नैतत्कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप ।
यद्यहं द्वारकायां स्यां राजन्सन्निहितः पुरा
naitatkṛcchramanuprāpto bhavānsyādvasudhādhipa |
yadyahaṃ dvārakāyāṃ syāṃ rājansannihitaḥ purā
इति श्रीमन्महाभारते अरण्यपर्वणइ अर्जुनाभिगमनपर्वणि त्रयोदशोऽध्यायः ॥
17 श्लोक · 13 में से 315
श्रीकृष्ण युधिष्ठिर से कहते हैं कि यदि वे द्वारका में होते तो यह विपत्ति न आती। वे बिना बुलाए द्यूत में आते, भीष्म, द्रोण, कृप और बाह्लीक को बुलाकर धृतराष्ट्र को इसके दोष दिखाते और याद दिलाते कि नल ने द्यूत से ही राज्य खोया था। स्त्री, द्यूत, मृगया और मद्य, ये चार कामजनित व्यसन मनुष्य को लक्ष्मी से गिराते हैं, और द्यूत सबसे बुरा है: एक दिन में धन नष्ट, विपत्ति निश्चित, वाणी कठोर। धृतराष्ट्र न मानते तो वे बल से उन्हें रोकते और चाटुकार सभासदों को मार डालते। पर वे आनर्त देश से बाहर थे, लौटकर सात्यकि से समाचार सुना और तुरन्त यहाँ दौड़े आए।
वासदेव उवाच
नैतत्कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप ।
यद्यहं द्वारकायां स्यां राजन्सन्निहितः पुरा
naitatkṛcchramanuprāpto bhavānsyādvasudhādhipa |
yadyahaṃ dvārakāyāṃ syāṃ rājansannihitaḥ purā
आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः ।
आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च ।
वारयेयमहं द्यूतं बहून्दोपान्प्रदर्शयन्
āgaccheyamahaṃ dyūtamanāhūto'pi kauravaiḥ |
āmbikeyena durdharṣa rājñā duryodhanena ca |
vārayeyamahaṃ dyūtaṃ bahūndopānpradarśayan
भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च ।
वैचित्रवीर्यं राजानमलं द्यूतेन कौरव
bhīṣmadroṇau samānāyya kṛpaṃ bāhlīkameva ca |
vaicitravīryaṃ rājānamalaṃ dyūtena kaurava
पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो ।
तत्राचक्षमहं दोषान्यैर्भवान्व्यतिरोपितः
putrāṇāṃ tava rājendra tvannimittamiti prabho |
tatrācakṣamahaṃ doṣānyairbhavānvyatiropitaḥ
वीरसेनसुतो यैस्तु राज्यात्प्रभ्रंशितः पुरा ।
अतर्कितविनाशश्च देवनेन विशांपते
vīrasenasuto yaistu rājyātprabhraṃśitaḥ purā |
atarkitavināśaśca devanena viśāṃpate
सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम्
sātatyaṃ ca prasaṅgasya varṇayeyaṃ yathātatham
स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम् ।
दुःखं चतुष्टय प्रोक्तं यैर्नरो भ्रश्यते श्रियः
striyo'kṣā mṛgayā pānametatkāmasamutthitam |
duḥkhaṃ catuṣṭaya proktaṃ yairnaro bhraśyate śriyaḥ
तत्रसर्वत्रवक्तव्यं मन्यन्ते शास्त्रकोविदाः ।
विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः
tatrasarvatravaktavyaṃ manyante śāstrakovidāḥ |
viśeṣataśca vaktavyaṃ dyūte paśyanti tadvidaḥ
एकाहाद्द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च ।
अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम्
ekāhāddravyanāśo'tra dhruvaṃ vyasanameva ca |
abhuktanāśaścārthānāṃ vākpāruṣyaṃ ca kevalam
एतच्चान्यच्च कौरव्य प्रसङ्गिकटुकोदयम् ।
द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम्
etaccānyacca kauravya prasaṅgikaṭukodayam |
dyūte brūyāṃ mahābāho samāsādyāmbikāsutam
एवमुक्तो यदि मया गृह्णीयाद्वचनं मम ।
अनामयं स्याद्धर्मश्च कुरूणां कुरुवर्दन
evamukto yadi mayā gṛhṇīyādvacanaṃ mama |
anāmayaṃ syāddharmaśca kurūṇāṃ kuruvardana
न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः ।
पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम्
na cetsa mama rājendra gṛhṇīyānmadhuraṃ vacaḥ |
pathyaṃ ca bharataśreṣṭha nigṛhṇīyāṃ balena tam
अथैनमविनीतेन सुहृदो नाम दुर्हृदः ।
सभासदोऽनुवर्तेरंस्तांश्च इन्यां दुरोदरान्
athainamavinītena suhṛdo nāma durhṛdaḥ |
sabhāsado'nuvarteraṃstāṃśca inyāṃ durodarān
असान्निध्यं तु कौरव्य ममानर्तेष्वभूत्तदा ।
येनेदं व्यसनं प्राज्ञा भवन्तो द्यूतकारितम्
asānnidhyaṃ tu kauravya mamānarteṣvabhūttadā |
yenedaṃ vyasanaṃ prājñā bhavanto dyūtakāritam
सोहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन ।
अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम्
sohametya kuruśreṣṭha dvārakāṃ pāṇḍunandana |
aśrauṣaṃ tvāṃ vyasaninaṃ yuyudhānādyathātatham
श्रुत्वैव चाहं राजेन्द्र परमोद्विग्रमानसः ।
तूर्णमभ्यागतोस्मित्वां द्रष्टुकामो विशंपते
śrutvaiva cāhaṃ rājendra paramodvigramānasaḥ |
tūrṇamabhyāgatosmitvāṃ draṣṭukāmo viśaṃpate
अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ ।
सोऽहं त्वां व्यसने मग्नं पश्यामि सह सोदरैः
aho kṛcchramanuprāptāḥ sarve sma bharatarṣabha |
so'haṃ tvāṃ vyasane magnaṃ paśyāmi saha sodaraiḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)