काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः ।
अग्निराङ्गिरसश्चैव च्यवनस्तीव्रवर्चकः
kāśyapo hyatha vāsiṣṭhaḥ prāṇaśca prāṇaputrakaḥ |
agnirāṅgirasaścaiva cyavanastīvravarcakaḥ
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि द्वाविंशत्यधिरकद्विरतितमोऽध्यायः ॥
20 श्लोक · 222 में से 315
मार्कण्डेय तप नामक अग्नि की कथा कहते हैं। काश्यप, वासिष्ठ, प्राण के पुत्र, आङ्गिरस और च्यवन ने ब्रह्मा के समान यशस्वी पुत्र के लिए अनेक वर्ष कठोर तप किया। पाँच महाव्याहृतियों से ध्यान करने पर पाँच रंगों वाला तेजस्वी पुरुष प्रकट हुआ। उसका सिर प्रज्वलित अग्नि, भुजाएँ सूर्य जैसी, त्वचा और नेत्र सुनहरे, जाँघें काली थीं। पाँच जनों से बने होने के कारण वह पाञ्चजन्य कहलाया, पाँच वंशों का प्रवर्तक। दस सहस्र वर्ष तप करके उसने पितरों का अग्नि उत्पन्न किया। उसने सिर से बृहत् और रथन्तर, मुख से हरि, नाभि से शिव, बल से इन्द्र और प्राण से वायु उत्पन्न किए। उसने यज्ञ चुराने वाले पन्द्रह प्राणी भी रचे, जिन्हें वेदी का अग्नि दूर भगाता है। फिर वह अपने तेजस्वी पुत्रों के साथ आनन्दित हुआ।
मार्कण्डेय उवाच
काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः ।
अग्निराङ्गिरसश्चैव च्यवनस्तीव्रवर्चकः
kāśyapo hyatha vāsiṣṭhaḥ prāṇaśca prāṇaputrakaḥ |
agnirāṅgirasaścaiva cyavanastīvravarcakaḥ
अचरत्स तपस्तीव्रं पुत्रार्थे बहुवार्षिकम् ।
पुत्रं लभेयं धर्मिष्ठं यशसा ब्रह्मणा समम्
acaratsa tapastīvraṃ putrārthe bahuvārṣikam |
putraṃ labheyaṃ dharmiṣṭhaṃ yaśasā brahmaṇā samam
महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ ।
जज्ञे तेजोमयार्चिष्मान्पञ्चवर्णः प्राकरः
mahāvyāhṛtibhirdhyātaḥ pañcabhistaistadā tvatha |
jajñe tejomayārciṣmānpañcavarṇaḥ prākaraḥ
समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा ।
त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत
samiddho'gniḥ śirastasya bāhū sūryanibhau tathā |
tvaṅnetre ca suvarṇābhe kṛṣṇe jaṅghe ca bhārata
पञ्चवर्षः स तपसा कृतस्तैः पञ्चभिर्जनैः ।
पाञ्चजन्यः श्रुतो देवः पञ्चवंशकरस्तु सः
pañcavarṣaḥ sa tapasā kṛtastaiḥ pañcabhirjanaiḥ |
pāñcajanyaḥ śruto devaḥ pañcavaṃśakarastu saḥ
दशवर्षसहस्राणि तपस्तप्त्वा महातपाः ।
जनयत्पावकं घोरं पितॄणां स प्रजाः सृजन्
daśavarṣasahasrāṇi tapastaptvā mahātapāḥ |
janayatpāvakaṃ ghoraṃ pitṝṇāṃ sa prajāḥ sṛjan
बृहद्रथंतरौ मूर्ध्ना वक्राच्च तपसा हरिम् ।
शिवं नाभ्यां बलादिन्द्रं प्राणाद्वायुं च भारत
bṛhadrathaṃtarau mūrdhnā vakrācca tapasā harim |
śivaṃ nābhyāṃ balādindraṃ prāṇādvāyuṃ ca bhārata
बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह ।
एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान्
bāhubhyāmanudāttau ca viśve bhūtāni caiva ha |
etānsṛṣṭvā tataḥ pañca pitṝṇāmasṛjatsutān
बृहद्रथस्य प्रणिधिः काश्यपश्य महत्तरः ।
भानुरङ्गिरसो धीरः पुत्रो वर्चस्य सौरभः
bṛhadrathasya praṇidhiḥ kāśyapaśya mahattaraḥ |
bhānuraṅgiraso dhīraḥ putro varcasya saurabhaḥ
प्राणस्य चानुदात्तस्तु व्याख्याताः पञ्च वंशजाः ।
देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान्
prāṇasya cānudāttastu vyākhyātāḥ pañca vaṃśajāḥ |
devānyajñamuṣaścānyānsṛjanpañcadaśottarān
सुभीममतिभीमं च भीमं भीमबलाबलम् ।
एतान्यज्ञमुषः पञ्च देवानप्यसृजत्ततः
subhīmamatibhīmaṃ ca bhīmaṃ bhīmabalābalam |
etānyajñamuṣaḥ pañca devānapyasṛjattataḥ
सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम् ।
मित्रधर्माणमित्येतान्देवानभ्यसृजत्ततः
sumitraṃ mitravantaṃ ca mitrajñaṃ mitravardhanam |
mitradharmāṇamityetāndevānabhyasṛjattataḥ
सुरप्रवीरं वीरं च सुरेशं च सुवर्चसम् ।
सुराणामपि भर्तारं पञ्चैतानसृजत्ततः
surapravīraṃ vīraṃ ca sureśaṃ ca suvarcasam |
surāṇāmapi bhartāraṃ pañcaitānasṛjattataḥ
त्रिविधं संस्थिता ह्येते पञ्चपञ्च पृथक्पृथक् ।
मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतान्यज्ञयाजिनः
trividhaṃ saṃsthitā hyete pañcapañca pṛthakpṛthak |
muṣṇantyatra sthitā hyete svargatānyajñayājinaḥ
तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्धविः ।
स्पर्धयाहव्यवाहानां निघ्नन्त्येते हरन्ति च
teṣāmiṣṭaṃ harantyete nighnanti ca mahaddhaviḥ |
spardhayāhavyavāhānāṃ nighnantyete haranti ca
बहिर्वेद्यां तदादानं कुशलैः संप्रवर्तितम् ।
तत्रैते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत्
bahirvedyāṃ tadādānaṃ kuśalaiḥ saṃpravartitam |
tatraite nopasarpanti yatra cāgniḥ sthito bhavet
चितोऽग्निरुद्वहन्यज्ञं पक्षाभ्यां तान्प्रबाधते ।
मन्त्रै प्रशमिताह्येते नेष्टं मुष्णन्ति यज्ञियम्
cito'gnirudvahanyajñaṃ pakṣābhyāṃ tānprabādhate |
mantrai praśamitāhyete neṣṭaṃ muṣṇanti yajñiyam
तपस्ये बृदुक्थस्य पुत्रो भूमिमुपाश्रितः ।
अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरीड्यते
tapasye bṛdukthasya putro bhūmimupāśritaḥ |
agnihotre hūyamāne pṛthivyāṃ sadbhirīḍyate
रथन्तरश्चतपसः पुत्रोऽग्निः परिपठ्यते ।
मित्रविन्दा तथा भार्या हविरध्वर्यवो विदुः ॥*
rathantaraścatapasaḥ putro'gniḥ paripaṭhyate |
mitravindā tathā bhāryā haviradhvaryavo viduḥ ||*
एतैः सह महाभाग तपस्तेजस्विभिर्नृप ।
मुमुदे परमप्रीतः सह पुत्रैर्महायशाः
etaiḥ saha mahābhāga tapastejasvibhirnṛpa |
mumude paramaprītaḥ saha putrairmahāyaśāḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)