तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः ।
अश्वासयंस्तथा धौम्यो बृहस्पतिसमोऽब्रवीत्
tānsarvānutsukāndṛṣṭvā pāṇḍavāndīnacetasaḥ |
aśvāsayaṃstathā dhaumyo bṛhaspatisamo'bravīt
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चाशीतितमोऽध्यायः ॥
28 श्लोक · 85 में से 315
पाण्डवों को उदास देखकर धौम्य उन्हें सान्त्वना देते हैं और कहते हैं कि तीर्थों का वर्णन सुनने से ही पुण्य मिलता है। पहले पूर्व दिशा। वहाँ पवित्र गोमती के साथ नैमिष है। वहाँ गया है, जिसके बारे में पुराने लोग कहते हैं कि बहुत पुत्रों की कामना करनी चाहिए, कदाचित् कोई एक गया चला जाए। गयाशिर के अक्षय वट के नीचे पितरों को दिया अन्न अक्षय होता है, और वहीं फल्गु बहती है। कौशिकी के तट पर विश्वामित्र ने ब्राह्मणत्व पाया और कान्यकुब्ज में इन्द्र के साथ सोमपान किया। फिर प्रयाग है, जहाँ गङ्गा-यमुना मिलती हैं और ब्रह्मा ने यज्ञ किया था; साथ में अगस्त्य आश्रम, कालञ्जर, भार्गव का महेन्द्र, मतङ्ग का केदार और कुण्डोद पर्वत, जहाँ नल को जल और विश्राम मिला।
वैशंपायन उवाच
तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः ।
अश्वासयंस्तथा धौम्यो बृहस्पतिसमोऽब्रवीत्
tānsarvānutsukāndṛṣṭvā pāṇḍavāndīnacetasaḥ |
aśvāsayaṃstathā dhaumyo bṛhaspatisamo'bravīt
ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ ।
दिशस्तीर्थानि शैलांश्च शृणु मे वदतोऽनघ
brāhmaṇānumatānpuṇyānāśramānbharatarṣabha |
diśastīrthāni śailāṃśca śṛṇu me vadato'nagha
याञ्श्रुत्वा गदतो राजन्विशोको भवितासि ह ।
द्रौपद्या चानया सार्धं भ्रातृभिश्च नरेश्वर
yāñśrutvā gadato rājanviśoko bhavitāsi ha |
draupadyā cānayā sārdhaṃ bhrātṛbhiśca nareśvara
श्रवणाच्चैव तेषां त्वं पुण्यमाप्स्यसि पाण्डव ।
गत्वा शतगुणं चैव तेभ्य एव नरोत्तम
śravaṇāccaiva teṣāṃ tvaṃ puṇyamāpsyasi pāṇḍava |
gatvā śataguṇaṃ caiva tebhya eva narottama
शृणु पूर्वां दिशं राजन्देवर्षिगणसेविताम् ।
रम्यां ते कथयिष्यामि युधिष्ठिर यथास्मृति
śṛṇu pūrvāṃ diśaṃ rājandevarṣigaṇasevitām |
ramyāṃ te kathayiṣyāmi yudhiṣṭhira yathāsmṛti
तस्यां रदेवर्षिजुष्टायां नैमिषं नाम भारत ।
यत्रतीर्थानि देवानां पुण्यानि च पृथक् पृथक्
tasyāṃ radevarṣijuṣṭāyāṃ naimiṣaṃ nāma bhārata |
yatratīrthāni devānāṃ puṇyāni ca pṛthak pṛthak
यत्र सा गोमती पुण्या रम्या देवर्षिसेविता ।
यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः
yatra sā gomatī puṇyā ramyā devarṣisevitā |
yajñabhūmiśca devānāṃ śāmitraṃ ca vivasvataḥ
तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः ।
शिवं ब्रह्मसरो यत्रसेवितं त्रिदशर्षिभिः
tasyāṃ girivaraḥ puṇyo gayo rājarṣisatkṛtaḥ |
śivaṃ brahmasaro yatrasevitaṃ tridaśarṣibhiḥ
यदर्थे पुरुषव्याघ्र कीर्तयन्ति पुरातनाः ।
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत्
yadarthe puruṣavyāghra kīrtayanti purātanāḥ |
eṣṭavyā bahavaḥ putrā yadyekopi gayāṃ vrajet
गौरीं वा वरयेत्कन्यां नीलं वा वृषमुत्सृजेत् ।
उत्तारयति संतत्या दश पूर्वान्दशावरान्
gaurīṃ vā varayetkanyāṃ nīlaṃ vā vṛṣamutsṛjet |
uttārayati saṃtatyā daśa pūrvāndaśāvarān
महानदी च तत्रैव तथा गयशिरो नृप ।
यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः
mahānadī ca tatraiva tathā gayaśiro nṛpa |
yatrāsau kīrtyate viprairakṣayyakaraṇo vaṭaḥ
यत्रदत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो ।
सा च पुण्यजला तत्र फल्गुनामा महानदी
yatradattaṃ pitṛbhyo'nnamakṣayyaṃ bhavati prabho |
sā ca puṇyajalā tatra phalgunāmā mahānadī
बहुमूलफला चापि कौशिकी भरतर्षभ ।
विश्वामित्रोऽध्यगाद्यत्र ब्राह्मणत्वं तपोधनः
bahumūlaphalā cāpi kauśikī bharatarṣabha |
viśvāmitro'dhyagādyatra brāhmaṇatvaṃ tapodhanaḥ
गङ्गा यत्रनदी पुण्या यस्यास्तीरे भगीरथः ।
अयजत्तत्रबहुभिः क्रतुभिर्भूरिदक्षिणैः
gaṅgā yatranadī puṇyā yasyāstīre bhagīrathaḥ |
ayajattatrabahubhiḥ kratubhirbhūridakṣiṇaiḥ
पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम् ।
विश्वामित्रोऽयजद्यत्र शक्रेण सह कौशिकः
pāñcāleṣu ca kauravya kathayantyutpalāvatam |
viśvāmitro'yajadyatra śakreṇa saha kauśikaḥ
यत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ ।
विश्वामित्रस्य तां दृष्ट्वा चिभूतिमतिमानुषीम्
yatrānuvaṃśaṃ bhagavāñjāmadagnyastathā jagau |
viśvāmitrasya tāṃ dṛṣṭvā cibhūtimatimānuṣīm
कान्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः ।
ततः क्षत्रादपाक्रामद्ब्राह्मणोस्मीति चाब्रवीत्
kānyakubje'pibatsomamindreṇa saha kauśikaḥ |
tataḥ kṣatrādapākrāmadbrāhmaṇosmīti cābravīt
पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम् ।
गङ्गायमुनयोर्वीर संगमं लोकविश्रुतम्
pavitramṛṣibhirjuṣṭaṃ puṇyaṃ pāvanamuttamam |
gaṅgāyamunayorvīra saṃgamaṃ lokaviśrutam
यत्रायजत भूतात्मा पूर्वमेव पितामहः ।
प्रयागमिति विख्यातं तस्माद्भरतसत्तम
yatrāyajata bhūtātmā pūrvameva pitāmahaḥ |
prayāgamiti vikhyātaṃ tasmādbharatasattama
अगस्त्यस्य तु राजेन्द्र तत्राश्रमवरो नृप ।
तत्तथा तापसारण्यं तापसैरुपशोभितम्
agastyasya tu rājendra tatrāśramavaro nṛpa |
tattathā tāpasāraṇyaṃ tāpasairupaśobhitam
हिरण्यबिन्दुः कथितो गिरौ कालञ्जरे महान् ।
आगस्त्यपर्वतोरभ्यः पुण्यो गिरिवः शिवः
hiraṇyabinduḥ kathito girau kālañjare mahān |
āgastyaparvatorabhyaḥ puṇyo girivaḥ śivaḥ
महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः ।
अयजत्तत्रकौन्तेय पूर्वमेव पितामहः
mahendro nāma kauravya bhārgavasya mahātmanaḥ |
ayajattatrakaunteya pūrvameva pitāmahaḥ
यत्रभागीरथी पुण्यां सरस्यासीद्युधिष्ठिर ।
यत्र सा ब्रह्मशालेति पुण्याख्याता विशांपते ।
धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम्
yatrabhāgīrathī puṇyāṃ sarasyāsīdyudhiṣṭhira |
yatra sā brahmaśāleti puṇyākhyātā viśāṃpate |
dhūtapāpmabhirākīrṇā puṇyaṃ tasyāśca darśanam
पवित्रो मङ्गलीयश्च ख्यातो लोके सनातनः ।
केदारश्च मतङ्गस्य महानाश्रम उत्तमः
pavitro maṅgalīyaśca khyāto loke sanātanaḥ |
kedāraśca mataṅgasya mahānāśrama uttamaḥ
कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः ।
नैषधस्तृषितो यत्र जलं शर्म च लब्धवान्
kuṇḍodaḥ parvato ramyo bahumūlaphalodakaḥ |
naiṣadhastṛṣito yatra jalaṃ śarma ca labdhavān
यत्र देववनं पुण्यं तापसैरुपशोभितम् ।
बाहुदा च नदी यत्रनन्दा च गिरिमूर्धनि
yatra devavanaṃ puṇyaṃ tāpasairupaśobhitam |
bāhudā ca nadī yatranandā ca girimūrdhani
तीर्थानि सरितः शैलाः पुण्यान्यायतनानि च ।
प्राच्यां दिशि महाराज कीर्तितानि मया तव
tīrthāni saritaḥ śailāḥ puṇyānyāyatanāni ca |
prācyāṃ diśi mahārāja kīrtitāni mayā tava
तिसृष्वन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु ।
सरितः पर्वतांश्चैव पुण्यान्यायतनानि च
tisṛṣvanyāsu puṇyāni dikṣu tīrthāni me śṛṇu |
saritaḥ parvatāṃścaiva puṇyānyāyatanāni ca
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)