वन पर्व

अध्याय 305: पृथा का ब्राह्मण-सेवा का वचन

इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि पञ्चाधिकत्रिशततमोऽध्यायः ॥

20 श्लोक · 305 में से 315

इस अध्याय में क्या होता है

पृथा का ब्राह्मण-सेवा का वचन

कुन्ती पिता को आश्वासन देती हैं कि वे वचन के अनुसार पूजा और संयम से ब्राह्मण की सेवा करेंगी, ब्राह्मणों का सम्मान करना उनका स्वभाव है। वे सन्ध्या को आएँ, प्रातः आएँ या आधी रात, उन्हें क्रोध का कारण नहीं मिलेगा। सम्मानित ब्राह्मण राजा को तार सकते हैं और अपमानित होकर नष्ट भी कर सकते हैं, जैसे सुकन्या के कारण च्यवन ने किया था। कुन्तिभोज प्रसन्न होकर अतिथि का भार उसे सौंपते हैं। वे ब्राह्मण से बालिका की भूलें क्षमा करने को कहते हैं, क्योंकि श्रेष्ठ द्विज वृद्ध, बालक और तपस्वी पर क्रोध नहीं करते। ब्राह्मण मान जाते हैं। राजा उन्हें हंस और चाँदनी जैसा उजला भवन और अग्निशाला में आसन देते हैं, और पृथा आलस्य तथा मान त्यागकर देवता की भाँति उनकी सेवा करती हैं।

कुन्त्युवाच

305.1

ब्राह्मणं यन्त्रिता राजन्नुपस्थास्यामि पूजया ।
यथाप्रतिज्ञं राजेन्द्रन च मिथ्या ब्रवीम्यहम्

brāhmaṇaṃ yantritā rājannupasthāsyāmi pūjayā |
yathāpratijñaṃ rājendrana ca mithyā bravīmyaham

305.2

एष चैव स्वभावो मे पूजयेयं द्विजानिति ।
तव चैव प्रियं कार्यं श्रेयश्च परमं मम

eṣa caiva svabhāvo me pūjayeyaṃ dvijāniti |
tava caiva priyaṃ kāryaṃ śreyaśca paramaṃ mama

305.3

यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि ।
यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति

yadyevaiṣyati sāyāhne yadi prātaratho niśi |
yadyardharātre bhagavānna me kopaṃ kariṣyati

305.4

लाभो ममैष राजेन्द्र यद्वैपूजयितुं द्विजान् ।
आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम

lābho mamaiṣa rājendra yadvaipūjayituṃ dvijān |
ādeśe tava tiṣṭhantī hitaṃ kuryāṃ narottama

305.5

विस्रब्धो भवराजेन्द्र न व्यलीकं द्विजोत्तमः ।
वसन्प्राप्स्यति ते गेहे सत्यमेतद्ब्रवीमि ते

visrabdho bhavarājendra na vyalīkaṃ dvijottamaḥ |
vasanprāpsyati te gehe satyametadbravīmi te

305.6

यत्प्रियं च द्विजस्यास्य हितं चैव तवानघ ।
यतिष्यामि तथा राजन्व्येतु ते मानसो ज्वरः

yatpriyaṃ ca dvijasyāsya hitaṃ caiva tavānagha |
yatiṣyāmi tathā rājanvyetu te mānaso jvaraḥ

305.7

ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते ।
तारणाय समर्थाः स्युर्विपरीते वधाय च

brāhmaṇā hi mahābhāgāḥ pūjitāḥ pṛthivīpate |
tāraṇāya samarthāḥ syurviparīte vadhāya ca

305.8

रसाऽहमेतद्विजानन्ती तोषयिष्ये द्विजोत्तमम् ।
न मत्कृतेव्यथां राजन्प्राप्स्यसि द्विजसत्तमात्

rasā'hametadvijānantī toṣayiṣye dvijottamam |
na matkṛtevyathāṃ rājanprāpsyasi dvijasattamāt

305.9

अपराधेऽपि राजेन्द्र राज्ञामश्रेयसे द्विजाः ।
भवन्ति च्यवनो यद्वत्सुकन्यायाः कृते पुरा

aparādhe'pi rājendra rājñāmaśreyase dvijāḥ |
bhavanti cyavano yadvatsukanyāyāḥ kṛte purā

305.10

नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम् ।
यथा त्वया नरेन्द्रेदं भापितं ब्राह्मणं प्रति

niyamena pareṇāhamupasthāsye dvijottamam |
yathā tvayā narendredaṃ bhāpitaṃ brāhmaṇaṃ prati

305.11

एवं ब्रुवन्तीं बहुशः परिष्वज्य समर्थ्य च ।
इतिचेति च क्रतव्यं राजा सर्वमथादिशत्

evaṃ bruvantīṃ bahuśaḥ pariṣvajya samarthya ca |
iticeti ca kratavyaṃ rājā sarvamathādiśat

305.12

एवमेतत्त्वया भद्रे कर्तव्यमविशङ्कया ।
मद्धितार्थं तथाऽऽत्मार्थंकुलार्थं चाप्यनिन्दिते

evametattvayā bhadre kartavyamaviśaṅkayā |
maddhitārthaṃ tathā''tmārthaṃkulārthaṃ cāpyanindite

305.13

एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः ।
पृथां परिददौ तस्मै द्विजाय द्विजवत्सलः

evamuktvā tu tāṃ kanyāṃ kuntibhojo mahāyaśāḥ |
pṛthāṃ paridadau tasmai dvijāya dvijavatsalaḥ

305.14

इयं ब्रह्मन्मम सुता बाला सुखविवर्धिता ।
अपराध्येत यत्किंचिन्न कार्यं हृदि तत्त्वया

iyaṃ brahmanmama sutā bālā sukhavivardhitā |
aparādhyeta yatkiṃcinna kāryaṃ hṛdi tattvayā

305.15

द्विजातयो महाभागा वृद्धबालतपस्विषु ।
भवन्त्यक्रोधनाः प्रायो ह्यपराद्धेषु नित्यदा

dvijātayo mahābhāgā vṛddhabālatapasviṣu |
bhavantyakrodhanāḥ prāyo hyaparāddheṣu nityadā

305.16

सुमहत्यपराधेऽपि क्षान्तिः कार्या द्विजातिभिः ।
यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम

sumahatyaparādhe'pi kṣāntiḥ kāryā dvijātibhiḥ |
yathāśakti yathotsāhaṃ pūjā grāhyā dvijottama

305.17

तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः ।
हंसचन्द्रांशुसंकाशं गृहमस्मै न्यवेदयत्

tatheti brāhmaṇenokte sa rājā prītamānasaḥ |
haṃsacandrāṃśusaṃkāśaṃ gṛhamasmai nyavedayat

305.18

तत्राग्निशरणे क्लृप्तमासनं तस्य भानुमत् ।
आहारादि च सर्वं तत्तथैव प्रत्यवेदयत्

tatrāgniśaraṇe klṛptamāsanaṃ tasya bhānumat |
āhārādi ca sarvaṃ tattathaiva pratyavedayat

305.19

निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च ।
आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने

nikṣipya rājaputrī tu tandrīṃ mānaṃ tathaiva ca |
ātasthe paramaṃ yatnaṃ brāhmaṇasyābhirādhane

305.20

तत्रसा ब्राह्मणं गत्वा पृथा शौचपरा सती ।
विधिवत्परिचारार्हं देववत्पर्यतोषयत्

tatrasā brāhmaṇaṃ gatvā pṛthā śaucaparā satī |
vidhivatparicārārhaṃ devavatparyatoṣayat

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)