वन पर्व

अध्याय 300: द्युमत्सेन को राज्य वापस, सावित्री कथा का समापन

इति श्रीमन्महाभारते अरण्यपर्वणि पतिव्रतामाहात्म्यपर्वणि त्रिशततमोऽध्यायः ॥

17 श्लोक · 300 में से 315

इस अध्याय में क्या होता है

द्युमत्सेन को राज्य वापस, सावित्री कथा का समापन

सूर्योदय पर मुनि द्युमत्सेन से सावित्री की महिमा कहते नहीं थकते। तभी शाल्व देश की प्रजा आकर बताती है कि राज्य छीनने वाले शत्रु को उसके ही मन्त्री ने सहायकों और बन्धुओं सहित मार डाला है और उसकी सेना भाग गई है। प्रजा एकमत है कि आँख हो या न हो, वही राजा हों; वे रथ और सेना लाए हैं। राजा को दृष्टिवान देखकर सब विस्मय से प्रणाम करते हैं। वे शैब्या और सावित्री के साथ नगर जाते हैं। समय पर सावित्री के सौ वीर पुत्र होते हैं और अश्वपति को मालवी से सौ पुत्र मिलते हैं। मार्कण्डेय कहते हैं कि द्रौपदी भी सावित्री की भाँति तुम सबको तारेगी। शोकमुक्त युधिष्ठिर काम्यक वन में रहते हैं; जो यह कथा भक्ति से सुनता है, उसे दुःख नहीं होता।

मार्कण्डेय उवाच

300.1

तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले ।
कृतपौर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः

tasyāṃ rātryāṃ vyatītāyāmudite sūryamaṇḍale |
kṛtapaurvāhṇikāḥ sarve sameyuste tapodhanāḥ

300.2

तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः ।
द्युम्सेनाय नातृप्यन्कथयन्तः पुनः पुनः

tadeva sarvaṃ sāvitryā mahābhāgyaṃ maharṣayaḥ |
dyumsenāya nātṛpyankathayantaḥ punaḥ punaḥ

300.3

ततः प्रकृतयः सर्वाः साल्वेभ्योऽभ्यागा नृपम् ।
आचख्युर्निहतं चैव स्वेनामात्येन तं द्विषम्

tataḥ prakṛtayaḥ sarvāḥ sālvebhyo'bhyāgā nṛpam |
ācakhyurnihataṃ caiva svenāmātyena taṃ dviṣam

300.4

तं मन्त्रिणा हतं प्रोच्य ससहायं सबान्धवम् ।
न्यवेदयन्यथावृत्तं विद्रुतं च द्विषद्बलम्

taṃ mantriṇā hataṃ procya sasahāyaṃ sabāndhavam |
nyavedayanyathāvṛttaṃ vidrutaṃ ca dviṣadbalam

300.5

ऐकमत्यं च सर्वस्य जनस्य स्वं नृपं प्रति ।
सचक्षुर्वाऽप्यचक्षुर्वा स नो राजा भवत्विति

aikamatyaṃ ca sarvasya janasya svaṃ nṛpaṃ prati |
sacakṣurvā'pyacakṣurvā sa no rājā bhavatviti

300.6

अनेन निश्चयेनेह वयं प्रस्थापिता नृप ।
प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम्

anena niścayeneha vayaṃ prasthāpitā nṛpa |
prāptānīmāni yānāni caturaṅgaṃ ca te balam

300.7

प्रयाहि राजन्भद्रं ते घुष्टस्ते नगरे जयः ।
अध्यास्स्व चिररात्राय पितृपैतामहं पदम्

prayāhi rājanbhadraṃ te ghuṣṭaste nagare jayaḥ |
adhyāssva cirarātrāya pitṛpaitāmahaṃ padam

300.8

चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषाऽन्वितम् ।
मूर्ध्ना निपतिताः सर्वेविस्मयोत्फुल्ललोचनाः

cakṣuṣmantaṃ ca taṃ dṛṣṭvā rājānaṃ vapuṣā'nvitam |
mūrdhnā nipatitāḥ sarvevismayotphullalocanāḥ

300.9

तोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः ।
तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति

to'bhivādya tānvṛddhāndvijānāśramavāsinaḥ |
taiścābhipūjitaḥ sarvaiḥ prayayau nagaraṃ prati

300.10

शैव्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा ।
नरयुक्तेन यानेन प्रययौ सेनया वृता

śaivyā ca saha sāvitryā svāstīrṇena suvarcasā |
narayuktena yānena prayayau senayā vṛtā

300.11

ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः ।
पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन्

tato'bhiṣiṣicuḥ prītyā dyumatsenaṃ purohitāḥ |
putraṃ cāsya mahātmānaṃ yauvarājye'bhyaṣecayan

300.12

ततः कालेन महता सावित्र्याः कीर्तिवर्धनम् ।
तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम्

tataḥ kālena mahatā sāvitryāḥ kīrtivardhanam |
tadvai putraśataṃ jajñe śūrāṇāmanivartinām

300.13

भ्रातृणां सोदराणां च तथैवास्याभवच्छतम् ।
मद्राधिपस्याश्वपतेर्मालव्यां सुमहाबलम्

bhrātṛṇāṃ sodarāṇāṃ ca tathaivāsyābhavacchatam |
madrādhipasyāśvapatermālavyāṃ sumahābalam

300.14

एवमात्मा पिता माता श्वश्रूः श्वशुर एव च ।
भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात्समुद्धृतं

evamātmā pitā mātā śvaśrūḥ śvaśura eva ca |
bhartuḥ kulaṃ ca sāvitryā sarvaṃ kṛcchrātsamuddhṛtaṃ

300.15

तथैवैषा हि कल्याणी द्रौपदी शीलसंमता ।
तारयिष्यति वः सर्वान्सावित्रीव कुलाङ्गना

tathaivaiṣā hi kalyāṇī draupadī śīlasaṃmatā |
tārayiṣyati vaḥ sarvānsāvitrīva kulāṅganā

वैशंपायन उवाच

300.16

एवं स पाण्डवस्तेन अनुनीतो महात्मना ।
विशोको विज्वरो राजन्काम्यके न्यवसत्तदा

evaṃ sa pāṇḍavastena anunīto mahātmanā |
viśoko vijvaro rājankāmyake nyavasattadā

300.17

यश्चेदं शृणुयाद्भक्त्या सावित्र्याख्यानमुत्तमम् ।
स सुखी सर्वसिद्धार्थो न दुःखं प्राप्नुयान्नरः

yaścedaṃ śṛṇuyādbhaktyā sāvitryākhyānamuttamam |
sa sukhī sarvasiddhārtho na duḥkhaṃ prāpnuyānnaraḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)