मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा ।
माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम्
mārkaṇḍeyaṃ mahātmānamūcuḥ pāṇḍusutāstadā |
māhātmyaṃ dvijamukhyānāṃ śrotumicchāma kathyatām
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि सप्ताशीत्यधिकशततमोऽध्यायः ॥
25 श्लोक · 187 में से 315
ब्राह्मणों की महिमा पूछे जाने पर मार्कण्डेय एक हैहय राजकुमार की कथा कहते हैं, जिसने शिकार में काले मृगचर्म ओढ़े एक मुनि को हिरण समझकर मार डाला। व्याकुल होकर उसने हैहय राजाओं को बताया, और वे खोजते हुए तार्क्ष्य अरिष्टनेमि के आश्रम पहुँचे। लज्जित होकर उन्होंने सत्कार लेने से मना किया और वध की बात कही। पर शव वहाँ न था, और तार्क्ष्य ने उसी मारे गए पुत्र को जीवित सामने खड़ा कर दिया। चकित राजाओं के पूछने पर मुनि बोले कि मृत्यु हमें नहीं छू सकती, क्योंकि हम शुद्ध आचार और शुद्ध अन्न रखते हैं, सत्य बोलते हैं, स्वधर्म निभाते हैं, अतिथियों और सेवकों को खिलाकर शेष खाते हैं, क्षमाशील हैं और पुण्य देश में रहते हैं। राजा प्रसन्न होकर लौट गए।
वैशंपायन उवाच
मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा ।
माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम्
mārkaṇḍeyaṃ mahātmānamūcuḥ pāṇḍusutāstadā |
māhātmyaṃ dvijamukhyānāṃ śrotumicchāma kathyatām
एवमुक्तः स भगवान्मार्कण्डेयो महातपाः ।
उवाच सुमहातेजाः सर्वशास्त्रविशारदः
evamuktaḥ sa bhagavānmārkaṇḍeyo mahātapāḥ |
uvāca sumahātejāḥ sarvaśāstraviśāradaḥ
हेहयानां कुलकरो राजा परपुरंजयः ।
कुमारो रूपसंपननो मृगयां व्यचरद्बली
hehayānāṃ kulakaro rājā parapuraṃjayaḥ |
kumāro rūpasaṃpanano mṛgayāṃ vyacaradbalī
चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते ।
कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके
caramāṇastu so'raṇye tṛṇavīrutsamāvṛte |
kṛṣṇājinottarāsaṅgaṃ dadarśa munimantike
स तेन हिंसितोऽरण्ये मन्यमानेन वै मृगम् ।
व्यथितः कर्म तत्कृत्वा शोकोपहतचेतनः
sa tena hiṃsito'raṇye manyamānena vai mṛgam |
vyathitaḥ karma tatkṛtvā śokopahatacetanaḥ
जगाम हेहयानां वै सकाशं प्रथितात्मनाम् ।
राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते
jagāma hehayānāṃ vai sakāśaṃ prathitātmanām |
rājñāṃ rājīvanetrosau kumāraḥ pṛthivīpate
तेषां च तद्यथावृत्तं कथयामास वै तदा ।
स कुमारो महीपालो हेहयानां महीभृताम्
teṣāṃ ca tadyathāvṛttaṃ kathayāmāsa vai tadā |
sa kumāro mahīpālo hehayānāṃ mahībhṛtām
तं चापि हिंसितं तात मुनिं मूलफलाशिनम् ।
श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः
taṃ cāpi hiṃsitaṃ tāta muniṃ mūlaphalāśinam |
śrutvā dṛṣṭvā ca te tatra babhūvurdīnamānasāḥ
कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः ।
जग्मुश्चारिष्टनाम्नोऽथ तार्क्ष्यस्याश्रममञ्जसा
kasyāyamiti te sarve mārgamāṇāstatastataḥ |
jagmuścāriṣṭanāmno'tha tārkṣyasyāśramamañjasā
तेऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम् ।
तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत्
te'bhivādya mahātmānaṃ taṃ muniṃ saṃśitavratam |
tasthuḥ sarve sa tu munisteṣāṃ pūjāmathāharat
ते तमूचुर्महात्मानं न वयं सक्रियां मुने ।
त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः
te tamūcurmahātmānaṃ na vayaṃ sakriyāṃ mune |
tvatto'rhāḥ karmadoṣeṇa brāhmaṇo hiṃsito hi naḥ
तानब्रवीत्स विप्रर्षिः कथं वो ब्राह्मणो हतः ।
क्व चासौ ब्रूत सहिताः पश्यध्वं मे रतपोबलम्
tānabravītsa viprarṣiḥ kathaṃ vo brāhmaṇo hataḥ |
kva cāsau brūta sahitāḥ paśyadhvaṃ me ratapobalam
ते तु तत्सर्वमखिलमाख्यायास्मै यथातथम् ।
नापश्यंस्तमृषिं तत्र गतासुं ते समागताः
te tu tatsarvamakhilamākhyāyāsmai yathātatham |
nāpaśyaṃstamṛṣiṃ tatra gatāsuṃ te samāgatāḥ
अन्वेषमाणाः सव्रीडाः सुप्तवद्गतमानसाः ।
तानब्रवीत्तत्रमुनिस्तार्क्ष्यः परपुरंजयः
anveṣamāṇāḥ savrīḍāḥ suptavadgatamānasāḥ |
tānabravīttatramunistārkṣyaḥ parapuraṃjayaḥ
स्यादयं ब्राह्मणः सोऽथयुष्माभिर्यो विनाशितः ।
पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः
syādayaṃ brāhmaṇaḥ so'thayuṣmābhiryo vināśitaḥ |
putro hyayaṃ mama nṛpāstapobalasamanvitaḥ
ते च दृष्ट्वैव तमृषिं विस्मयं परमं गताः ।
महदाश्चर्यमिति वै ते ब्रुवाणा महीपते
te ca dṛṣṭvaiva tamṛṣiṃ vismayaṃ paramaṃ gatāḥ |
mahadāścaryamiti vai te bruvāṇā mahīpate
मृतो ह्ययमितो दृष्टः कथं जीवितमाप्तवान् ।
किमेतत्तपसो वीर्यं येनायं जीवितः पुनः ।
श्रोतुमिच्छामहे विप्र यदि श्रोतव्यमित्युत
mṛto hyayamito dṛṣṭaḥ kathaṃ jīvitamāptavān |
kimetattapaso vīryaṃ yenāyaṃ jīvitaḥ punaḥ |
śrotumicchāmahe vipra yadi śrotavyamityuta
स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः ।
कारणं च प्रवक्ष्यामि हेतुयोगं समासतः ।
मृत्युः प्रभवते येन नास्माकं नृपसत्तमाः
sa tānuvāca nāsmākaṃ mṛtyuḥ prabhavate nṛpāḥ |
kāraṇaṃ ca pravakṣyāmi hetuyogaṃ samāsataḥ |
mṛtyuḥ prabhavate yena nāsmākaṃ nṛpasattamāḥ
शुद्धाचारादनलसाः साध्योपासनतत्पराः ।
शुद्धान्नाः शुद्धसदना ब्रह्मचर्यव्रतान्विताः
śuddhācārādanalasāḥ sādhyopāsanatatparāḥ |
śuddhānnāḥ śuddhasadanā brahmacaryavratānvitāḥ
सत्यमेवाभिजानीमो नानृते कुर्महे मनः ।
स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः
satyamevābhijānīmo nānṛte kurmahe manaḥ |
svadharmamanutiṣṭhāmastasmānmṛtyubhayaṃ na naḥ
यद्ब्राह्मणानां कुशलं तदेषां कथयामहे ।
तेषां हि चरितं ब्रूमस्तस्मान्मृत्युभयं न नः
yadbrāhmaṇānāṃ kuśalaṃ tadeṣāṃ kathayāmahe |
teṣāṃ hi caritaṃ brūmastasmānmṛtyubhayaṃ na naḥ
अतिथीनन्नपानेन भृत्यानत्यशनेन च ।
संभोज्य शेषमश्नीमस्तस्मान्मृत्युभयं न नः
atithīnannapānena bhṛtyānatyaśanena ca |
saṃbhojya śeṣamaśnīmastasmānmṛtyubhayaṃ na naḥ
क्षान्ता दान्ताः क्षमाशीलास्तीर्थदानपरायणाः ।
पुण्यदेशनिवासाच्च तस्मान्मृत्युभयं न नः ।
तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः
kṣāntā dāntāḥ kṣamāśīlāstīrthadānaparāyaṇāḥ |
puṇyadeśanivāsācca tasmānmṛtyubhayaṃ na naḥ |
tejasvideśavāsācca tasmānmṛtyubhayaṃ na naḥ
एतद्वै लेशमात्रं वः समाख्यातं विमत्सराः ।
गच्छध्वं सहिताः सर्वे न पापाद्भयमस्ति वः
etadvai leśamātraṃ vaḥ samākhyātaṃ vimatsarāḥ |
gacchadhvaṃ sahitāḥ sarve na pāpādbhayamasti vaḥ
एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम् ।
स्वदेशमगमन्हृष्टा राजानो भरतर्षभ
evamastviti te sarve pratipūjya mahāmunim |
svadeśamagamanhṛṣṭā rājāno bharatarṣabha
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)