वन पर्व

अध्याय 57: दमयन्ती का सन्तान को विदर्भ भेजना

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि सप्तपञ्चाशोऽध्याः ॥

26 श्लोक · 57 में से 315

इस अध्याय में क्या होता है

दमयन्ती का सन्तान को विदर्भ भेजना

नल को उन्मत्त की भाँति खेलते देख दमयन्ती भय से भर जाती है। धाय बृहत्सेना के द्वारा वह नल के नाम से मन्त्रियों को बुलवाती है, पर दूसरी बार आने पर भी नल उनका स्वागत नहीं करते। पासे सदा नल के विरुद्ध पड़ते देख वह सारथि वार्ष्णेय को बुलवाती है। वह कहती है कि राजा जितना हारते हैं, उतना ही उनका आग्रह बढ़ता है, और वे न मित्रों की सुनते हैं न मेरी। नल के वेगवान घोड़ों से दोनों बच्चों को कुण्डिनपुर मेरे परिजनों के पास ले जाओ। मन्त्रियों की सहमति से वार्ष्णेय बच्चे, रथ और घोड़े राजा भीम के पास छोड़ देता है। शोक में भटकता वह अयोध्या पहुँचकर राजा ऋतुपर्ण का सारथि बन जाता है।

बृहदश्व उवाच

57.1

दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम् ।
उन्मत्तवदनुन्मत्ता देवने कृतचेतसम्

damayantī tato dṛṣṭvā puṇyaślokaṃ narādhipam |
unmattavadanunmattā devane kṛtacetasam

57.2

भयशोकसमाविष्टा राजन्भीमसुता ततः ।
चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति

bhayaśokasamāviṣṭā rājanbhīmasutā tataḥ |
cintayāmāsa tatkāryaṃ sumahatpārthivaṃ prati

57.3

सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् ।
नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत्

sā śaṅkamānā tatpāpaṃ cikīrṣantī ca tatpriyam |
nalaṃ ca hṛtasarvasvamupalabhyedamabravīt

57.4

बृहत्सेनामतियशां तां धात्रीं परिचारिकाम् ।
हितां सर्वार्थकुशलामनुरक्तां सुभाषिताम्

bṛhatsenāmatiyaśāṃ tāṃ dhātrīṃ paricārikām |
hitāṃ sarvārthakuśalāmanuraktāṃ subhāṣitām

57.5

बृहत्सेने व्रजामात्यानानाय्य नलशासनात् ।
आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु

bṛhatsene vrajāmātyānānāyya nalaśāsanāt |
ācakṣva yaddhṛtaṃ dravyamavaśiṣṭaṃ ca yadvasu

57.6

इत्येवं सा समादिष्टा बृहत्सेना नरेश्वर ।
उवाच देव्या वचनं मन्त्रिणां सा समीपत

ityevaṃ sā samādiṣṭā bṛhatsenā nareśvara |
uvāca devyā vacanaṃ mantriṇāṃ sā samīpata

57.7

ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् ।
अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन्

tataste mantriṇaḥ sarve vijñāya nalaśāsanam |
api no bhāgadheyaṃ syādityuktvā punarāvrajan

57.8

तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः ।
न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत

tāstu sarvāḥ prakṛtayo dvitīyaṃ samupasthitāḥ |
nyavedayadbhīmasutā na ca tatpratyanandata

57.9

वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा ।
दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह

vākyamapratinandantaṃ bhartāramabhivīkṣya sā |
damayantī punarveśma vrīḍitā praviveśa ha

57.10

निशाम्य सततं चाक्षान्पुण्यश्लोकपराङ्युखान् ।
नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह

niśāmya satataṃ cākṣānpuṇyaślokaparāṅyukhān |
nalaṃ ca hṛtasarvasvaṃ dhātrīṃ punaruvāca ha

57.11

बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात् ।
सूतमानय कल्याणि महत्कार्यमुपस्थितम्

bṛhatsene punargaccha vārṣṇeyaṃ nalaśāsanāt |
sūtamānaya kalyāṇi mahatkāryamupasthitam

57.12

बृहत्सेना तु सा श्रुत्वा दमयन्त्याः प्रभाषितम् ।
वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः

bṛhatsenā tu sā śrutvā damayantyāḥ prabhāṣitam |
vārṣṇeyamānayāmāsa puruṣairāptakāribhiḥ

57.13

वार्ष्णेयं तु ततो भैमी सान्त्वयञ्छ्लक्ष्णया गिरा ।
उवाच देशकालज्ञा प्राप्तकालमनिन्दिता

vārṣṇeyaṃ tu tato bhaimī sāntvayañchlakṣṇayā girā |
uvāca deśakālajñā prāptakālamaninditā

57.14

जानषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि ।
तस्य त्वं विपमस्थस्य साहाय्यं कर्तुमर्हसि

jānaṣe tvaṃ yathā rājā samyagvṛttaḥ sadā tvayi |
tasya tvaṃ vipamasthasya sāhāyyaṃ kartumarhasi

57.15

यथायथा हि नृपतिः पुष्करेणैव जीयते ।
तथातथाऽस्य वै द्यूते रागो भूयोऽभिवर्धते

yathāyathā hi nṛpatiḥ puṣkareṇaiva jīyate |
tathātathā'sya vai dyūte rāgo bhūyo'bhivardhate

57.16

यथा च पुष्करस्याक्षाः पतन्ति वशवर्तिनः ।
तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते

yathā ca puṣkarasyākṣāḥ patanti vaśavartinaḥ |
tathā viparyayaścāpi nalasyākṣeṣu dṛśyate

57.17

सुहृत्स्वजनवाक्यानि यथाऽयं न शृणोति च ।
ममापि च तथा वाक्यं नाभिनन्दति नैषध

suhṛtsvajanavākyāni yathā'yaṃ na śṛṇoti ca |
mamāpi ca tathā vākyaṃ nābhinandati naiṣadha

57.18

यथा राज्ञः प्रदीप्तानां भाग्यानामद्य सारथे ।
नूनं मन्ये न शेषोस्ति नैषधस्य महात्मनः

yathā rājñaḥ pradīptānāṃ bhāgyānāmadya sārathe |
nūnaṃ manye na śeṣosti naiṣadhasya mahātmanaḥ

57.19

यत्तु मे वचनं राजा नाभिनन्दति मोहितः ।
शरणं त्वां प्रपन्नाऽस्मि सारथे कुरु मद्वचः ।
न हि मे शुध्ते भावो विनाशं प्रति सारथे

yattu me vacanaṃ rājā nābhinandati mohitaḥ |
śaraṇaṃ tvāṃ prapannā'smi sārathe kuru madvacaḥ |
na hi me śudhte bhāvo vināśaṃ prati sārathe

57.20

नलस्य दयितानश्वान्योजयित्वा मनोजवान् ।
रथमारोप्य मिथुनं कुण्डिनं यातुर्महसि

nalasya dayitānaśvānyojayitvā manojavān |
rathamāropya mithunaṃ kuṇḍinaṃ yāturmahasi

57.21

मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा ।
अश्वांश्चेमान्यथाकामं वस वाऽन्यत्र गच्छवा

mama jñātiṣu nikṣipya dārakau syandanaṃ tathā |
aśvāṃścemānyathākāmaṃ vasa vā'nyatra gacchavā

57.22

दमयन्त्यास्तु तद्वाक्यं वार्ण्येयो नलसारथिः ।
न्यवेदयदशेषेण नलामात्येषु मुख्यशः

damayantyāstu tadvākyaṃ vārṇyeyo nalasārathiḥ |
nyavedayadaśeṣeṇa nalāmātyeṣu mukhyaśaḥ

57.23

तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते ।
ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना

taiḥ sametya viniścitya so'nujñāto mahīpate |
yayau mithunamāropya vidarbhāṃstena vāhinā

57.24

हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम् ।
इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम्

hayāṃstatra vinikṣipya sūto rathavaraṃ ca tam |
indrasenāṃ ca tāṃ kanyāmindrasenaṃ ca bālakam

57.25

आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम् ।
क्व नु यास्यामि मनसा चिन्तयानो मुहुर्मुहुः ।
अटमानस्ततोऽयोध्यां जगाम नगरीं तदा

āmantrya bhīmaṃ rājānamārtaḥ śocannalaṃ nṛpam |
kva nu yāsyāmi manasā cintayāno muhurmuhuḥ |
aṭamānastato'yodhyāṃ jagāma nagarīṃ tadā

57.26

ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः ।
भृतिं च स ददौ चास्य सारथ्येन नियोजितः

ṛtuparṇaṃ sa rājānamupatasthe suduḥkhitaḥ |
bhṛtiṃ ca sa dadau cāsya sārathyena niyojitaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)