वन पर्व

अध्याय 165: पर्वत पर अर्जुन की प्रतीक्षा

इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः ॥

20 श्लोक · 165 में से 315

इस अध्याय में क्या होता है

पर्वत पर अर्जुन की प्रतीक्षा

पाण्डव उस महान पर्वत पर व्रत पालते हुए अर्जुन की प्रतीक्षा में आनन्द से रहते हैं। गन्धर्व और महर्षि उनसे मिलने आते हैं। वे मोरों और हंसों से गूँजते शिखर और स्वयं कुबेर के बनाए कमल सरोवर देखते हैं, और उस ऊँचाई से सूर्य का उदय और अस्त निहारते हैं। स्वाध्याय और सत्य में लगे वे प्रार्थना करते हैं कि अर्जुन अस्त्र पाकर शीघ्र आएँ। उन्हें एक एक रात दिन वर्ष के समान लगता है, क्योंकि जब से अर्जुन जटा धारण कर काम्यक वन से गए, तब से उनका हर्ष चला गया था। अन्तिम श्लोक बताते हैं कि इन्द्रलोक में पाँच वर्ष रहकर अर्जुन ने अग्नि, वरुण, विष्णु, इन्द्र, पशुपति, ब्रह्मा आदि के अस्त्र पाए और इन्द्र की आज्ञा से गन्धमादन की ओर चल पड़े।

वैशंपायन उवाच

165.1

तस्मिन्नगेन्द्रे वसतां तु तेषां
महात्मनां सद्व्रतमास्थितानाम् ।
रतिः प्रमोदश्च बभूव तेषा-
माकाङ्क्षतां दर्शनमर्जुनस्य

tasminnagendre vasatāṃ tu teṣāṃ
mahātmanāṃ sadvratamāsthitānām |
ratiḥ pramodaśca babhūva teṣā-
mākāṅkṣatāṃ darśanamarjunasya

165.2

तान्वीर्ययुक्तान्सुविशुद्धसत्वां-
स्तेजस्विनः सत्यधृतिप्रधानान् ।
संप्रीयमाणा बहवोऽबिजग्मु-
र्गन्धर्वसङ्घाश्च महर्षयश्च

tānvīryayuktānsuviśuddhasatvāṃ-
stejasvinaḥ satyadhṛtipradhānān |
saṃprīyamāṇā bahavo'bijagmu-
rgandharvasaṅghāśca maharṣayaśca

165.3

तं पादपैः पुष्पफलैरुपेतं
नगोत्तमं प्राप्य महारथानाम् ।
मनःप्रसादः परमो बभूव
यथा दिवं प्राप्य मरुद्गणानाम्

taṃ pādapaiḥ puṣpaphalairupetaṃ
nagottamaṃ prāpya mahārathānām |
manaḥprasādaḥ paramo babhūva
yathā divaṃ prāpya marudgaṇānām

165.4

मयूरहंसस्वननादितानि
पुष्पोपकीर्णानि महाचलस्य ।
शृङ्गाणि सानूनि च पश्यमाना
गिरेः परं हर्षमवाप्य तस्थुः

mayūrahaṃsasvananāditāni
puṣpopakīrṇāni mahācalasya |
śṛṅgāṇi sānūni ca paśyamānā
gireḥ paraṃ harṣamavāpya tasthuḥ

165.5

साक्षात्कुबेरेण कृताश्च तस्मि-
न्नगोत्तमे संवृतकूटगुल्माः ।
कादम्बकारण्डवहंसजुष्टाः
पद्माकुलाः पुष्करिणीरपश्यन्

sākṣātkubereṇa kṛtāśca tasmi-
nnagottame saṃvṛtakūṭagulmāḥ |
kādambakāraṇḍavahaṃsajuṣṭāḥ
padmākulāḥ puṣkariṇīrapaśyan

165.6

क्रीडाप्रदेशांस्च समृद्धरूपा-
न्सवेदिकांस्ते न्यवसन्सुवेशान् ।
मणिप्रकीर्णांश्च मनोरमांश्च
यथा भवेयुर्नदस्य राज्ञः

krīḍāpradeśāṃsca samṛddharūpā-
nsavedikāṃste nyavasansuveśān |
maṇiprakīrṇāṃśca manoramāṃśca
yathā bhaveyurnadasya rājñaḥ

165.7

अनेकवर्णैश् सुगन्धिभिश्च
महाद्रुमैः संततमभ्रजालैः ।
तपःप्रधानाः सततं चरन्तः
शृङ्गं गिरेश्चिन्तयितुं न शेकुः

anekavarṇaiś sugandhibhiśca
mahādrumaiḥ saṃtatamabhrajālaiḥ |
tapaḥpradhānāḥ satataṃ carantaḥ
śṛṅgaṃ gireścintayituṃ na śekuḥ

165.8

स्वतेजसा तस्य नगोत्तमस्य
महौषधीनां च तथा प्रभावात् ।
विभक्तरूपः सविता बभूव
निशामुखं प्राप्य नरर्षभाणाम्

svatejasā tasya nagottamasya
mahauṣadhīnāṃ ca tathā prabhāvāt |
vibhaktarūpaḥ savitā babhūva
niśāmukhaṃ prāpya nararṣabhāṇām

165.9

यमास्थितः स्थावरजङ्गमानां
विभावसुर्भाविता हरीशः ।
तस्योदयं चास्तमनं च वीर-
स्तत्रस्थितास्ते ददृशुर्नृसिंहाः

yamāsthitaḥ sthāvarajaṅgamānāṃ
vibhāvasurbhāvitā harīśaḥ |
tasyodayaṃ cāstamanaṃ ca vīra-
statrasthitāste dadṛśurnṛsiṃhāḥ

165.10

रवेस्तमिस्रागमनिर्गमांस्ते
तथोदयं चास्तमनं च वीराः ।
समावृताः प्रेक्ष्य तमोनुदस्य
गभस्तिजालैः प्रदिशो दिशश्च

ravestamisrāgamanirgamāṃste
tathodayaṃ cāstamanaṃ ca vīrāḥ |
samāvṛtāḥ prekṣya tamonudasya
gabhastijālaiḥ pradiśo diśaśca

165.11

स्वाध्यायवन्तः सततक्रियाश्च
धर्मप्रधानाश्च शुचिव्रताश्च ।
सत्ये स्थितास्तस्य महारथस्य
सत्यव्रतस्यागमनप्रतीक्षाः

svādhyāyavantaḥ satatakriyāśca
dharmapradhānāśca śucivratāśca |
satye sthitāstasya mahārathasya
satyavratasyāgamanapratīkṣāḥ

165.12

इहैव हर्षोऽस्तु समागतानां
क्षिप्रं कृतास्त्रेण धनंजयेन ।
इति ब्रुवन्तः परमाशिपस्ते
पार्थास्तपोयोगपरा बभूवुः

ihaiva harṣo'stu samāgatānāṃ
kṣipraṃ kṛtāstreṇa dhanaṃjayena |
iti bruvantaḥ paramāśipaste
pārthāstapoyogaparā babhūvuḥ

165.13

दृष्ट्वा विचित्राणि गिरौ वनानि
किरीटिनं चिन्तयतामभीक्ष्णम् ।
बभूव राविर्दिवसश्च तेषां
संवत्सरेणैव समानरूपः

dṛṣṭvā vicitrāṇi girau vanāni
kirīṭinaṃ cintayatāmabhīkṣṇam |
babhūva rāvirdivasaśca teṣāṃ
saṃvatsareṇaiva samānarūpaḥ

165.14

यदैव धौम्यानुमते महात्मा
कृत्वा जटां प्रव्रजितः स जिष्णुः ।
तदैव तेषां नबभूव हर्षः
कुतो रतिस्तद्गतमानसानाम्

yadaiva dhaumyānumate mahātmā
kṛtvā jaṭāṃ pravrajitaḥ sa jiṣṇuḥ |
tadaiva teṣāṃ nababhūva harṣaḥ
kuto ratistadgatamānasānām

165.15

भ्रातुर्नियोगात्तु युधिष्ठिरस्य
वनादसौ वारणमत्तगामी ।
यत्काम्यकात्प्रव्रजितः स जिष्णु-
स्तदैव ते शोकहता बभूवुः

bhrāturniyogāttu yudhiṣṭhirasya
vanādasau vāraṇamattagāmī |
yatkāmyakātpravrajitaḥ sa jiṣṇu-
stadaiva te śokahatā babhūvuḥ

165.16

तथैव तं चिन्तयतां सिताश्व-
मस्त्रार्थिनं वासवमभ्युपेतम् ।
कालः स कृच्छ्रेण महानतीत-
स्तस्मिन्नगे भारत भारतानाम्

tathaiva taṃ cintayatāṃ sitāśva-
mastrārthinaṃ vāsavamabhyupetam |
kālaḥ sa kṛcchreṇa mahānatīta-
stasminnage bhārata bhāratānām

165.17

[उषित्वा पञ्चवर्षाणि सहस्राक्षनिवेशने ।
अवाप्य दिव्यान्यस्त्राणि सर्वाणि विबुधेश्वरात्

[uṣitvā pañcavarṣāṇi sahasrākṣaniveśane |
avāpya divyānyastrāṇi sarvāṇi vibudheśvarāt

165.18

आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् ।
ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः

āgneyaṃ vāruṇaṃ saumyaṃ vāyavyamatha vaiṣṇavam |
aindraṃ pāśupataṃ brāhmaṃ pārameṣṭhyaṃ prajāpateḥ

165.19

यमस्य धातुः सवितुस्त्वष्टुर्वैश्रवणस्य चं ।
तानि प्राप्य सहस्राक्षादभिवाद्य शतक्रतुम्

yamasya dhātuḥ savitustvaṣṭurvaiśravaṇasya caṃ |
tāni prāpya sahasrākṣādabhivādya śatakratum

165.20

अनुज्ञातस्तदा तेन कृत्वा चापि प्रदक्षिणम् ।
आगच्छदर्जुनः प्रीतः प्रहृष्टो गन्धपादनम्

anujñātastadā tena kṛtvā cāpi pradakṣiṇam |
āgacchadarjunaḥ prītaḥ prahṛṣṭo gandhapādanam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)