अवन्तीषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि ।
यानि तत्रपवित्राणि पुण्यान्यायतनानि च
avantīṣu pratīcyāṃ vai kīrtayiṣyāmi te diśi |
yāni tatrapavitrāṇi puṇyānyāyatanāni ca
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणइ सप्ताशीतितमोऽध्यायः ॥
17 श्लोक · 87 में से 315
धौम्य अवन्ती प्रदेश में पश्चिम दिशा का वर्णन करते हैं। वहाँ पश्चिमवाहिनी नर्मदा बहती है, और तीनों लोकों के सब तीर्थ, नदियाँ, वन, पर्वत, देवता और ब्रह्मा उसके जल में स्नान करने आते हैं। वे वह स्थान बताते हैं जहाँ विश्रवा मुनि से धनपति कुबेर उत्पन्न हुए, और कमल सरोवर वाला वैडूर्य शिखर। वहाँ विश्वामित्र के तप से बनी एक नदी है, जिसके तट पर नहुषपुत्र ययाति स्वर्ग से गिरे और फिर सनातन लोक पाए। वे मैनाक पर्वत, कक्षसेन और च्यवन के आश्रम, जहाँ थोड़े तप से सिद्धि मिलती है, जम्बूमार्ग, गङ्गाद्वार और सैन्धवारण्य गिनाते हैं। अन्त में ब्रह्मा का सरोवर पुष्कर है, जो वैखानस मुनियों को प्रिय है; मन में उसकी कामना मात्र से पाप नष्ट होते हैं।
धौम्य उवाच
अवन्तीषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि ।
यानि तत्रपवित्राणि पुण्यान्यायतनानि च
avantīṣu pratīcyāṃ vai kīrtayiṣyāmi te diśi |
yāni tatrapavitrāṇi puṇyānyāyatanāni ca
प्रियङ्ग्वाम्रवणोपेता वानीरफलमालिनी ।
प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत
priyaṅgvāmravaṇopetā vānīraphalamālinī |
pratyaksrotā nadī puṇyā narmadā tatra bhārata
त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च ।
सरिद्वनानि शैलेन्द्रा देवाश्च सपितामहाः
trailokye yāni tīrthāni puṇyānyāyatanāni ca |
saridvanāni śailendrā devāśca sapitāmahāḥ
नर्मदायां कुरुश्रेष्ठ सहसिद्धर्षिचारणैः ।
स्नातुमायान्ति पुण्यौधैः सदा वारिषु भारत
narmadāyāṃ kuruśreṣṭha sahasiddharṣicāraṇaiḥ |
snātumāyānti puṇyaudhaiḥ sadā vāriṣu bhārata
निरेतः श्रूयते पुण्यो यत्र विश्रवसो मुनेः ।
जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः
niretaḥ śrūyate puṇyo yatra viśravaso muneḥ |
jajñe dhanapatiryatra kubero naravāhanaḥ
वैढूर्यशिखरो नाम पुण्यो गिरिवरः शिवः ।
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः
vaiḍhūryaśikharo nāma puṇyo girivaraḥ śivaḥ |
nityapuṣpaphalāstatra pādapā haritacchadāḥ
तस्य शैलस्य शिखरे सरः पुण्यं महीपते ।
फुल्लपद्मं महाराज देवगन्धर्वसेवितम्
tasya śailasya śikhare saraḥ puṇyaṃ mahīpate |
phullapadmaṃ mahārāja devagandharvasevitam
बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते ।
पुण्ये स्वर्गोपमे चैव देवर्षिगणसेविते
bahvāścaryaṃ mahārāja dṛśyate tatra parvate |
puṇye svargopame caiva devarṣigaṇasevite
ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित् ।
विश्चामित्रेण तपसा निर्मिता सर्वपावनी
hradinī puṇyatīrthā ca rājarṣestatra vai sarit |
viścāmitreṇa tapasā nirmitā sarvapāvanī
यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः ।
पपात स पुनर्लोकाँल्लेभे धर्मान्सनातनान्
yasyāstīre satāṃ madhye yayātirnahuṣātmajaḥ |
papāta sa punarlokām̐llebhe dharmānsanātanān
तत्रपुण्यो ह्रदः ख्यातो मैनाकश्चैव पर्वतः ।
बहुमूलफलोपेतस्त्वमितो नाम पर्वतः
tatrapuṇyo hradaḥ khyāto mainākaścaiva parvataḥ |
bahumūlaphalopetastvamito nāma parvataḥ
आश्रमः कक्षसेनस्य पुण्यस्तत्रयुधिष्ठिरः ।
च्यवनस्याश्रमश्चैव विख्यातस्तत्रपाण्डव ।
तत्राल्पेनैव सिद्ध्यन्ति मानवास्तपसा विभो
āśramaḥ kakṣasenasya puṇyastatrayudhiṣṭhiraḥ |
cyavanasyāśramaścaiva vikhyātastatrapāṇḍava |
tatrālpenaiva siddhyanti mānavāstapasā vibho
जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम् ।
आश्रम शाम्यतां श्रेष्ठ मृगद्विजनिषेवितः
jambūmārgo mahārāja ṛṣīṇāṃ bhāvitātmanām |
āśrama śāmyatāṃ śreṣṭha mṛgadvijaniṣevitaḥ
ततः पुण्यतमा राजन्सततं तापसैर्युता ।
केतुमाला च मेध्या च गङ्गाद्वारं च भूमिप ।
ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम्
tataḥ puṇyatamā rājansatataṃ tāpasairyutā |
ketumālā ca medhyā ca gaṅgādvāraṃ ca bhūmipa |
khyātaṃ ca saindhavāraṇyaṃ puṇyaṃ dvijaniṣevitam
पितामहसरः पुण्यं पुष्करं नाम नामतः ।
वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः
pitāmahasaraḥ puṇyaṃ puṣkaraṃ nāma nāmataḥ |
vaikhānasānāṃ siddhānāmṛṣīṇāmāśramaḥ priyaḥ
अप्यत्र संश्रयार्थाय प्रजापतिरथो जगौ ।
पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनांवर
apyatra saṃśrayārthāya prajāpatiratho jagau |
puṣkareṣu kuruśreṣṭha gāthāṃ sukṛtināṃvara
मनसाऽप्यभिकामस्य पुष्कराणि मनखिनः ।
विप्रणश्यन्ति पापानि नाकपृष्ठे च मोदते
manasā'pyabhikāmasya puṣkarāṇi manakhinaḥ |
vipraṇaśyanti pāpāni nākapṛṣṭhe ca modate
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)