वन पर्व

अध्याय 26: बक दाल्भ्य का उपदेश: ब्राह्मण और क्षत्रिय का मेल

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाबिगमनपर्वणि षड्विंशोऽध्यायः ॥

25 श्लोक · 26 में से 315

इस अध्याय में क्या होता है

बक दाल्भ्य का उपदेश: ब्राह्मण और क्षत्रिय का मेल

द्वैतवन ब्राह्मणों से भर जाता है और सरोवर पर ऋक्, यजु और साम का पाठ पाण्डवों के धनुष की टंकार के साथ गूँजता है। एक सन्ध्या ऋषि बक दाल्भ्य युधिष्ठिर से कहते हैं कि तुम्हारी रक्षा में भृगु, अंगिरा, वसिष्ठ, कश्यप, अगस्त्य और अत्रि के वंशज यहाँ अग्नि जलाते हैं। ब्राह्मण और क्षत्रिय साथ हों तो शत्रुओं को वैसे जलाते हैं जैसे अग्नि और वायु वन को। ब्राह्मण के बिना कोई राजा अधिक दिन नहीं टिकता; बलि उन्हीं से समृद्ध हुआ और उनका अपमान करके नष्ट हुआ। ब्राह्मणों के बिना क्षत्रिय बिना महावत के हाथी जैसा है। किसी विद्वान ब्राह्मण को सदा पास रखो। फिर व्यास, नारद, जामदग्न्य, शौनक आदि अनेक ऋषि युधिष्ठिर का वैसे सम्मान करते हैं जैसे ऋषि इन्द्र का।

वैशंपायन उवाच

26.1

वसत्सु वै द्वैतवने पाण्डवेषु महात्मसु ।
अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत

vasatsu vai dvaitavane pāṇḍaveṣu mahātmasu |
anukīrṇaṃ mahāraṇyaṃ brāhmaṇaiḥ samapadyata

26.2

ईर्यमाणेन सततं ब्रह्मघोषेण सर्वशः ।
ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः

īryamāṇena satataṃ brahmaghoṣeṇa sarvaśaḥ |
brahmalokasamaṃ puṇyamāsīddvaitavanaṃ saraḥ

26.3

यजुषामृचां साम्नां च गद्यानां चैव सर्वशः ।
आसीदुच्चार्यमाणानां निःस्वनो हृदयंगमः

yajuṣāmṛcāṃ sāmnāṃ ca gadyānāṃ caiva sarvaśaḥ |
āsīduccāryamāṇānāṃ niḥsvano hṛdayaṃgamaḥ

26.4

ज्याघोषश्चैव पार्थानां ब्रह्मघोषश्च धीमताम् ।
संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत

jyāghoṣaścaiva pārthānāṃ brahmaghoṣaśca dhīmatām |
saṃsṛṣṭaṃ brahmaṇā kṣatraṃ bhūya eva vyarocata

26.5

अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम् ।
सन्ध्यां कौन्तेयमासीनमृषिभिः परिवारितम्

athābravīdbako dālbhyo dharmarājaṃ yudhiṣṭhiram |
sandhyāṃ kaunteyamāsīnamṛṣibhiḥ parivāritam

26.6

पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम् ।
होमवेलां कुरुश्रेष्ठ संप्रज्वलितपावकाम्

paśya dvaitavane pārtha brāhmaṇānāṃ tapasvinām |
homavelāṃ kuruśreṣṭha saṃprajvalitapāvakām

26.7

चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः ।
भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह

caranti dharmaṃ puṇye'smiṃstvayā guptā dhṛtavratāḥ |
bhṛgavo'ṅgirasaścaiva vāsiṣṭhāḥ kāśyapaiḥ saha

26.8

आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः ।
सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः संगतास्त्वया

āgastyāśca mahābhāgā ātreyāścottamavratāḥ |
sarvasya jagataḥ śreṣṭhā brāhmaṇāḥ saṃgatāstvayā

26.9

इदं तु वचनं पार्थ शृण्वेकाग्रमना मम ।
भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव

idaṃ tu vacanaṃ pārtha śṛṇvekāgramanā mama |
bhrātṛbhiḥ saha kaunteya yattvāṃ vakṣyāmi kaurava

26.10

ब्राह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह ।
उदीर्णे दहतः शत्रून्वनानीवाग्निमारुतौ

brāhma kṣatreṇa saṃsṛṣṭaṃ kṣatraṃ ca brahmaṇā saha |
udīrṇe dahataḥ śatrūnvanānīvāgnimārutau

26.11

नाब्राह्मणस्तात चिरं बुभूषे-
दिच्छन्नमं लोकममुं च जेतुम् ।
विनीतधर्मार्थमपेतमोहं
लब्ध्वा द्विजं हन्ति नृपः सपत्नान्

nābrāhmaṇastāta ciraṃ bubhūṣe-
dicchannamaṃ lokamamuṃ ca jetum |
vinītadharmārthamapetamohaṃ
labdhvā dvijaṃ hanti nṛpaḥ sapatnān

26.12

चरन्नैश्रेयसं धर्मं प्रजापालनकारितम् ।
नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात्

carannaiśreyasaṃ dharmaṃ prajāpālanakāritam |
nādhyagacchadbalirloke tīrthamanyatra vai dvijāt

26.13

अनूनमासीदसुरस्य कामै-
वैरोचनेः श्रीरपि चाक्षयाऽऽसीत् ।
लब्ध्वा महीं ब्राह्मणसंप्रयोगा-
त्तेष्वाचरन्दुष्टमयथो व्यनश्यत्

anūnamāsīdasurasya kāmai-
vairocaneḥ śrīrapi cākṣayā''sīt |
labdhvā mahīṃ brāhmaṇasaṃprayogā-
tteṣvācaranduṣṭamayatho vyanaśyat

26.14

नाब्राह्मणं भूमिरियं सभूति-
र्वर्णं द्वितीयं भजते चिराय ।
समुद्रनेमिर्नमते तु तस्मै
यं ब्राह्मणः शास्ति नयैर्विनीतम्

nābrāhmaṇaṃ bhūmiriyaṃ sabhūti-
rvarṇaṃ dvitīyaṃ bhajate cirāya |
samudranemirnamate tu tasmai
yaṃ brāhmaṇaḥ śāsti nayairvinītam

26.15

कुञ्चरस्येव संग्रामे परिगृह्याङ्कुशग्रहम् ।
ब्राह्माणैर्विप्रहीनस्य क्षत्रस्य क्षीयते बलम्

kuñcarasyeva saṃgrāme parigṛhyāṅkuśagraham |
brāhmāṇairviprahīnasya kṣatrasya kṣīyate balam

26.16

ब्राह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम् ।
तौ यदा चरतः सार्धं तदा लोकः प्रसीदती

brāhmaṇyanupamā dṛṣṭiḥ kṣātramapratimaṃ balam |
tau yadā carataḥ sārdhaṃ tadā lokaḥ prasīdatī

26.17

यथा हि सुमहानग्निः कक्षं दहति सानिलः ।
तथा दहति राजन्यो ब्राह्मणेन समं रिपुम्

yathā hi sumahānagniḥ kakṣaṃ dahati sānilaḥ |
tathā dahati rājanyo brāhmaṇena samaṃ ripum

26.18

ब्राह्मणेष्वेव मेधावी बुद्धिपर्येषणं चरेत् ।
अलब्धस्य च लाभाय लब्धस्य परिवृद्धये

brāhmaṇeṣveva medhāvī buddhiparyeṣaṇaṃ caret |
alabdhasya ca lābhāya labdhasya parivṛddhaye

26.19

अलब्धलाभाय च लब्धवृद्धये ।
यथार्हतीर्थप्रतिपादनाय ।
यशस्विनं वेदविदं विपश्चितं
बहुश्रुं ब्राह्मणमेव वासयेत्

alabdhalābhāya ca labdhavṛddhaye |
yathārhatīrthapratipādanāya |
yaśasvinaṃ vedavidaṃ vipaścitaṃ
bahuśruṃ brāhmaṇameva vāsayet

26.20

ब्राह्मणेषूत्तमा भक्तिस्तव नित्यं युधिष्ठिर ।
तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः

brāhmaṇeṣūttamā bhaktistava nityaṃ yudhiṣṭhira |
tena te sarvalokeṣu dīpyate prathitaṃ yaśaḥ

26.21

ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमंपूजयन् ।
युधिष्ठिरं स्तूयमाने भूयः सुमनसोऽभवन्

tataste brāhmaṇāḥ sarve bakaṃ dālbhyamaṃpūjayan |
yudhiṣṭhiraṃ stūyamāne bhūyaḥ sumanaso'bhavan

26.22

द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः ।
इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात्

dvaipāyano nāradaśca jāmadagnyaḥ pṛthuśravāḥ |
indradyumno bhālukiśca kṛtacetāḥ sahasrapāt

26.23

कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः ।
हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः

karṇaśravāśca muñjaśca lavaṇāśvaśca kāśyapaḥ |
hārītaḥ sthūṇakarṇaśca agniveśyo'tha śaunakaḥ

26.24

कृतवाक्च सुवाश्चैव बृहदश्चो विभावसुः ।
ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः

kṛtavākca suvāścaiva bṛhadaśco vibhāvasuḥ |
ūrdhvaretā vṛṣāmitraḥ suhotro hotravāhanaḥ

26.25

एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः ।
अजातशत्रुमानर्चुः पुरंदरमिवर्षयः

ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ |
ajātaśatrumānarcuḥ puraṃdaramivarṣayaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)