तस्मिन्बहुमृगेऽरण्ये अटमाना महारथाः ।
काम्यके भरतश्रेष्ठा विजह्वुस्ते यथामराः
tasminbahumṛge'raṇye aṭamānā mahārathāḥ |
kāmyake bharataśreṣṭhā vijahvuste yathāmarāḥ
इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि पञ्चषष्ट्यधिकद्विशततमोऽध्यायः ॥
17 श्लोक · 265 में से 315
पाण्डव काम्यक वन में विचरते हैं और एक दिन पाँचों भाई ब्राह्मणों के भोजन के लिए चारों दिशाओं में आखेट को निकलते हैं। वे द्रौपदी को तृणबिन्दु मुनि की आज्ञा से आश्रम में, पुरोहित धौम्य की देखरेख में छोड़ जाते हैं। उसी समय वृद्धक्षत्र का पुत्र, सिन्धुराज जयद्रथ, विवाह की इच्छा से शाल्व देश जा रहा होता है। उसके साथ राजसी ठाठ और अनेक राजा हैं। काम्यक में वह आश्रम के द्वार पर अकेली खड़ी द्रौपदी को देखता है, जो काले मेघ में बिजली जैसी दमक रही हैं। साथी सोचते हैं कि यह अप्सरा है या देवकन्या। काम से मोहित जयद्रथ कोटिकाश्य से कहता है कि अब मुझे विवाह नहीं चाहिए, और उसे यह पूछने भेजता है कि यह सुन्दरी कौन है और किसकी पत्नी है।
वैशंपायन उवाच
तस्मिन्बहुमृगेऽरण्ये अटमाना महारथाः ।
काम्यके भरतश्रेष्ठा विजह्वुस्ते यथामराः
tasminbahumṛge'raṇye aṭamānā mahārathāḥ |
kāmyake bharataśreṣṭhā vijahvuste yathāmarāḥ
प्रेक्षमाणा बहुविधान्वनोद्देशान्समन्ततः ।
यथर्तुकालरम्याश्चवनराजीः सुषुष्पिताः
prekṣamāṇā bahuvidhānvanoddeśānsamantataḥ |
yathartukālaramyāścavanarājīḥ suṣuṣpitāḥ
पाण्डवा मृगयाशीलाश्चरन्तस्तन्महद्वनम् ।
विजह्नरिन्द्रप्रिमाः कंचित्कालमरिंदमाः
pāṇḍavā mṛgayāśīlāścarantastanmahadvanam |
vijahnarindraprimāḥ kaṃcitkālamariṃdamāḥ
ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम् ।
मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परतपाः
tataste yaugapadyena yayuḥ sarve caturdiśam |
mṛgayāṃ puruṣavyāghrā brāhmaṇārthe paratapāḥ
द्रौपदीमाश्रमे न्यस् तृणबिन्दोरनुज्ञया ।
महर्षेर्दीप्ततपसो घौम्यस्य च पुरोधसः
draupadīmāśrame nyas tṛṇabindoranujñayā |
maharṣerdīptatapaso ghaumyasya ca purodhasaḥ
तस्तु राजा सिंधूनां वार्धक्षत्रिर्महायशाः ।
विवाहकामः साल्वेयान्प्रयातः सोऽभवत्तदा
tastu rājā siṃdhūnāṃ vārdhakṣatrirmahāyaśāḥ |
vivāhakāmaḥ sālveyānprayātaḥ so'bhavattadā
महता परिबर्हेण राजयोग्येन संवृतः ।
राजभिर्बहुभिः सार्धमुपायात्काम्यकं च सः
mahatā paribarheṇa rājayogyena saṃvṛtaḥ |
rājabhirbahubhiḥ sārdhamupāyātkāmyakaṃ ca saḥ
तत्रापश्यत्प्रियां भार्यां पाण्डवानां यशस्विनीम् ।
तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने
tatrāpaśyatpriyāṃ bhāryāṃ pāṇḍavānāṃ yaśasvinīm |
tiṣṭhantīmāśramadvāri draupadīṃ nirjane vane
विभ्राजमानां वपुषा बिभ्रतीं रूपमुत्तमम् ।
भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम्
vibhrājamānāṃ vapuṣā bibhratīṃ rūpamuttamam |
bhrājayantīṃ vanoddeśaṃ nīlābhramiva vidyutam
अप्सरा देवकन्या वा माया वा देवनिर्मिता ।
इतिकृत्वाञ्जलिं सर्वे ददृशृस्तामनिन्दिताम्
apsarā devakanyā vā māyā vā devanirmitā |
itikṛtvāñjaliṃ sarve dadṛśṛstāmaninditām
तः स राजा सिन्धूनां वार्धक्षत्रिर्जयद्रथः ।
विस्मितस्त्वनवद्याङ्गीं दृष्ट्वा तां दुष्टमानसः
taḥ sa rājā sindhūnāṃ vārdhakṣatrirjayadrathaḥ |
vismitastvanavadyāṅgīṃ dṛṣṭvā tāṃ duṣṭamānasaḥ
स कोटिकाश्यं राजानमब्रवीत्काममोहितः ।
कस्य त्वेषाऽनवद्याङ्गी यदिवाऽपिन मानुषी
sa koṭikāśyaṃ rājānamabravītkāmamohitaḥ |
kasya tveṣā'navadyāṅgī yadivā'pina mānuṣī
विवाहार्थो न मे कश्चिदिमां दृष्ट्वाऽतिमुन्दरीम् ।
एतामेवाहमादाय गमिष्यामि स्वमालयम्
vivāhārtho na me kaścidimāṃ dṛṣṭvā'timundarīm |
etāmevāhamādāya gamiṣyāmi svamālayam
गच्छ जानीहि सौम्येमां कस्य वाऽत्र कुतोपि वा ।
किमर्थमागता सुभ्रूरिदं कष्टकितं वनम्
gaccha jānīhi saumyemāṃ kasya vā'tra kutopi vā |
kimarthamāgatā subhrūridaṃ kaṣṭakitaṃ vanam
अपि नाम वरारोहा मामेषा लोकसुन्दरी ।
भजेदद्यायतापाङ्गी सुदती तनुमध्यमा
api nāma varārohā māmeṣā lokasundarī |
bhajedadyāyatāpāṅgī sudatī tanumadhyamā
अप्यहं कृतकामः स्यामिमां प्राप्य वरस्रियम् ।
गच्छजानीहि कोन्वस्या नाथ इत्येव कोटिक
apyahaṃ kṛtakāmaḥ syāmimāṃ prāpya varasriyam |
gacchajānīhi konvasyā nātha ityeva koṭika
स कोटिकाश्यस्तच्छ्रुत्वा रथात्प्रस्कन्द्य कुण्डली ।
उपेत्यपप्रच्छ तदा क्रोष्टा व्याघ्रवधूमिव
sa koṭikāśyastacchrutvā rathātpraskandya kuṇḍalī |
upetyapapraccha tadā kroṣṭā vyāghravadhūmiva
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)