वन पर्व

अध्याय 236: सत्यभामा द्रौपदी को सान्त्वना देकर लौटती हैं

इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीसत्यभामासंवादपर्वणि षट्‌त्रिंशदधिकद्विशततमोऽध्यायः ॥

18 श्लोक · 236 में से 315

इस अध्याय में क्या होता है

सत्यभामा द्रौपदी को सान्त्वना देकर लौटती हैं

मार्कण्डेय, ब्राह्मणों और पाण्डवों से प्रिय वार्ता के बाद श्रीकृष्ण विदा लेते हैं और सत्यभामा को रथ पर बुलाते हैं। सत्यभामा द्रौपदी को गले लगाकर उनके मन को शान्ति देने वाली बातें कहती हैं। वे कहती हैं कि शोक मत करो, देवतुल्य पतियों के साथ तुम फिर पृथ्वी पाओगी, क्योंकि तुम जैसी शीलवती स्त्रियाँ बहुत दिन दुःख नहीं भोगतीं। तुम धृतराष्ट्र के पुत्रों का वध, युधिष्ठिर के अधीन पृथ्वी और उपहास करने वाली कुरु स्त्रियों के टूटे संकल्प देखोगी। तुम्हारे पुत्र प्रतिविन्ध्य, सुतसोम, श्रुतकर्मा, शतानीक और श्रुतसेन द्वारका में कुशल हैं। सुभद्रा उन्हें अभिमन्यु के समान स्नेह देती हैं और बलराम आदि वृष्णि उन्हें प्रद्युम्न जैसा मानते हैं। फिर वे द्रौपदी की प्रदक्षिणा करके रथ पर चढ़ती हैं और श्रीकृष्ण चल पड़ते हैं।

वैशंपायन उवाच

236.1

मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिः ।
कथाभिरनुकूलाभिः सह स्तित्वा जनार्दनः

mārkaṇḍeyādibhirvipraiḥ pāṇḍavaiśca mahātmabhiḥ |
kathābhiranukūlābhiḥ saha stitvā janārdanaḥ

236.2

ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः ।
आरुरुक्षू रथं सत्यामाह्वयामास भारत

tatastaiḥ saṃvidaṃ kṛtvā yathāvanmadhusūdanaḥ |
ārurukṣū rathaṃ satyāmāhvayāmāsa bhārata

236.3

सत्यभामा ततस्तत्र स्वजित्वा द्रुपदात्मजाम् ।
उवाच वचनं हृद्यं यथाभावं समाहितम्

satyabhāmā tatastatra svajitvā drupadātmajām |
uvāca vacanaṃ hṛdyaṃ yathābhāvaṃ samāhitam

236.4

कृष्णे माभूत्तवोत्कण्ठा मा व्यथा मा प्रजागरः ।
भर्तृभिर्देवसंकाशैर्जितां प्राप्स्यसि मेदिनीम्

kṛṣṇe mābhūttavotkaṇṭhā mā vyathā mā prajāgaraḥ |
bhartṛbhirdevasaṃkāśairjitāṃ prāpsyasi medinīm

236.5

न ह्येवं शीलसंपन्ना नैवं पूजितलक्षणाः ।
प्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे

na hyevaṃ śīlasaṃpannā naivaṃ pūjitalakṣaṇāḥ |
prāpnuvanti ciraṃ kleśaṃ yathā tvamasitekṣaṇe

236.6

अवश्यं च त्वया भूमिरियं निहतकण्टका ।
भर्तृभिः सहभोक्तव्या निर्द्वन्द्वेति श्रुतं मया

avaśyaṃ ca tvayā bhūmiriyaṃ nihatakaṇṭakā |
bhartṛbhiḥ sahabhoktavyā nirdvandveti śrutaṃ mayā

236.7

धार्तराष्ट्रवधं कृत्वावैराणि प्तियात्य च ।
युधिष्ठिरस्थां पृथिवीं द्रष्टासि द्रुपदात्मजे

dhārtarāṣṭravadhaṃ kṛtvāvairāṇi ptiyātya ca |
yudhiṣṭhirasthāṃ pṛthivīṃ draṣṭāsi drupadātmaje

236.8

यास्ताः प्रव्राजपानां त्वां प्राहसन्दर्पमोहिताः ।
ताः क्षिप्रं हतसंकल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः

yāstāḥ pravrājapānāṃ tvāṃ prāhasandarpamohitāḥ |
tāḥ kṣipraṃ hatasaṃkalpā drakṣyasi tvaṃ kurustriyaḥ

236.9

तव दुःखोपपन्नाया यैराचरितमप्रियम् ।
विद्धि संप्रस्थितान्सर्वांस्तान्कृष्णे यमसादनम्

tava duḥkhopapannāyā yairācaritamapriyam |
viddhi saṃprasthitānsarvāṃstānkṛṣṇe yamasādanam

236.10

पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथाविधः ।
श्रुतकर्माऽर्जुनिश्चैव शतानीकश्च नाकुलिः

putraste prativindhyaśca sutasomastathāvidhaḥ |
śrutakarmā'rjuniścaiva śatānīkaśca nākuliḥ

236.11

सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः ।
सर्वेकुशलिनो वीराः कृतास्त्राश्च सुतास्तव

sahadevācca yo jātaḥ śrutasenastavātmajaḥ |
sarvekuśalino vīrāḥ kṛtāstrāśca sutāstava

236.12

अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम् ।
त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता

abhimanyuriva prītā dvāravatyāṃ ratā bhṛśam |
tvamivaiṣāṃ subhadrā ca prītyā sarvātmanā sthitā

236.13

प्रीयते तव निर्द्वन्द्वा तेभ्यश्च विगतज्वरा ।
दुःखिता तेन दुःखेन सुखेन सुखिता तथा

prīyate tava nirdvandvā tebhyaśca vigatajvarā |
duḥkhitā tena duḥkhena sukhena sukhitā tathā

236.14

भजेत्सर्वात्मना चैव प्रद्युम्नजननी तथा ।
भानुप्रभृतिभिश्चैनान्विशिनष्टि च केशवः

bhajetsarvātmanā caiva pradyumnajananī tathā |
bhānuprabhṛtibhiścainānviśinaṣṭi ca keśavaḥ

236.15

भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितः ।
रामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयः

bhojanācchādane caiṣāṃ nityaṃ me śvaśuraḥ sthitaḥ |
rāmaprabhṛtayaḥ sarve bhajantyandhakavṛṣṇayaḥ

236.16

तुल्यो हिप्रणयस्तेषां प्रद्युम्नस्य च भामिनि ।
एवमादि प्रियं सत्यंहृद्यमुक्त्वा मनोनुगम्

tulyo hipraṇayasteṣāṃ pradyumnasya ca bhāmini |
evamādi priyaṃ satyaṃhṛdyamuktvā manonugam

236.17

गमनाय मनश्चक्रेवासुदेवरथं प्रति ।
तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम्

gamanāya manaścakrevāsudevarathaṃ prati |
tāṃ kṛṣṇāṃ kṛṣṇamahiṣī cakārābhipradakṣiṇam

236.18

आरुरोह रथं शौरेः सत्यभामाऽथ भामिनी ।
स्मयित्वातु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य च ।
उपावर्त्य ततः शीघ्रैर्हयैः प्रायात्परंतपः

āruroha rathaṃ śaureḥ satyabhāmā'tha bhāminī |
smayitvātu yaduśreṣṭho draupadīṃ parisāntvya ca |
upāvartya tataḥ śīghrairhayaiḥ prāyātparaṃtapaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)