तथाऽऽसीनेषु सर्वेषु तेषु राजसु भारत ।
कोटिकाश्यो जगामाशु सिन्धुराजनिवेशनम्
tathā''sīneṣu sarveṣu teṣu rājasu bhārata |
koṭikāśyo jagāmāśu sindhurājaniveśanam
इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि अष्टषष्ट्यधिकद्विशततमोऽध्यायः ॥
28 श्लोक · 268 में से 315
कोटिकाश्य सारी बात जयद्रथ को बताता है। वह कहता है कि इसके सामने दूसरी स्त्रियाँ बंदरियों जैसी लगती हैं, और स्वयं देखने जाता है। छह साथियों के साथ वह आश्रम में ऐसे घुसता है जैसे भेड़िया सिंह की माँद में। द्रौपदी शिष्टता से जल, आसन और युधिष्ठिर की ओर से प्रातराश के लिए मृग देने की बात कहती हैं। जयद्रथ कहता है कि मेरे रथ पर चढ़ो; पाण्डव नष्ट हो चुके हैं, बुद्धिमान स्त्री निर्धन पति को छोड़ देती है, मेरी पत्नी बनकर सिन्धु और सौवीर का सुख भोगो। द्रौपदी भौंहें तानकर कहती हैं कि लज्जा करो, तुम दुःशला के पति हो, जो कौरवों और पाण्डवों की बहन है। जयद्रथ उत्तर देता है कि राजा स्त्रियों को स्वतन्त्रता से ग्रहण करते हैं।
वैशंपायन उवाच
तथाऽऽसीनेषु सर्वेषु तेषु राजसु भारत ।
कोटिकाश्यो जगामाशु सिन्धुराजनिवेशनम्
tathā''sīneṣu sarveṣu teṣu rājasu bhārata |
koṭikāśyo jagāmāśu sindhurājaniveśanam
यदुक्तं कृष्णया सार्धं तत्सर्वं प्रत्यवेदयत् ।
कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत्
yaduktaṃ kṛṣṇayā sārdhaṃ tatsarvaṃ pratyavedayat |
koṭikāśyavacaḥ śrutvā śaibyaṃ sauvīrako'bravīt
यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः ।
सीमन्तिनीनां सुख्यायां विनिवृत्तः कथं भवान्
yadā vācaṃ vyāharantyāmasyāṃ me ramate manaḥ |
sīmantinīnāṃ sukhyāyāṃ vinivṛttaḥ kathaṃ bhavān
एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः ।
प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते
etāṃ dṛṣṭvā striyo me'nyā yathā śākhāmṛgastriyaḥ |
pratibhānti mahābāho satyametadbravīmi te
दर्शनादेव हि मनस्तया मेऽपहृतं भृशम् ।
तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी
darśanādeva hi manastayā me'pahṛtaṃ bhṛśam |
tāṃ samācakṣva kalyāṇīṃ yadi syācchaibya mānuṣī
कोटिक उवाच
एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी ।
पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम्
eṣā vai draupadī kṛṣṇā rājaputrī yaśasvinī |
pañcānāṃ pāṇḍuputrāṇāṃ mahiṣī saṃmatā bhṛśam
सर्वेषां चैव पार्थानां प्रिया बहुमता सती ।
तया समेत्य सौवीर सौवीराभिमुखो व्रज
sarveṣāṃ caiva pārthānāṃ priyā bahumatā satī |
tayā sametya sauvīra sauvīrābhimukho vraja
वैशंपायन उवाच
एवमुक्तः प्रत्युवाच पश्यामि द्रौपदीमिति ।
पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः
evamuktaḥ pratyuvāca paśyāmi draupadīmiti |
patiḥ sauvīrasindhūnāṃ duṣṭabhāvo jayadrathaḥ
स प्रविश्याश्रमं पुण्यं सिंहगोष्ठं वृको यथा ।
आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत्
sa praviśyāśramaṃ puṇyaṃ siṃhagoṣṭhaṃ vṛko yathā |
ātmanā saptamaḥ kṛṣṇāmidaṃ vacanamabravīt
कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः ।
येषां कुशलकामासि तेऽपिकच्चिदनामयाः
kuśalaṃ te varārohe bhartāraste'pyanāmayāḥ |
yeṣāṃ kuśalakāmāsi te'pikaccidanāmayāḥ
द्रौपद्युवाच
अपि ते कुशलं राजन्राष्ट्रे कोशे बले तथा ।
कच्चिदेकः शिबीनाढ्यान्सौवीरान्सह सिन्धुभिः ।
अनुतिष्ठसि धर्मेण ये चान्ये विदितास्त्वया
api te kuśalaṃ rājanrāṣṭre kośe bale tathā |
kaccidekaḥ śibīnāḍhyānsauvīrānsaha sindhubhiḥ |
anutiṣṭhasi dharmeṇa ye cānye viditāstvayā
कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः ।
अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि
kauravyaḥ kuśalī rājā kuntīputro yudhiṣṭhiraḥ |
ahaṃ ca bhrātaraścāsya yāṃścānyānparipṛcchasi
पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज ।
मृगान्विता मृगीश्चैव प्रातराशं ददानि ते
pādyaṃ pratigṛhāṇedamāsanaṃ ca nṛpātmaja |
mṛgānvitā mṛgīścaiva prātarāśaṃ dadāni te
ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान् ।
ऋक्षाव्रुरूञ्शम्बरांश्च गवयांश्च मृगान्बहून्
aiṇeyānpṛṣatānnyaṅkūnhariṇāñśarabhāñśaśān |
ṛkṣāvrurūñśambarāṃśca gavayāṃśca mṛgānbahūn
वराहामहिषांश्चैव याश्चान्या मृगजातयः ।
प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्टिरः
varāhāmahiṣāṃścaiva yāścānyā mṛgajātayaḥ |
pradāsyati svayaṃ tubhyaṃ kuntīputro yudhiṣṭiraḥ
जयद्रथ उवाच
कुशलं प्रातराशस्य सर्वं मे दित्सितं त्वया ।
एहि मे रथमारोह सुखमाप्नुहि केवलम्
kuśalaṃ prātarāśasya sarvaṃ me ditsitaṃ tvayā |
ehi me rathamāroha sukhamāpnuhi kevalam
गतश्रीकान्हृतराज्यान्कृपणान्गतचेतसः ।
अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि
gataśrīkānhṛtarājyānkṛpaṇāngatacetasaḥ |
araṇyavāsinaḥ pārthānnānuroddhuṃ tvamarhasi
नैव प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते ।
युञ्जानमनुयुञ्जीत न शरियः संक्षये वसेत्
naiva prājñā gataśrīkaṃ bhartāramupayuñjate |
yuñjānamanuyuñjīta na śariyaḥ saṃkṣaye vaset
श्रिया विहीना राष्ट्राच्च विनष्टाः शाश्वतीः समाः ।
अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम्
śriyā vihīnā rāṣṭrācca vinaṣṭāḥ śāśvatīḥ samāḥ |
alaṃ te pāṇḍuputrāṇāṃ bhaktyā kleśamupāsitum
भार्या मे भव सुश्रोणि त्यजैनान्मुखमाप्नुहि ।
अखिलान्सिन्धुसौवीरानाप्नुहि त्वं मया सह
bhāryā me bhava suśroṇi tyajainānmukhamāpnuhi |
akhilānsindhusauvīrānāpnuhi tvaṃ mayā saha
वैशंपायन उवाच
इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम् ।
कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी
ityuktā sindhurājena vākyaṃ hṛdayakampanam |
kṛṣṇā tasmādapākrāmaddeśātsabhrukuṭīmukhī
अवमत्यास्य तद्वांक्यमाक्षिप्य च सुमध्यमा ।
मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम्
avamatyāsya tadvāṃkyamākṣipya ca sumadhyamā |
maivamityabravītkṛṣṇā lajjasveti ca saindhavam
सा काङ्क्षमाणा भर्तृणामुपयातमनिन्दिता ।
विलम्बयामास परं वाक्यैर्वाक्यानि युञ्जती
sā kāṅkṣamāṇā bhartṛṇāmupayātamaninditā |
vilambayāmāsa paraṃ vākyairvākyāni yuñjatī
द्रैपद्युवाच
नैवं वद महाबाहो न्याय्यं त्वं न च मन्यसे ।
पाण्डूनां धार्तराष्ट्राणां स्वसा चैव कनीयसी
naivaṃ vada mahābāho nyāyyaṃ tvaṃ na ca manyase |
pāṇḍūnāṃ dhārtarāṣṭrāṇāṃ svasā caiva kanīyasī
दुश्शला नाम तस्यास्त्वं भर्ता राजकुलोद्वह ।
मम भ्राता च न्याय्येन त्वया रक्ष्या महारथ
duśśalā nāma tasyāstvaṃ bhartā rājakulodvaha |
mama bhrātā ca nyāyyena tvayā rakṣyā mahāratha
धर्मिष्ठानां कुले जातो न धर्मं त्वमवेक्षसे ।
इत्युक्तः सिन्धुराजोथ वाक्यमुत्तरमब्रवीत्
dharmiṣṭhānāṃ kule jāto na dharmaṃ tvamavekṣase |
ityuktaḥ sindhurājotha vākyamuttaramabravīt
राज्ञां धर्मं न जानीषे स्त्रियो रत्नानि चैव हि ।
साधारणानि लोकेऽस्मिन्प्रवदन्ति मनीषिणः
rājñāṃ dharmaṃ na jānīṣe striyo ratnāni caiva hi |
sādhāraṇāni loke'sminpravadanti manīṣiṇaḥ
स्वसा च स्वस्रिया चैव भ्रातृभार्या तथैव च ।
सुखं गृह्णन्ति राजानस्ताश्च तत्र नृपोद्भवाः
svasā ca svasriyā caiva bhrātṛbhāryā tathaiva ca |
sukhaṃ gṛhṇanti rājānastāśca tatra nṛpodbhavāḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)