एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।
अत ऊर्द्वं नरव्याघ्राः किमकुर्वत पाण्डवाः
evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśamanuttamam |
ata ūrdvaṃ naravyāghrāḥ kimakurvata pāṇḍavāḥ
इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि चतुःसप्तत्यधिकद्विशततमोऽध्यायः ॥
13 श्लोक · 274 में से 315
जनमेजय पूछते हैं कि द्रौपदी को छुड़ाने के बाद पाण्डवों ने क्या किया। वैशम्पायन बताते हैं कि युधिष्ठिर ने मुनियों के बीच बैठकर भूत और भविष्य के ज्ञाता मार्कण्डेय से प्रश्न किया। वे कहते हैं कि द्रौपदी वेदी के बीच से प्रकट हुईं, गर्भ से नहीं जन्मीं, और पाण्डु की पुत्रवधू हैं। उन्होंने कोई पाप नहीं किया, ब्राह्मणों के प्रति सदा धर्म निभाया, फिर भी मूढ़ जयद्रथ उन्हें बलपूर्वक ले गया। इसी से उसका सिर मूँड़ा गया और वह हारा, और हम उन्हें लौटा लाए। फिर भी हम वन में आखेट से जीते हैं और दूसरों के छल से स्वजनों से दूर हैं। युधिष्ठिर पूछते हैं कि क्या आपने मुझसे अधिक अभागा कोई मनुष्य देखा या सुना है।
जनमेजय उवाच
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।
अत ऊर्द्वं नरव्याघ्राः किमकुर्वत पाण्डवाः
evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśamanuttamam |
ata ūrdvaṃ naravyāghrāḥ kimakurvata pāṇḍavāḥ
वैशंपायन उवाच
एवं कृष्णां मोक्षयित्वाविनिर्जित्य जयद्रथम् ।
आसांचक्रे मुनिगणैर्धर्मराजो युधिष्टिरः
evaṃ kṛṣṇāṃ mokṣayitvāvinirjitya jayadratham |
āsāṃcakre munigaṇairdharmarājo yudhiṣṭiraḥ
तेषां मध्येमहर्षीणां शृण्वतामनुशोचताम् ।
मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः
teṣāṃ madhyemaharṣīṇāṃ śṛṇvatāmanuśocatām |
mārkaṇḍeyamidaṃ vākyamabravītpāṇḍunandanaḥ
भगवन्देवर्षीणां त्वं ख्यातो भूतभविष्यवित् ।
संशयं परिपृच्छमि च्छिन्धि मे हृदि संस्थितम्
bhagavandevarṣīṇāṃ tvaṃ khyāto bhūtabhaviṣyavit |
saṃśayaṃ paripṛcchami cchindhi me hṛdi saṃsthitam
द्रुपदस्य सुता ह्येषा वेदिमध्यात्समुत्थिता ।
अयोनिजा महाभागास्नुषा पाण्डोर्महात्मनः
drupadasya sutā hyeṣā vedimadhyātsamutthitā |
ayonijā mahābhāgāsnuṣā pāṇḍormahātmanaḥ
मन्ये कालश्च भगवान्दैवं च दुरतिक्रमम् ।
भवितव्यं च भूतानां यस् नास्ति व्यतिक्रमः
manye kālaśca bhagavāndaivaṃ ca duratikramam |
bhavitavyaṃ ca bhūtānāṃ yas nāsti vyatikramaḥ
कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम् ।
संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम्
kathaṃ hi patnīmasmākaṃ dharmajñāṃ dharmacāriṇīm |
saṃspṛśedīdṛśo bhāvaḥ śuciṃ stainyamivānṛtam
न हि पापं कृतंकिंचित्कर्म वा निन्दितं क्वचित् ।
द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान्
na hi pāpaṃ kṛtaṃkiṃcitkarma vā ninditaṃ kvacit |
draupadyā brāhmaṇeṣveva dharmaḥ sucarito mahān
तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः ।
तस्याः संहरणात्पापः शिरसः केशवापनम्
tāṃ jahāra balādrājā mūḍhabuddhirjayadrathaḥ |
tasyāḥ saṃharaṇātpāpaḥ śirasaḥ keśavāpanam
पराजयं च संग्रामे ससहाः समाप्तवान् ।
प्रत्याहृता तथाऽस्माभिर्हत्वा तत्सैन्धवं बलम्
parājayaṃ ca saṃgrāme sasahāḥ samāptavān |
pratyāhṛtā tathā'smābhirhatvā tatsaindhavaṃ balam
तद्दारहरणं प्राप्तमस्माभिरवितर्कितम् ।
दुःखश्चायं वने वासो मृगयायां च जीविका
taddāraharaṇaṃ prāptamasmābhiravitarkitam |
duḥkhaścāyaṃ vane vāso mṛgayāyāṃ ca jīvikā
हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम् ।
ज्ञातिभिर्विप्रवासश्च मिथ्याव्यवसितैरियम्
hiṃsā ca mṛgajātīnāṃ vanaukobhirvanaukasām |
jñātibhirvipravāsaśca mithyāvyavasitairiyam
अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः ।
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा क्वचित्
asti nūnaṃ mayā kaścidalpabhāgyataro naraḥ |
bhavatā dṛṣṭapūrvo vā śrutapūrvo'pi vā kvacit
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)