ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु ।
पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत्
tataḥ prayātamātreṣu pāṇḍaveṣu mahātmasu |
padbhyāmanucitā gantuṃ draupadī samupāviśat
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि षट्चत्वारिंशदधिकशततमोऽध्यायः ॥
24 श्लोक · 146 में से 315
पैदल चलने की अभ्यस्त न होने से द्रौपदी आँधी के बाद थककर गिर पड़ती हैं और नकुल उन्हें सँभालते हैं। युधिष्ठिर उन्हें गोद में लेकर विलाप करते हैं: महलों और कोमल शय्या में पली यह कल्याणी मेरे द्यूत के कारण नंगी धरती पर पड़ी है, इसके कोमल चरण और कमल जैसा मुख मलिन हो गए हैं। द्रुपद ने कहा था कि पाण्डवों के साथ सुखी रहेगी, पर इसे सुख नहीं मिला। धौम्य और ब्राह्मण राक्षसनाशक मन्त्र जपते हैं। ठण्डी हवा और स्पर्श से वे होश में आती हैं, और नकुल सहदेव उनके चरण दबाते हैं। युधिष्ठिर पूछते हैं कि यह बर्फ़ीले पर्वत कैसे पार करेगी; भीम कहते हैं कि मैं सबको उठा लूँगा, या मेरा उड़ने वाला पुत्र घटोत्कच ले जाएगा।
वैशंपायन उवाच
ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु ।
पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत्
tataḥ prayātamātreṣu pāṇḍaveṣu mahātmasu |
padbhyāmanucitā gantuṃ draupadī samupāviśat
श्रान्ता दुःखपरीता च वातवर्षेण तेन च ।
सौकुमार्याच्च पाञ्चाली संमुमोह तपस्विनी
śrāntā duḥkhaparītā ca vātavarṣeṇa tena ca |
saukumāryācca pāñcālī saṃmumoha tapasvinī
सा कम्पमाना मोहेन बाहुभ्यामसितेक्षणा ।
रवृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत
sā kampamānā mohena bāhubhyāmasitekṣaṇā |
ravṛttābhyāmanurūpābhyāmūrū samavalambata
आलम्बमाना सहितावूरू गजकरोपमौ ।
रपपात सहसा भूमौ वेपन्ती कदली यथा
ālambamānā sahitāvūrū gajakaropamau |
rapapāta sahasā bhūmau vepantī kadalī yathā
तां पतन्तीं वरारोहां भज्यमानां लतामिव ।
नकुलः समभिद्रुत्य परिजग्राह वीर्यवान्
tāṃ patantīṃ varārohāṃ bhajyamānāṃ latāmiva |
nakulaḥ samabhidrutya parijagrāha vīryavān
नकुल उवाच
राजन्पाञ्चालराजस्य सुतेयमसितक्षणा ।
श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत
rājanpāñcālarājasya suteyamasitakṣaṇā |
śrāntā nipatitā bhūmau tāmavekṣasva bhārata
अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी ।
आश्वासय महाराज तामिमां श्रमकर्शिताम्
aduḥkhārhā paraṃ duḥkhaṃ prāpteyaṃ mṛdugāminī |
āśvāsaya mahārāja tāmimāṃ śramakarśitām
वैशंपायन उवाच
राजा तु वचनात्तस्य भृशं दुःखसमन्वितः ।
भीमश्च सहदेवश्च सहसा समुपाद्रवन्
rājā tu vacanāttasya bhṛśaṃ duḥkhasamanvitaḥ |
bhīmaśca sahadevaśca sahasā samupādravan
तामवेक्ष्यतु कौन्तेयो विवर्णवदनां कृशाम् ।
अङ्कमानीय धर्मात्मा पर्यदेवयदातुरः
tāmavekṣyatu kaunteyo vivarṇavadanāṃ kṛśām |
aṅkamānīya dharmātmā paryadevayadāturaḥ
युधिष्ठिर उवाच
कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता ।
भूमौ निषतिता शेते सुखार्हा वरवर्णिनी
kathaṃ veśmasu gupteṣu svāstīrṇaśayanocitā |
bhūmau niṣatitā śete sukhārhā varavarṇinī
सुकुमारौ कथं पादौ मुखं च कमलप्रभम् ।
मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम्
sukumārau kathaṃ pādau mukhaṃ ca kamalaprabham |
matkṛte'dya varārhāyāḥ śyāmatāṃ samupāgatam
किमिदं द्यूतकामेन मया कृतमबुद्धिना ।
आदाय कृष्णां चरता वने मृगगणाकुले
kimidaṃ dyūtakāmena mayā kṛtamabuddhinā |
ādāya kṛṣṇāṃ caratā vane mṛgagaṇākule
सुखं प्राप्स्यसि कल्याणि पाण्डवान्प्राप्य वै पतीन् ।
इतिद्रुवदराजेन पित्रा दत्ताऽयतेक्षणा
sukhaṃ prāpsyasi kalyāṇi pāṇḍavānprāpya vai patīn |
itidruvadarājena pitrā dattā'yatekṣaṇā
तत्सर्वमानवाप्येयं श्रमशोकाद्विकर्शिता ।
शेते निपतिता भूमौ पापस्य मम कर्मभिः
tatsarvamānavāpyeyaṃ śramaśokādvikarśitā |
śete nipatitā bhūmau pāpasya mama karmabhiḥ
वैशंपायन उवाच
तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे ।
धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः
tathā lālapyamāne tu dharmarāje yudhiṣṭhire |
dhaumyaprabhṛtayaḥ sarve tatrājagmurdvijottamāḥ
ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन् ।
राक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ते क्रियाः
te samāśvāsayāmāsurāśīrbhiścāpyapūjayan |
rākṣoghnāṃśca tathā mantrāñjepuścakruśca te kriyāḥ
पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः ।
स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः
paṭhyamāneṣu mantreṣu śāntyarthaṃ paramarṣibhiḥ |
spṛśyamānā karaiḥ śītaiḥ pāṇḍavaiśca muhurmuhuḥ
सेव्यमाना च शीतेन जलमिश्रेण वायुना ।
पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः
sevyamānā ca śītena jalamiśreṇa vāyunā |
pāñcālī sukhamāsādya lebhe cetaḥ śanaiḥ śanaiḥ
परिगृह्यच तां दीनां कृष्णामजिनसंस्तरे ।
पार्था विश्रामयामासुर्लब्धसंज्ञां तपस्विनम्
parigṛhyaca tāṃ dīnāṃ kṛṣṇāmajinasaṃstare |
pārthā viśrāmayāmāsurlabdhasaṃjñāṃ tapasvinam
तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ ।
कराभ्यां किणजाताभ्यां शनकैः संववाहतुः
tasyā yamau raktatalau pādau pūjitalakṣaṇau |
karābhyāṃ kiṇajātābhyāṃ śanakaiḥ saṃvavāhatuḥ
पर्याश्वासयदप्येनां धर्मराजो युधिष्ठिरः ।
उवाच च कुरुश्रेष्ठो भीमसेनमिदं वचः
paryāśvāsayadapyenāṃ dharmarājo yudhiṣṭhiraḥ |
uvāca ca kuruśreṣṭho bhīmasenamidaṃ vacaḥ
बहवः पर्वता मीम विषमा हिमदुर्गमाः ।
तेषु कृष्णा महाबाहो कथं नु विचरिष्यति
bahavaḥ parvatā mīma viṣamā himadurgamāḥ |
teṣu kṛṣṇā mahābāho kathaṃ nu vicariṣyati
भीमसेन उवाच
त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभ ।
स्वयं नेष्यामि राजेनद्र मा विषादे मनुः कृथाः
tvāṃ rājanrājaputrīṃ ca yamau ca puruṣarṣabha |
svayaṃ neṣyāmi rājenadra mā viṣāde manuḥ kṛthāḥ
अथवा यो मया जातो विहगो मद्बलोपमः ।
वहेदनघ सर्वान्नो वचनात्ते घटोत्कचः
athavā yo mayā jāto vihago madbalopamaḥ |
vahedanagha sarvānno vacanātte ghaṭotkacaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)