उशीरबीजं मैनाकं गिरिं श्वेतं च भारत ।
समतीतोऽसि कौन्तेय कालशैलं च पार्थिव
uśīrabījaṃ mainākaṃ giriṃ śvetaṃ ca bhārata |
samatīto'si kaunteya kālaśailaṃ ca pārthiva
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकचत्वारिंशदधिकशततमोऽध्यायः ॥
20 श्लोक · 141 में से 315
लोमश बताते हैं कि पाण्डव उशीरबीज, मैनाक, श्वेत पर्वत और कालशैल पार कर चुके हैं। यहाँ गङ्गा सात धाराओं में बहती है और एक स्थान पर सदा अग्नि जलती है जिसे साधारण आँख नहीं देख सकती, इसलिए सबको एकाग्र रहना है। आगे मन्दर और कुबेर तथा यक्ष माणिभद्र का लोक है, जहाँ अठासी हज़ार गन्धर्व और अनगिनत यक्ष, किम्पुरुष सेवा करते हैं, और छह सौ योजन ऊँचा कैलास है। मार्ग राक्षसों से रक्षित है, अतः तप और संयम से चलना होगा। लोमश वरुण, यम, नदियों और गङ्गा से युधिष्ठिर की रक्षा की प्रार्थना करते हैं। ऋषि को इतना चिन्तित देखकर युधिष्ठिर भीम से द्रौपदी की रक्षा करने को कहते हैं और आँसू भरी आँखों से नकुल सहदेव को गले लगाते हैं।
लोमश उवाच
उशीरबीजं मैनाकं गिरिं श्वेतं च भारत ।
समतीतोऽसि कौन्तेय कालशैलं च पार्थिव
uśīrabījaṃ mainākaṃ giriṃ śvetaṃ ca bhārata |
samatīto'si kaunteya kālaśailaṃ ca pārthiva
एषा गङ्गा सप्तविधा राजते भरतर्षभ ।
स्थानं विरजसं पुण्यं यत्राग्निर्नित्यमिध्यते
eṣā gaṅgā saptavidhā rājate bharatarṣabha |
sthānaṃ virajasaṃ puṇyaṃ yatrāgnirnityamidhyate
एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमद्भुतम् ।
समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ
etadvai mānuṣeṇādya na śakyaṃ draṣṭumadbhutam |
samādhiṃ kurutāvyagrāstīrthānyetāni drakṣyatha
एतद्द्रक्ष्यसि देवानामाक्रीडं च रणाङ्कितम् ।
अतिक्रान्तोसि कौन्तेय कालशैलं च पर्वतम्
etaddrakṣyasi devānāmākrīḍaṃ ca raṇāṅkitam |
atikrāntosi kaunteya kālaśailaṃ ca parvatam
श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम् ।
यत्र माणिवरो यक्षः कुबेरश्चैव यक्षराट्
śvetaṃ giriṃ pravekṣyāmo mandaraṃ caiva parvatam |
yatra māṇivaro yakṣaḥ kuberaścaiva yakṣarāṭ
अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रगामिनः ।
तथा किंपुरुषा राजन्यक्षाश्चैव चतुर्गुणाः
aṣṭāśītisahasrāṇi gandharvāḥ śīghragāminaḥ |
tathā kiṃpuruṣā rājanyakṣāścaiva caturguṇāḥ
अनेकरूपसंस्थाना नानाप्रहरणाश्च ते ।
यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते
anekarūpasaṃsthānā nānāpraharaṇāśca te |
yakṣendraṃ manujaśreṣṭha māṇibhadramupāsate
तेषामृद्धिरतीवात्र गतौ वायुसमाश्च ते ।
यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते
teṣāmṛddhiratīvātra gatau vāyusamāśca te |
yakṣendraṃ manujaśreṣṭha māṇibhadramupāsate
तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः ।
दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु
taistāta balibhirguptā yātudhānaiśca rakṣitāḥ |
durgamāḥ parvatāḥ pārtha samādhiṃ paramaṃ kuru
कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः ।
तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव
kuberasacivāścānye raudrā maitrāśca rākṣasāḥ |
taiḥ sameṣyāma kaunteya yatto vikramaṇe bhava
कैलासः पर्वतो राजन्पड्योजनशतोच्छ्रितः ।
यत्रदेवाः समायान्ति विशाला यत्र भारत
kailāsaḥ parvato rājanpaḍyojanaśatocchritaḥ |
yatradevāḥ samāyānti viśālā yatra bhārata
असङ्ख्येयास्तु कौन्तेय यक्षराक्षसकिन्नराः ।
नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति
asaṅkhyeyāstu kaunteya yakṣarākṣasakinnarāḥ |
nāgāḥ suparṇā gandharvāḥ kuberasadanaṃ prati
तान्विगाहस्व पार्थाद्य तपसा च दमेन च ।
रक्ष्यमाणो मया राजन्भीमसेनबलेन च
tānvigāhasva pārthādya tapasā ca damena ca |
rakṣyamāṇo mayā rājanbhīmasenabalena ca
स्वस्ति ते वरुणो राजा यमश्च समितिंजयः ।
गङ्गा च यमुना चैव पर्वताश्च दिशन्तु ते
svasti te varuṇo rājā yamaśca samitiṃjayaḥ |
gaṅgā ca yamunā caiva parvatāśca diśantu te
मरुतश्च सहाश्विभ्यां सरितश्च सरांसि च ।
स्वस्ति देवासुरेभ्यश्च वसुभ्यश् महाद्युते
marutaśca sahāśvibhyāṃ saritaśca sarāṃsi ca |
svasti devāsurebhyaśca vasubhyaś mahādyute
इन्द्रस्य जाम्बूनदपर्वताद्वै
शृणोमि घोषं तव देवि गङ्गे ।
गोपाययेमं सुभगे गिरिभ्यः
सर्वाजमीढापचितं नरेन्द्रम्
indrasya jāmbūnadaparvatādvai
śṛṇomi ghoṣaṃ tava devi gaṅge |
gopāyayemaṃ subhage giribhyaḥ
sarvājamīḍhāpacitaṃ narendram
ददस्व शर्म प्रविविक्षतोऽस्य
शैलानिमाञ्छैलसुते नृपस्य ।
शिवप्रदा सर्वसरित्प्रधाने
स भ्रातृकस्येह युधिष्ठिरस्य ।
dadasva śarma pravivikṣato'sya
śailānimāñchailasute nṛpasya |
śivapradā sarvasaritpradhāne
sa bhrātṛkasyeha yudhiṣṭhirasya |
युधिष्ठिर उवाच
अपूर्वोऽयं संभ्रमो लोमशस्य
कृष्णां च सर्वे रक्षत मा प्रमादः ।
देशो ह्ययं दुर्गतमो मतोऽस्य
तस्मात्परं शौचमिहाचरध्वम्
apūrvo'yaṃ saṃbhramo lomaśasya
kṛṣṇāṃ ca sarve rakṣata mā pramādaḥ |
deśo hyayaṃ durgatamo mato'sya
tasmātparaṃ śaucamihācaradhvam
वैशंपायन उवाच
ततोऽब्रवीद्भीममुदारवीर्यं
कृष्णां यत्तः पालय भीमसेन ।
शून्येऽर्जुनेऽसन्निहिते च तात
त्वामेव कृष्णा भजते भयेषु
tato'bravīdbhīmamudāravīryaṃ
kṛṣṇāṃ yattaḥ pālaya bhīmasena |
śūnye'rjune'sannihite ca tāta
tvāmeva kṛṣṇā bhajate bhayeṣu
ततो महात्मां स यमौ समेत्य
मूर्धन्युपाघ्राय विमृज्यगात्रे ।
उवाच तौ बाष्पकलं स राजा
मा बैष्टमागच्छतमप्रमत्तौ
tato mahātmāṃ sa yamau sametya
mūrdhanyupāghrāya vimṛjyagātre |
uvāca tau bāṣpakalaṃ sa rājā
mā baiṣṭamāgacchatamapramattau
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)