स गत्वानलिनीं रम्यां राक्षसैरभिरक्षिताम् ।
कैलासशिरे रम्ये ददर्श शुभकानने
sa gatvānalinīṃ ramyāṃ rākṣasairabhirakṣitām |
kailāsaśire ramye dadarśa śubhakānane
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्तयात्रापर्वणि चतुःपञ्चाशदधिकशततमोऽध्यायः ॥
16 श्लोक · 154 में से 315
भीम कैलास की ढलान पर कुबेर के भवन के पास झरनों से भरे कमल सरोवर तक पहुँचते हैं। वैदूर्य की नालों वाले स्वर्ण कमल उसका जल ढके हैं, हंस उनका पराग उड़ाते हैं, और उसका शीतल जल अमृत जैसा है; भीम जी भरकर पीते हैं। यह कुबेर का क्रीड़ा सरोवर है, जिसे गन्धर्व, अप्सराएँ, देवता और ऋषि पूजते हैं, और जिसकी रक्षा वैश्रवण की आज्ञा से चमकते शस्त्रों वाले लाखों क्रोधवश राक्षस करते हैं। मृगचर्म और स्वर्ण बाजूबन्द पहने, शस्त्र और खड्ग धारे भीम को आते देखकर वे आपस में कहते हैं कि इससे पूछो यह क्या चाहता है। वे उन्हें घेरकर पूछते हैं: तुम कौन हो? मुनि का वेश है और हाथ में शस्त्र, बताओ किस लिए आए हो।
वैशंपायन उवाच
स गत्वानलिनीं रम्यां राक्षसैरभिरक्षिताम् ।
कैलासशिरे रम्ये ददर्श शुभकानने
sa gatvānalinīṃ ramyāṃ rākṣasairabhirakṣitām |
kailāsaśire ramye dadarśa śubhakānane
कुबेरभुवनाभ्याशे जातां पर्वतनिर्झरैः ।
सुरम्यां विपुलच्छायां नानाद्रुमलताकुलाम्
kuberabhuvanābhyāśe jātāṃ parvatanirjharaiḥ |
suramyāṃ vipulacchāyāṃ nānādrumalatākulām
हरिताम्बुजसंछन्नां दिव्यां कनकपुष्कराम् ।
नानापक्षिजनाकीर्णां सूपतीर्थामकर्दमाम्
haritāmbujasaṃchannāṃ divyāṃ kanakapuṣkarām |
nānāpakṣijanākīrṇāṃ sūpatīrthāmakardamām
अतीव रम्यां सुजलां जातां पर्वतसानुषु ।
विचित्रभूतां लोकस्य शुभामद्भुतदर्शनाम्
atīva ramyāṃ sujalāṃ jātāṃ parvatasānuṣu |
vicitrabhūtāṃ lokasya śubhāmadbhutadarśanām
तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम् ।
ददर्शविमलं तोयं पिबंश्च बहु पाण्डवः
tatrāmṛtarasaṃ śītaṃ laghu kuntīsutaḥ śubham |
dadarśavimalaṃ toyaṃ pibaṃśca bahu pāṇḍavaḥ
तां तु कपुष्करिणीं रम्यां दिव्यसौगन्धिकावृताम् ।
जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः
tāṃ tu kapuṣkariṇīṃ ramyāṃ divyasaugandhikāvṛtām |
jātarūpamayaiḥ padmaiśchannāṃ paramagandhibhiḥ
वैडूर्यवरनालैश्च बहुचित्रैर्मनोरमैः ।
हंसकारण्डवोद्धूतैः सृजद्भिरमलं रजः
vaiḍūryavaranālaiśca bahucitrairmanoramaiḥ |
haṃsakāraṇḍavoddhūtaiḥ sṛjadbhiramalaṃ rajaḥ
आक्रीडं राजराजस् कुबेरस्य महात्मनः ।
गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम्
ākrīḍaṃ rājarājas kuberasya mahātmanaḥ |
gandharvairapsarobhiśca devaiśca paramārcitām
सेवितामृषिभिर्दिव्यैर्यक्षैः किंपुरुषैस्तथा ।
राक्षसैः किंनरैश्चापि गुप्तां वैश्रवणेन च
sevitāmṛṣibhirdivyairyakṣaiḥ kiṃpuruṣaistathā |
rākṣasaiḥ kiṃnaraiścāpi guptāṃ vaiśravaṇena ca
तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाहलः ।
बभूव परमप्रीतो दिव्यंप्रेक्ष्य सरो महत्
tāṃ ca dṛṣṭvaiva kaunteyo bhīmaseno mahāhalaḥ |
babhūva paramaprīto divyaṃprekṣya saro mahat
तच्च क्रोवशा नाम राक्षसा राजशासनात् ।
रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः
tacca krovaśā nāma rākṣasā rājaśāsanāt |
rakṣanti śatasāhasrāścitrāyudhaparicchadāḥ
ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम् ।
रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम्
te tu dṛṣṭvaiva kaunteyamajinaiḥ parivāritam |
rukmāṅgadadharaṃ vīraṃ bhīmaṃ bhīmaparākramam
सायुधं बद्धनिस्त्रिंशमशङ्कितमरिंदमम् ।
पुष्करप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः
sāyudhaṃ baddhanistriṃśamaśaṅkitamariṃdamam |
puṣkarapsumupāyāntamanyonyamabhicukruśuḥ
अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः ।
यच्चिकीर्षुरिह प्राप्तस्तत्संप्रष्टुमिहार्हथ
ayaṃ puruṣaśārdūlaḥ sāyudho'jinasaṃvṛtaḥ |
yaccikīrṣuriha prāptastatsaṃpraṣṭumihārhatha
ततः सर्वे महाबाहुं समासाद्यवृकोदरम् ।
तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि
tataḥ sarve mahābāhuṃ samāsādyavṛkodaram |
tejoyuktamapṛcchanta kastvamākhyātumarhasi
मुनिवेषधरश्चैव सायुधश्चैव लक्ष्यसे ।
यदर्थमाभिसंप्राप्तस्तदाचक्ष्यमहामते
muniveṣadharaścaiva sāyudhaścaiva lakṣyase |
yadarthamābhisaṃprāptastadācakṣyamahāmate
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)