भगीरथवचः शुत्वा प्रियार्य च द्विचौकसाम् ।
एवमस्त्विति राजानं भगवान्प्रत्यभापत
bhagīrathavacaḥ śutvā priyārya ca dvicaukasām |
evamastviti rājānaṃ bhagavānpratyabhāpata
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि नवाधिकशततमोऽध्यायः --- F.N. गगनाच्युतं यथा भवति तथा पतन्त्याः । गगनाद्भुवमिति । झ्.पाठः ॥२२ ॥ अष्टाधिकशततमोऽध्यायः ॥
22 श्लोक · 109 में से 315
भगवान शिव भगीरथ के लिए पवित्र नदी को धारण करना स्वीकार करते हैं। उग्र पार्षदों के साथ वे हिमालय जाकर राजा से कहते हैं कि गिरिराज की पुत्री का आवाहन करो। भगीरथ प्रणाम करके गंगा का ध्यान करते हैं और वह मछलियों और भँवरों से भरी आकाश से गिरती हैं। शिव उन्हें मोतियों की माला के समान ललाट पर धारण करते हैं। गंगा तीन धाराओं में हंसों की पंक्ति जैसा फेन लिए कहीं मुड़ती, कहीं गरजती बहती हैं। धरती पर आकर वे भगीरथ से मार्ग पूछती हैं। राजा उन्हें सगरपुत्रों की देहों तक और फिर समुद्र तक ले जाते हैं, जिसे वे भर देती हैं। भगीरथ गंगा को पुत्री मानकर पितरों को जल देते हैं।
लोमश उवाच
भगीरथवचः शुत्वा प्रियार्य च द्विचौकसाम् ।
एवमस्त्विति राजानं भगवान्प्रत्यभापत
bhagīrathavacaḥ śutvā priyārya ca dvicaukasām |
evamastviti rājānaṃ bhagavānpratyabhāpata
धारयिष्ये महाभाग गगनात्मच्युतां शिवाम्
दिव्यां देवनदीं पुण्यां त्वत्कृते नृपसत्तम् ।
dhārayiṣye mahābhāga gaganātmacyutāṃ śivām
divyāṃ devanadīṃ puṇyāṃ tvatkṛte nṛpasattam |
एवमुक्त्वा महाबाहो हिमवन्तुमुपागमत् ।
संवृतः पार्षदैर्घोरैर्नानाप्रहरणोधतैः ।
evamuktvā mahābāho himavantumupāgamat |
saṃvṛtaḥ pārṣadairghorairnānāpraharaṇodhataiḥ |
तत्र स्थित्वा नरश्रेष्ठं भगीरथमुवाच ह ।
प्रयाचस्व महाबाहो शैलराजसुतां नदीम्
tatra sthitvā naraśreṣṭhaṃ bhagīrathamuvāca ha |
prayācasva mahābāho śailarājasutāṃ nadīm
पितृणां पावनार्थ ते तामहं मनुजाधिप ।
पतमानां सरिच्छ्रेष्ठां धारयिष्ये त्रिविष्टपात्
pitṛṇāṃ pāvanārtha te tāmahaṃ manujādhipa |
patamānāṃ saricchreṣṭhāṃ dhārayiṣye triviṣṭapāt
एतच्छ्रुत्वा बचो राजा शर्वेण समुदाहृतम् ।
प्रयतः प्रणतो भूत्वा गङ्गं हि समचिन्तयत्
etacchrutvā baco rājā śarveṇa samudāhṛtam |
prayataḥ praṇato bhūtvā gaṅgaṃ hi samacintayat
ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता ।
ईशानं च स्थितं दृष्ट्वा गगनात्सहसा च्युता
tataḥ puṇyajalā ramyā rājñā samanucintitā |
īśānaṃ ca sthitaṃ dṛṣṭvā gaganātsahasā cyutā
तां प्रच्युतामथो दृष्ट्वा देवाः सार्घ् महर्षिभिः ।
गन्धर्वोरगयक्षाश्व समाजग्मुर्दिदृक्षवः
tāṃ pracyutāmatho dṛṣṭvā devāḥ sārgh maharṣibhiḥ |
gandharvoragayakṣāśva samājagmurdidṛkṣavaḥ
ततः पपात गगनाद्ग्ङ्गा हिमवतः सुता ।
समुद्वान्तमहावर्ता मीनग्राहसमाकुला
tataḥ papāta gaganādgṅgā himavataḥ sutā |
samudvāntamahāvartā mīnagrāhasamākulā
तां दधार हरो राजन्गङ्गां गगनमेखलाम् ।
ललाटदेशे पतितां मालां मुक्तामयीमिव ।
tāṃ dadhāra haro rājangaṅgāṃ gaganamekhalām |
lalāṭadeśe patitāṃ mālāṃ muktāmayīmiva |
सा बभूव विसर्पन्ती त्रिधा राजन्समुद्रगा ।
फेनपुञ्जाकुलजला हंसानामिव पङ्कयः
sā babhūva visarpantī tridhā rājansamudragā |
phenapuñjākulajalā haṃsānāmiva paṅkayaḥ
क्कचिदाभोगकुटिला प्रस्खलन्ती क्कचित्क्कचित् ।
सा फेनपटसंवीता मत्तेव प्रमदाऽव्रजत्
kkacidābhogakuṭilā praskhalantī kkacitkkacit |
sā phenapaṭasaṃvītā matteva pramadā'vrajat
क्कचित्सा तोयनिनदैर्नदन्ती नादमुत्तमम् ।
‘क्कचिदाकाशमावर्तैः संक्षिपन्तीव सर्वशः
kkacitsā toyaninadairnadantī nādamuttamam |
‘kkacidākāśamāvartaiḥ saṃkṣipantīva sarvaśaḥ
एवंप्रकारान्सुबहून्कुर्वती गगनाच्युता ।
पृथिवीतलमासाद्य भगीरथमथाब्रवीत्
evaṃprakārānsubahūnkurvatī gaganācyutā |
pṛthivītalamāsādya bhagīrathamathābravīt
दर्शयस्व महाराज मार्ग केन व्रजाम्यहम् ।
त्वदर्थमवतीर्णास्मि पृथिवीं पृथिवीपते
darśayasva mahārāja mārga kena vrajāmyaham |
tvadarthamavatīrṇāsmi pṛthivīṃ pṛthivīpate
एतच्छ्रुत्वा वचो राजा प्रातिष्टत भगीरथः ।
तत्र तानि शरीराणि सागराणां महात्मनाम् ।
प्लावनार्थं नरश्रेष्ठ पुण्येन सलिलेन च
etacchrutvā vaco rājā prātiṣṭata bhagīrathaḥ |
tatra tāni śarīrāṇi sāgarāṇāṃ mahātmanām |
plāvanārthaṃ naraśreṣṭha puṇyena salilena ca
गंङ्गाया धारणं कृत्वा हरो लोकनमस्कृतः ।
कैलासं पर्वतश्रेष्ठं जगाम त्रिदशैः सह
gaṃṅgāyā dhāraṇaṃ kṛtvā haro lokanamaskṛtaḥ |
kailāsaṃ parvataśreṣṭhaṃ jagāma tridaśaiḥ saha
समासाद्य समुद्रं च गङ्गया सहितो नृपः ।
पूरयामास वेगेन समुद्रं वरुणालयम्
samāsādya samudraṃ ca gaṅgayā sahito nṛpaḥ |
pūrayāmāsa vegena samudraṃ varuṇālayam
दुहितृत्वे च नृपतिर्गङ्गां समनुकल्पयत् ।
पितृणां चोदकं तत्र ददौ पूर्णमनोरथः
duhitṛtve ca nṛpatirgaṅgāṃ samanukalpayat |
pitṛṇāṃ codakaṃ tatra dadau pūrṇamanorathaḥ
एतत्ते सर्वमाख्यातं गङ्ग त्रिपथगा यथा ।
पूरणार्थ समुद्रस्य पृथिवीमवतारिता
etatte sarvamākhyātaṃ gaṅga tripathagā yathā |
pūraṇārtha samudrasya pṛthivīmavatāritā
कालेयाश्च महाराज त्रिदशैर्विनिपातिताः ।
समुद्रश्च यथा पीतः कारणार्थ महात्मना
kāleyāśca mahārāja tridaśairvinipātitāḥ |
samudraśca yathā pītaḥ kāraṇārtha mahātmanā
वातापिश्च यथा नीतः क्षयं स ब्रह्महा प्रभो ।
अगस्त्येन महाराज यन्मां त्वं परिपृच्छसि
vātāpiśca yathā nītaḥ kṣayaṃ sa brahmahā prabho |
agastyena mahārāja yanmāṃ tvaṃ paripṛcchasi
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)