ते शूरा सज्जधन्वानस्तूणवन्तः समार्गणाः ।
बद्धगोधाङ्गुलित्राणाः खङ्गवन्तोऽमितौजसः
te śūrā sajjadhanvānastūṇavantaḥ samārgaṇāḥ |
baddhagodhāṅgulitrāṇāḥ khaṅgavanto'mitaujasaḥ
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥
23 श्लोक · 145 में से 315
शस्त्र लिए पाण्डव द्रौपदी और ब्राह्मणों के साथ कन्द मूल फल खाते हुए गन्धमादन पर चढ़ते हैं। प्रवेश करते ही प्रचण्ड आँधी उठती है। धूल और पत्ते धरती आकाश ढक लेते हैं; वे एक दूसरे को न देख पाते हैं, न सुन पाते हैं, और गिरते वृक्षों से लगता है कि पर्वत फट रहा है। भीम द्रौपदी के साथ एक वृक्ष की ओट लेते हैं, युधिष्ठिर और धौम्य वन में छिपते हैं, सहदेव अग्निहोत्र की अग्नियाँ सँभालते हैं, और नकुल, लोमश तथा ब्राह्मण वृक्षों से लिपट जाते हैं। फिर गर्जन, बिजली और ओलों के साथ मूसलाधार वर्षा होती है और झागदार धाराएँ वृक्ष बहा ले जाती हैं। धूप निकलने पर सब इकट्ठे होकर आगे बढ़ते हैं।
वैशंपायन उवाच
ते शूरा सज्जधन्वानस्तूणवन्तः समार्गणाः ।
बद्धगोधाङ्गुलित्राणाः खङ्गवन्तोऽमितौजसः
te śūrā sajjadhanvānastūṇavantaḥ samārgaṇāḥ |
baddhagodhāṅgulitrāṇāḥ khaṅgavanto'mitaujasaḥ
परिगृह्य द्विजश्रेष्ठाञ्ज्येष्ठाः सर्वधनुष्मताम् ।
पञ्चालीसहिता राजन्प्रययुर्गन्धमादनम्
parigṛhya dvijaśreṣṭhāñjyeṣṭhāḥ sarvadhanuṣmatām |
pañcālīsahitā rājanprayayurgandhamādanam
सरांसि सरितश्चैव पर्वतांश्च वनानि च ।
वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि
sarāṃsi saritaścaiva parvatāṃśca vanāni ca |
vṛkṣāṃśca bahulacchāyāndadṛśurgirimūrdhani
नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान् ।
आत्मन्यात्मानमाधाय वीरा मूलफलाशिनः
nityapuṣpaphalāndeśāndevarṣigaṇasevitān |
ātmanyātmānamādhāya vīrā mūlaphalāśinaḥ
चेरुरुच्चावचाकारान्देशान्विषमसंकटान् ।
पश्यन्तो मृगजातानि बहूनि विविधानि च
ceruruccāvacākārāndeśānviṣamasaṃkaṭān |
paśyanto mṛgajātāni bahūni vividhāni ca
ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम् ।
विविशुस्ते महात्मानः किन्नराचरितं गिरिम्
ṛṣisiddhāmarayutaṃ gandharvāpsarasāṃ priyam |
viviśuste mahātmānaḥ kinnarācaritaṃ girim
प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम् ।
चणअडवातं महद्वर्षं प्रादुरासीद्विशांपते
praviśatsvatha vīreṣu parvataṃ gandhamādanam |
caṇaaḍavātaṃ mahadvarṣaṃ prādurāsīdviśāṃpate
ततो रेणुः समुद्भूतः सपत्रबहुलो महान् ।
पृथिवीं चान्तरिक्षं च द्यां चैव सहसाऽवृणोत्
tato reṇuḥ samudbhūtaḥ sapatrabahulo mahān |
pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva sahasā'vṛṇot
न स्म प्रज्ञायते किंचिदावृते व्योम्नि रेणुना ।
न चापि शेकुस्तत्कर्तुमन्योन्यस्याभिभाषणम्
na sma prajñāyate kiṃcidāvṛte vyomni reṇunā |
na cāpi śekustatkartumanyonyasyābhibhāṣaṇam
न चापश्यंस्ततोऽन्योन्यं तमसाऽऽवृतचक्षुषः ।
आकृष्यमाणा वातेन साश्मचूर्णेन भारत
na cāpaśyaṃstato'nyonyaṃ tamasā''vṛtacakṣuṣaḥ |
ākṛṣyamāṇā vātena sāśmacūrṇena bhārata
द्रुमाणां वातरुग्णआनां पततां भूतलेऽनिशम् ।
अन्येषां च महीजानां शब्दः समभवन्महान्
drumāṇāṃ vātarugṇaānāṃ patatāṃ bhūtale'niśam |
anyeṣāṃ ca mahījānāṃ śabdaḥ samabhavanmahān
द्यौः स्वित्पतति किं भूमिर्दीर्यते पर्वतोनु किम् ।
इति ते मेनिरे सर्वेपवनेन विमोहिताः
dyauḥ svitpatati kiṃ bhūmirdīryate parvatonu kim |
iti te menire sarvepavanena vimohitāḥ
ते पथाऽनन्तरांन्वृक्षान्वल्मीकान्विषमाणि च ।
पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे
te pathā'nantarāṃnvṛkṣānvalmīkānviṣamāṇi ca |
pāṇibhiḥ parimārganto bhītā vāyornililyire
ततः कार्मुकमादाय भीमसेनो महाबलः ।
कृष्णामादाय संगम्य तस्थावाश्रित्य पादपम्
tataḥ kārmukamādāya bhīmaseno mahābalaḥ |
kṛṣṇāmādāya saṃgamya tasthāvāśritya pādapam
धर्मराजश्च धौम्यश् निलिल्याते महावने ।
अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते
dharmarājaśca dhaumyaś nililyāte mahāvane |
agnihotrāṇyupādāya sahadevastu parvate
नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः ।
वृक्षानासाद्य संत्रस्तास्तत्रतत्र निलिल्यिरे
nakulo brāhmaṇāścānye lomaśaśca mahātapāḥ |
vṛkṣānāsādya saṃtrastāstatratatra nililyire
मन्दीभूते तु पवने तस्मिन्रजसि शाम्यति ।
महद्भिर्जलधारौर्घर्वर्षमभ्याजगाम ह
mandībhūte tu pavane tasminrajasi śāmyati |
mahadbhirjaladhāraurgharvarṣamabhyājagāma ha
भृशं चटचटाशब्दो वज्राणां क्षिप्यतामिव ।
ततस्ताश्चञ्चलाभासश्चेरुरभ्रेषु विद्युतः
bhṛśaṃ caṭacaṭāśabdo vajrāṇāṃ kṣipyatāmiva |
tatastāścañcalābhāsaścerurabhreṣu vidyutaḥ
ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः ।
प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः
tato'śmasahitā dhārāḥ saṃvṛṇvantyaḥ samantataḥ |
prapeturaniśaṃ tatra śīghravātasamīritāḥ
तत्र सागरगा ह्यापः कीर्यमाणाः समन्ततः ।
प्रादुरासन्सकलुषाः फेनवत्यो विशांपते
tatra sāgaragā hyāpaḥ kīryamāṇāḥ samantataḥ |
prādurāsansakaluṣāḥ phenavatyo viśāṃpate
वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम् ।
परिसमस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान्
vahantyo vāri bahulaṃ phenoḍupapariplutam |
parisamasrurmahāśabdāḥ prakarṣantyo mahīruhān
तस्मिन्नुपरते शब्देबाते च समतां गते ।
गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे
tasminnuparate śabdebāte ca samatāṃ gate |
gate hyambhasi nimnāni prādurbhūte divākare
निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत ।
प्रतस्थिरे पुनर्वीराः पर्वतं गन्धमादनम्
nirjagmuste śanaiḥ sarve samājagmuśca bhārata |
pratasthire punarvīrāḥ parvataṃ gandhamādanam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)