वन पर्व

अध्याय 220: अग्नि का वनगमन और अङ्गिरा का अग्नि बनना

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि विंशत्यधिकद्विशततमोऽध्यायः ॥

21 श्लोक · 220 में से 315

इस अध्याय में क्या होता है

अग्नि का वनगमन और अङ्गिरा का अग्नि बनना

युधिष्ठिर मार्कण्डेय से पूछते हैं कि अग्नि क्यों वन गए, अङ्गिरा ने उनकी जगह हवि कैसे पहुँचाई, एक अग्नि अनेक रूपों में क्यों दिखते हैं, और कुमार अग्नि, रुद्र, गङ्गा और कृत्तिकाओं के पुत्र कैसे हुए। मार्कण्डेय कथा आरम्भ करते हैं। क्रोधित होकर अग्नि तप करने वन चले गए। तब महर्षि अङ्गिरा स्वयं अग्नि बनकर लोकों को प्रकाशित करने और अन्धकार मिटाने लगे। उन्हें देखकर अग्नि ने सोचा कि ब्रह्मा ने कोई दूसरा अग्नि रच दिया है, और वे नम्र होकर लौटे। अङ्गिरा ने उनसे फिर अपना स्थान लेने को कहा। अग्नि बोले, मेरी कीर्ति चली गई, लोग आपको ही पावक जानते हैं, मैं दूसरा रहूँगा। अङ्गिरा ने कहा, मुझे अपना पहला पुत्र मान लीजिए। अग्नि ने वैसा ही किया। अङ्गिरा के पुत्र बृहस्पति हुए।

वैशंपायन उवाच

220.1

श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम् ।
पुनः पप्रच्छ तमृषिं मार्कण्डेयमिदं तदा

śrutvemāṃ dharmasaṃyuktāṃ dharmarājaḥ kathāṃ śubhām |
punaḥ papraccha tamṛṣiṃ mārkaṇḍeyamidaṃ tadā

220.2

कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा ।
नष्टेऽग्नौ हव्यमहवदग्निर्भूत्वा महाद्युतिः

kathamagnirvanaṃ yātaḥ kathaṃ cāpyaṅgirāḥ purā |
naṣṭe'gnau havyamahavadagnirbhūtvā mahādyutiḥ

220.3

अग्निर्यदा चैक एव बहुत्वं चास्य कर्मसु ।
दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम्

agniryadā caika eva bahutvaṃ cāsya karmasu |
dṛśyate bhagavansarvametadicchāmi veditum

220.4

कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत् ।
यथा रुद्राच्च संभूतो गङ्गायां कृत्तिकासु च

kumāraśca yathotpanno yathā cāgneḥ suto'bhavat |
yathā rudrācca saṃbhūto gaṅgāyāṃ kṛttikāsu ca

220.5

एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवसत्तम ।
कौतूहलसमाविष्टो याथातथ्यं महामुने

etadicchāmyahaṃ tvattaḥ śrotuṃ bhārgavasattama |
kautūhalasamāviṣṭo yāthātathyaṃ mahāmune

मार्कण्डेय उवाच

220.6

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः

atrāpyudāharantīmamitihāsaṃ purātanam |
yathā kruddho hutavahastapastaptuṃ vanaṃ gataḥ

220.7

यथा च भगवानग्निः स्वयमेवाङ्गेराऽभवत् ।
संतापयंश्च प्रभया नाशयंस्तिमिरावलिम्

yathā ca bhagavānagniḥ svayamevāṅgerā'bhavat |
saṃtāpayaṃśca prabhayā nāśayaṃstimirāvalim

220.8

पुराङ्गिरा महाबाहो चचार तप उत्तमम् ।
आश्रमस्थो महाभागो हव्यवाहं विशेषयन् ।
यथाग्निर्भूत्वा तु तदा जगत्सर्वं व्यकाशयत्

purāṅgirā mahābāho cacāra tapa uttamam |
āśramastho mahābhāgo havyavāhaṃ viśeṣayan |
yathāgnirbhūtvā tu tadā jagatsarvaṃ vyakāśayat

220.9

तपश्चरंस्तु हुतभुक्संतप्तस्तस्य तेजसा ।
भृशं ग्लानश्चतेजस्वी न च किंचित्प्रजज्ञिवान्

tapaścaraṃstu hutabhuksaṃtaptastasya tejasā |
bhṛśaṃ glānaścatejasvī na ca kiṃcitprajajñivān

220.10

अथ संचिन्तयामास भगवान्हव्यवाहनः ।
अन्योऽग्निरिव लोकानां ब्रह्मणा संप्रकल्पितः

atha saṃcintayāmāsa bhagavānhavyavāhanaḥ |
anyo'gniriva lokānāṃ brahmaṇā saṃprakalpitaḥ

220.11

अग्नित्वं विप्रनष्टं हि तप्यमानस् मे तपः ।
कथमग्निः पुनरहं भवेयमिति चिन्त्य सः

agnitvaṃ vipranaṣṭaṃ hi tapyamānas me tapaḥ |
kathamagniḥ punarahaṃ bhaveyamiti cintya saḥ

220.12

अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम् ।
सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः

apaśyadagnivallokāṃstāpayantaṃ mahāmunim |
sopāsarpacchanairbhītastamuvāca tadāṅgirāḥ

220.13

शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः ।
विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु

śīghrameva bhavasvāgnistvaṃ punarlokabhāvanaḥ |
vijñātaścāsi lokeṣu triṣu saṃsthānacāriṣu

220.14

त्वमग्ने प्रथमः सृष्टो ब्र्हमणा तिमिरापर्हः ।
स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमो नुद

tvamagne prathamaḥ sṛṣṭo brhamaṇā timirāparhaḥ |
svasthānaṃ pratipadyasva śīghrameva tamo nuda

अग्निरुवाच

220.15

नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः ।
भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः

naṣṭakīrtirahaṃ loke bhavāñjāto hutāśanaḥ |
bhavantameva jñāsyanti pāvakaṃ na tu māṃ janāḥ

220.16

निक्षिपम्यहमग्नित्वं त्वमग्निः प्रथमो भव ।
भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च

nikṣipamyahamagnitvaṃ tvamagniḥ prathamo bhava |
bhaviṣyāmi dvitīyo'haṃ prājāpatyaka eva ca

अङ्गिरा उवाच

220.17

कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः ।
मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा

kuru puṇyaṃ prajāsvargyaṃ bhavāgnistimirāpahaḥ |
māṃ ca deva kuruṣvāgne prathamaṃ putramañjasā

मार्कण्डेय उवाच

220.18

तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाऽकरोत् ।
राजन्वृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः

tacchrutvāṅgiraso vākyaṃ jātavedāstathā'karot |
rājanvṛhaspatirnāma tasyāpyaṅgirasaḥ sutaḥ

220.19

ज्ञात्वा प्रथमजं तं तु वह्नेरङ्गिरसं सुतम् ।
उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत

jñātvā prathamajaṃ taṃ tu vahneraṅgirasaṃ sutam |
upetya devāḥ papracchuḥ kāraṇaṃ tatra bhārata

220.20

स तु पृष्टस्तदा देवैस्तत कारणमब्रवीत् ।
प्रत्यगृह्णन्त देवाश्च तद्वचोऽङ्गिरसस्तदा

sa tu pṛṣṭastadā devaistata kāraṇamabravīt |
pratyagṛhṇanta devāśca tadvaco'ṅgirasastadā

220.21

तत्रनानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान् ।
कर्मभिर्वहुभिः ख्याताननानार्थान्ब्राह्मणेष्विह

tatranānāvidhānagnīnpravakṣyāmi mahāprabhān |
karmabhirvahubhiḥ khyātānanānārthānbrāhmaṇeṣviha

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)