭosmi vadhvāḥ śuśrūṣaṇena vai |
tasmāttvamenāṃ dharmajñe samanujñātumarhasi

19.9

इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह ।
तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत्

ityuktā saubaleyī tu rājñā kuntīmuvāca ha |
tatsarvaṃ rājavacanaṃ svaṃ ca vākyaṃ viśeṣavat

19.10

न च सा वनवासाय देवी कृतमतिं तदा ।
शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम्

na ca sā vanavāsāya devī kṛtamatiṃ tadā |
śaknotyupāvartayituṃ kuntīṃ dharmaparāṃ satīm

19.11

तस्यास्तां तु स्थितिं ज्ञात्वा व्यवसायं कुरुस्त्रियः ।
निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा

tasyāstāṃ tu sthitiṃ jñātvā vyavasāyaṃ kurustriyaḥ |
nivṛttāṃśca kuruśreṣṭhāndṛṣṭvā prarurudustadā

19.12

उपावृत्तेषु पार्थेषु सर्वास्वेव वधूषु च ।
ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा

upāvṛtteṣu pārtheṣu sarvāsveva vadhūṣu ca |
yayau rājā mahāprājño dhṛtarāṣṭro vanaṃ tadā

19.13

पाण्डवाश्चातिदीनास्ते दुःखशोकपरायणाः ।
यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा

pāṇḍavāścātidīnāste duḥkhaśokaparāyaṇāḥ |
yānaiḥ strīsahitāḥ sarve puraṃ praviviśustadā

19.14

तदहृष्टमनानन्दं गतोत्सवमिवाभवत् ।
नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम्

tadahṛṣṭamanānandaṃ gatotsavamivābhavat |
nagaraṃ hāstinapuraṃ sastrīvṛddhakumārakam

19.15

सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः ।
कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः

sarve cāsannirutsāhāḥ pāṇḍavā jātamanyavaḥ |
kuntyā hīnāḥ suduḥkhārtā vatsā iva vinākṛtāḥ

19.16

धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम् ।
ततो भागीरथीतीरे निवासमकरोत्प्रभुः

dhṛtarāṣṭrastu tenāhnā gatvā sumahadantaram |
tato bhāgīrathītīre nivāsamakarotprabhuḥ

19.17

प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः ।
व्यराजन्त द्विजश्रेष्ठैस्तत्रतत्र तपोवने ।
प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः

prāduṣkṛtā yathānyāyamagnayo vedapāragaiḥ |
vyarājanta dvijaśreṣṭhaistatratatra tapovane |
prāduṣkṛtāgnirabhavatsa ca vṛddho narādhipaḥ

19.18

स राजाऽग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा ।
सन्ध्यागतं सहस्रांशुमुपातिष्ठत भारत

sa rājā'gnīnparyupāsya hutvā ca vidhivattadā |
sandhyāgataṃ sahasrāṃśumupātiṣṭhata bhārata

19.19

विदुरः संजयश्चैव राज्ञः शय्यां कुशैस्ततः ।
चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः

viduraḥ saṃjayaścaiva rājñaḥ śayyāṃ kuśaistataḥ |
cakratuḥ kuruvīrasya gāndhāryāścāvidūrataḥ

19.20

गान्धार्याः सन्निकर्षे तु निषसाद कुशे सुखम् ।
युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता

gāndhāryāḥ sannikarṣe tu niṣasāda kuśe sukham |
yudhiṣṭhirasya jananī kuntī sādhuvrate sthitā

19.21

तेषां संश्रवणे चापि निषेदुर्विदुरादयः ।
याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः

teṣāṃ saṃśravaṇe cāpi niṣedurvidurādayaḥ |
yājakāśca yathoddeśaṃ dvijā ye cānuyāyinaḥ

19.22

प्राधीतद्विजमुख्या सा संप्रज्वलितपावका ।
बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धिनी

prādhītadvijamukhyā sā saṃprajvalitapāvakā |
babhūva teṣāṃ rajanī brāhmīva prītivardhinī

19.23

ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः ।
हुत्वाऽग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम् ।
उदङ्मुखा निरीक्षन्त उपवासपरायणाः

tato rātryāṃ vyatītāyāṃ kṛtapūrvāhṇikakriyāḥ |
hutvā'gniṃ vidhivatsarve prayayuste yathākramam |
udaṅmukhā nirīkṣanta upavāsaparāyaṇāḥ

19.24

स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि ।
शोचतां वदतां चापि पौरजानपदैर्जनैः

sa teṣāmatiduḥkho'bhūnnivāsaḥ prathame'hani |
śocatāṃ vadatāṃ cāpi paurajānapadairjanaiḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)