अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च ।
अग्निना तपसा चैव शक्यं गन्तुं वृकोदर
antarhitāni bhūtāni rakṣāṃsi balavanti ca |
agninā tapasā caiva śakyaṃ gantuṃ vṛkodara
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्विचत्वारिंशदधिकशततमोऽध्यायः ॥
29 श्लोक · 142 में से 315
युधिष्ठिर भीम से कहते हैं कि अदृश्य प्राणियों और बलवान राक्षसों का यह प्रदेश केवल तप से पार होगा, और सोचते हैं कि द्रौपदी कैसे चलेंगी। वे प्रस्ताव रखते हैं कि भीम सहदेव, धौम्य, सेवकों और कष्ट न सह सकने वाले ब्राह्मणों के साथ गङ्गाद्वार लौट जाएँ, और वे स्वयं नकुल और लोमश के साथ आगे जाएँ। भीम नहीं मानते। द्रौपदी अर्जुन को देखने को आतुर हैं, और राक्षसों के बीच कोई राजा को अकेला नहीं छोड़ेगा; जहाँ द्रौपदी न चल सकें, वहाँ मैं उन्हें और नकुल सहदेव को उठा लूँगा। युधिष्ठिर उनके बल को आशीर्वाद देते हैं, और द्रौपदी हँसकर कहती हैं कि मैं चलूँगी। वे कुलिन्दराज सुबाहु के देश पहुँचते हैं, सेवक और रथ वहीं छोड़कर पैदल आगे बढ़ते हैं।
युधिष्ठिर उवाच
अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च ।
अग्निना तपसा चैव शक्यं गन्तुं वृकोदर
antarhitāni bhūtāni rakṣāṃsi balavanti ca |
agninā tapasā caiva śakyaṃ gantuṃ vṛkodara
सन्निवर्तय कौन्तेय क्षुत्पिपासे बलाश्रयात् ।
ततो बलं च दाक्ष्यं च संश्रयस्व वृकोदर
sannivartaya kaunteya kṣutpipāse balāśrayāt |
tato balaṃ ca dākṣyaṃ ca saṃśrayasva vṛkodara
ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति ।
बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति
ṛṣestvayā śrutaṃ vākyaṃ kailāsaṃ parvataṃ prati |
buddhyā prapaśya kaunteya kathaṃ kṛṣṇā gamiṣyati
अथवा सहदेवेन धौम्येन च समं विभो ।
सूतैः पौरोगवैश्चैव सर्वैश्च परिचारकैः
athavā sahadevena dhaumyena ca samaṃ vibho |
sūtaiḥ paurogavaiścaiva sarvaiśca paricārakaiḥ
रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि ।
सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण
rathairaśvaiśca ye cānye viprāḥ kleśāsahāḥ pathi |
sarvaistvaṃ sahito bhīma nivartasvāyatekṣaṇa
त्रयो वयं गमिष्यामो लध्वाहारा यतव्रताः ।
अहं च नकुलश्चैव लोमशश्च महातपाः
trayo vayaṃ gamiṣyāmo ladhvāhārā yatavratāḥ |
ahaṃ ca nakulaścaiva lomaśaśca mahātapāḥ
ममागमनमाकाङ्क्षन्ग्गाद्वारे समाहितः ।
वसेह द्रौपदीं रक्षन्यावदागमनं मम
mamāgamanamākāṅkṣanggādvāre samāhitaḥ |
vaseha draupadīṃ rakṣanyāvadāgamanaṃ mama
भीम उवाच
राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत ।
व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया
rājaputrī śrameṇārtā duḥkhārtā caiva bhārata |
vrajatyeva hi kalyāṇī śvetavāhadidṛkṣayā
तवचाप्यरतिस्तीव्रा वर्तते तमपश्यतः ।
गुडाकेशं महात्मानं संग्रामेष्वपलायिनम् ।
किं पुनः सहदेवं च मां च कृष्णां च भारत
tavacāpyaratistīvrā vartate tamapaśyataḥ |
guḍākeśaṃ mahātmānaṃ saṃgrāmeṣvapalāyinam |
kiṃ punaḥ sahadevaṃ ca māṃ ca kṛṣṇāṃ ca bhārata
द्विजाः कामं निवर्तन्तां सर्वे च परिचारकाः ।
सूताः पौरोगवाश्चैव यं च मन्येत नो भवान्
dvijāḥ kāmaṃ nivartantāṃ sarve ca paricārakāḥ |
sūtāḥ paurogavāścaiva yaṃ ca manyeta no bhavān
न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित् ।
शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विपमेषु च
na hyahaṃ hātumicchāmi bhavantamiha karhicit |
śaile'sminrākṣasākīrṇe durgeṣu vipameṣu ca
इयं चापि महाभागा राजपुत्री पतिव्रता ।
त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम्
iyaṃ cāpi mahābhāgā rājaputrī pativratā |
tvāmṛte puruṣavyāghra notsahedvinivartitum
तथैवसहदेवोऽयं सततं त्वामनुव्रतः ।
न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै
tathaivasahadevo'yaṃ satataṃ tvāmanuvrataḥ |
na jātu vinivarteta matajño hyahamasya vai
अपिचात्र महाराज सव्यसाचिदिदृक्षया ।
सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह
apicātra mahārāja savyasācididṛkṣayā |
sarve lālasabhūtāḥ sma tasmādyāsyāmahe saha
यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः ।
पद्भिरेव गमिष्यामो मा राजन्विमना भव
yadyaśakyo rathairgantuṃ śailo'yaṃ bahukandaraḥ |
padbhireva gamiṣyāmo mā rājanvimanā bhava
अहं वहिष्ये पाञ्चालीं यत्रयत्र न शक्ष्यति ।
इति मे वर्तते बुद्धिर्मा राजन्विमना भव
ahaṃ vahiṣye pāñcālīṃ yatrayatra na śakṣyati |
iti me vartate buddhirmā rājanvimanā bhava
सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ ।
दुर्गे संतारयिष्यामि यत्राशक्तौ भविष्यतः
sukumārau tathā vīrau mādrīnandikarāvubhau |
durge saṃtārayiṣyāmi yatrāśaktau bhaviṣyataḥ
युधिष्ठिर उवाच
एवं ते भाषमाणस्य बलं भीमाभिवर्धताम् ।
यत्त्वमुत्सहसे वोढुं पाञ्चालीं विपुलेऽध्वनि
evaṃ te bhāṣamāṇasya balaṃ bhīmābhivardhatām |
yattvamutsahase voḍhuṃ pāñcālīṃ vipule'dhvani
यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते ।
बलं तव यशश्चैवधर्मः कीर्तिश्च वर्धताम्
yamajau cāpi bhadraṃ te naitadanyatra vidyate |
balaṃ tava yaśaścaivadharmaḥ kīrtiśca vardhatām
यत्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया ।
मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः
yattvamutsahase netuṃ bhrātarau saha kṛṣṇayā |
mā te glānirmahābāho mā ca te'stu parābhavaḥ
वैशंपायन उवाच
ततः कृष्णाऽब्रवीद्वाक्यं प्रहसन्ती मनोरमा ।
गमिष्यामि न संताप कार्यो मां प्रति भारत
tataḥ kṛṣṇā'bravīdvākyaṃ prahasantī manoramā |
gamiṣyāmi na saṃtāpa kāryo māṃ prati bhārata
लोमश उवाच
तपसा शक्यते गन्तुं पर्वतो गन्धमादनः ।
तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम्
tapasā śakyate gantuṃ parvato gandhamādanaḥ |
tapasā caiva kaunteya sarve yokṣyāmahe vayam
नकुलः सहदेवश्च भीमसेनश् पार्थिव ।
अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम्
nakulaḥ sahadevaśca bhīmasenaś pārthiva |
ahaṃ ca tvaṃ ca kaunteya drakṣyāmaḥ śvetavāhanam
वैशंपायन उवाच
एवं संभाषमाणास्ते सुबाहुविषयं महत् ।
ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत्
evaṃ saṃbhāṣamāṇāste subāhuviṣayaṃ mahat |
dadṛśurmuditā rājanprabhūtagajavājimat
किराततङ्गणाकीर्णं पुलिन्दशतसंकुलम् ।
हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम् ।
सुबाहुश्चापि तान्दृष्ट्वा पूजयाप्रत्यगृह्णत
kirātataṅgaṇākīrṇaṃ pulindaśatasaṃkulam |
himavatyamarairjuṣṭaṃ bahvāścaryasamākulam |
subāhuścāpi tāndṛṣṭvā pūjayāpratyagṛhṇata
विषयान्ते कुलिन्दानामीश्वरः प्रीतिपूर्वकम् ।
तत्र ते पूजितास्तेन सर्व एव सुखोपिताः
viṣayānte kulindānāmīśvaraḥ prītipūrvakam |
tatra te pūjitāstena sarva eva sukhopitāḥ
प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति ।
इन्द्रसेनमुखांश्चापि भृत्यान्पौरोगवांस्तथा
pratasthurvimale sūrye himavantaṃ giriṃ prati |
indrasenamukhāṃścāpi bhṛtyānpaurogavāṃstathā
सूदांश्च पारिबर्हांश्च द्रौपद्याः सर्वशो नृप ।
राज्ञः कुलिन्दाधिपतेः परिदाय महारथाः
sūdāṃśca pāribarhāṃśca draupadyāḥ sarvaśo nṛpa |
rājñaḥ kulindādhipateḥ paridāya mahārathāḥ
पद्भिरेव महावीर्या ययुः कौरवनन्दनाः ।
ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः ।
तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनंजयम्
padbhireva mahāvīryā yayuḥ kauravanandanāḥ |
te śanaiḥ prādravansarve kṛṣṇayā saha pāṇḍavāḥ |
tasmāddeśātsusaṃhṛṣṭā draṣṭukāmā dhanaṃjayam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)