वन पर्व

अध्याय 275: रामोपाख्यान का आरम्भ: राम और रावण का वंश

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ॥

17 श्लोक · 275 में से 315

इस अध्याय में क्या होता है

रामोपाख्यान का आरम्भ: राम और रावण का वंश

मार्कण्डेय कहते हैं कि श्रीराम ने अनुपम दुःख सहा था। रावण ने माया से, जटायु को मारकर, आश्रम से सीता का हरण किया, और श्रीराम ने सुग्रीव की सेना से समुद्र पर सेतु बाँधकर और लंका जलाकर उन्हें वापस पाया। युधिष्ठिर पूरी कथा सुनना चाहते हैं। मार्कण्डेय वंश से आरम्भ करते हैं। इक्ष्वाकुवंशी अज के पुत्र दशरथ के चार पुत्र थे: कौसल्या से राम, कैकेयी से भरत, और सुमित्रा से लक्ष्मण और शत्रुघ्न। सीता विदेहराज जनक की पुत्री थीं। ब्रह्मा के मानसपुत्र पुलस्त्य के पुत्र वैश्रवण पिता को छोड़कर ब्रह्मा की सेवा में गए; क्रुद्ध पुलस्त्य ने अपने आधे अंश से विश्रवा को उत्पन्न किया। ब्रह्मा ने वैश्रवण को धन का स्वामित्व, ईशान की मित्रता, लंका और पुष्पक विमान दिया।

मार्कण्डेय उवाच

275.1

प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ ।
रक्षसा जानकी तस्य हृता भार्या बलीयसा

prāptamapratimaṃ duḥkhaṃ rāmeṇa bharatarṣabha |
rakṣasā jānakī tasya hṛtā bhāryā balīyasā

275.2

आश्रमाद्राक्षसेन्द्रेण रावणेन दुरात्मना ।
मायामास्थाय तरसा हत्वा गृध्रं जटायुषम्

āśramādrākṣasendreṇa rāvaṇena durātmanā |
māyāmāsthāya tarasā hatvā gṛdhraṃ jaṭāyuṣam

275.3

प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः ।
बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः

pratyājahāra tāṃ rāmaḥ sugrīvabalamāśritaḥ |
baddhvā setuṃ samudrasya dagdhvā laṅkāṃ śitaiḥ śaraiḥ

युधिष्ठिर उवाच

275.4

कस्मिन्नामः कुले जातः किंवीर्यः किंपराक्रमः ।
रावणः कस्य पुत्रो वा किं वैरं तस् तेन ह

kasminnāmaḥ kule jātaḥ kiṃvīryaḥ kiṃparākramaḥ |
rāvaṇaḥ kasya putro vā kiṃ vairaṃ tas tena ha

275.5

एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि ।
त्वया प्रत्यक्षोदृष्टं यथासर्वमशेषतः ।
श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः

etanme bhagavansarvaṃ samyagākhyātumarhasi |
tvayā pratyakṣodṛṣṭaṃ yathāsarvamaśeṣataḥ |
śrotumicchāmi caritaṃ rāmasyākliṣṭakarmaṇaḥ

मार्कण्डेय उवाच

275.6

अजोनामाभवद्राजा महानिक्ष्वाकुवंशजः ।
तस् पुत्रो दशरथःशश्वत्स्वाध्यायवाञ्छुचिः

ajonāmābhavadrājā mahānikṣvākuvaṃśajaḥ |
tas putro daśarathaḥśaśvatsvādhyāyavāñchuciḥ

275.7

अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः ।
रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः

abhavaṃstasya catvāraḥ putrā dharmārthakovidāḥ |
rāmalakṣmaṇaśatrughnā bharataśca mahābalaḥ

275.8

रामस्य माता कौसल्या कैकेयी भरतस्य तु ।
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परंतपौ

rāmasya mātā kausalyā kaikeyī bharatasya tu |
sutau lakṣmaṇaśatrughnau sumitrāyāḥ paraṃtapau

275.9

विदेहराजो जनकः सीता तस्यात्मजा विमो ।
यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम्

videharājo janakaḥ sītā tasyātmajā vimo |
yāṃ cakāra svayaṃ tvaṣṭā rāmasya mahiṣīṃ priyām

275.10

एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम् ।
रावणस्यापि ते जन्म व्याख्यास्यामि रजनेश्वर

etadrāmasya te janma sītāyāśca prakīrtitam |
rāvaṇasyāpi te janma vyākhyāsyāmi rajaneśvara

275.11

पितामहो रावणस्य साक्षाद्देवः प्रजापतिः ।
स्वयंभूः सर्वलोकानां प्रभुः स्रष्टा महातपाः

pitāmaho rāvaṇasya sākṣāddevaḥ prajāpatiḥ |
svayaṃbhūḥ sarvalokānāṃ prabhuḥ sraṣṭā mahātapāḥ

275.12

पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः ।
तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः

pulastyo nāma tasyāsīnmānaso dayitaḥ sutaḥ |
tasya vaiśravaṇo nāma gavi putro'bhavatprabhuḥ

275.13

पितरं स समुत्सृज्य पितामहमुपस्थितः ।
तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना

pitaraṃ sa samutsṛjya pitāmahamupasthitaḥ |
tasya kopātpitā rājansasarjātmānamātmanā

275.14

स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः ।
प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै

sa jajñe viśravā nāma tasyātmārdhena vai dvijaḥ |
pratīkārāya sakrodhastato vaiśravaṇasya vai

275.15

पितामहस्तुप्रीतात्मा ददौ वैश्रवणस् ह ।
अमरत्वं धनेशत्वं लोकपालत्वमेव च

pitāmahastuprītātmā dadau vaiśravaṇas ha |
amaratvaṃ dhaneśatvaṃ lokapālatvameva ca

275.16

ईशानन तथा सख्यं पुत्रं च नलकूवरम् ।
राजधानीनिवेसं च लङ्कांरक्षोगणान्विताम्

īśānana tathā sakhyaṃ putraṃ ca nalakūvaram |
rājadhānīnivesaṃ ca laṅkāṃrakṣogaṇānvitām

275.17

विमानं पुष्पकं नाम कामगं च ददौ प्रभुः ।
यक्षाणामाधिपत्यंच राजराजत्वमेव च

vimānaṃ puṣpakaṃ nāma kāmagaṃ ca dadau prabhuḥ |
yakṣāṇāmādhipatyaṃca rājarājatvameva ca

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)