वन पर्व

अध्याय 102: ब्रह्मा द्वारा देवताओं को अगस्त्य के पास भेजना

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्व्यधिकशततमोऽध्यायः ॥

25 श्लोक · 102 में से 315

इस अध्याय में क्या होता है

ब्रह्मा द्वारा देवताओं को अगस्त्य के पास भेजना

देवता नारायण से कहते हैं कि रात में ब्राह्मण मारे जा रहे हैं और कोई नहीं जानता कि किसके द्वारा। ब्राह्मण नष्ट हुए तो पृथ्वी नष्ट होगी और फिर स्वर्ग भी। भगवान विष्णु बताते हैं कि वृत्र के मरने पर समुद्र में छिपे कालकेय ही यह कर रहे हैं, और समुद्र के रहते उन्हें मारा नहीं जा सकता, अतः समुद्र को सुखाना होगा। देवता विष्णु के साथ ब्रह्मा के पास जाते हैं। ब्रह्मा बताते हैं कि क्षण भर में समुद्र पी सकने वाले केवल मित्रावरुण के पुत्र अगस्त्य हैं। आश्रम पहुँचकर देवता उनके पुराने कर्मों की स्तुति करते हैं कि आपने नहुष को इन्द्रपद से गिराया और सूर्य का मार्ग रोकने बढ़ते विन्ध्य को रोका। फिर वे वर माँगते हैं।

देवा ऊचुः

102.1

तव प्रसादाद्वर्धन्ते प्रजाः सर्वाश्चतुर्विधाः ।
ता भाविता भावयनति हव्यकव्यैर्दिवौकसः

tava prasādādvardhante prajāḥ sarvāścaturvidhāḥ |
tā bhāvitā bhāvayanati havyakavyairdivaukasaḥ

102.2

लोका ह्येवं विवर्धन्ते ह्यन्योन्यं समुपाश्रिताः ।
त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः

lokā hyevaṃ vivardhante hyanyonyaṃ samupāśritāḥ |
tvatprasādānnirudvignāstvayaiva parirakṣitāḥ

102.3

इदं च समनुप्राप्तं लोकानां भयमुत्तमम् ।
न च जानीम केनेति रात्रौ वध्यन्ति ब्राह्मणाः

idaṃ ca samanuprāptaṃ lokānāṃ bhayamuttamam |
na ca jānīma keneti rātrau vadhyanti brāhmaṇāḥ

102.4

क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति ।
तत पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति

kṣīṇeṣu ca brāhmaṇeṣu pṛthivī kṣayameṣyati |
tata pṛthivyāṃ kṣīṇāyāṃ tridivaṃ kṣayameṣyati

102.5

त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते ।
विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः

tvatprasādānmahābāho lokāḥ sarve jagatpate |
vināśaṃ nādhigaccheyustvayā vai parirakṣitāḥ

विष्णुरुवाच

102.6

विदितं मे सुराः सर्वं प्रजानां क्षयकारणम् ।
भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः

viditaṃ me surāḥ sarvaṃ prajānāṃ kṣayakāraṇam |
bhavatāṃ cāpi vakṣyāmi śṛṇudhvaṃ vigatajvarāḥ

102.7

कालेया इति विख्याता गणाः परमदारुणाः ।
तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रमाथितम्

kāleyā iti vikhyātā gaṇāḥ paramadāruṇāḥ |
taiśca vṛtraṃ samāśritya jagatsarvaṃ pramāthitam

102.8

ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता ।
जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम्

te vṛtraṃ nihataṃ dṛṣṭvā sahasrākṣeṇa dhīmatā |
jīvitaṃ parirakṣantaḥ praviṣṭā varuṇālayam

102.9

ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम् ।
उत्सादार्थं लोकानां रात्रौ घ्नन्ति ऋषीनिह

te praviśyodadhiṃ ghoraṃ nakragrāhasamākulam |
utsādārthaṃ lokānāṃ rātrau ghnanti ṛṣīniha

102.10

न तु शक्याः क्षयं नेतुं समुद्राश्रयिणो हि ते ।
समुद्रस्य क्षये बुद्धिर्भवद्भिः संप्रधार्यताम्

na tu śakyāḥ kṣayaṃ netuṃ samudrāśrayiṇo hi te |
samudrasya kṣaye buddhirbhavadbhiḥ saṃpradhāryatām

102.11

एतच्छ्रुत्वा वचो देवा विष्णुना समुदीरितम् ।
विष्णुमेव पुरस्कृत्यब्रह्माणं समुपस्थिताः

etacchrutvā vaco devā viṣṇunā samudīritam |
viṣṇumeva puraskṛtyabrahmāṇaṃ samupasthitāḥ

102.12

ततस्ते प्रणता भूत्वा तमेवार्धं न्यवेदयन् ।
सर्वलोकविनाशार्थं कालेया कृतनिश्चयाः

tataste praṇatā bhūtvā tamevārdhaṃ nyavedayan |
sarvalokavināśārthaṃ kāleyā kṛtaniścayāḥ

102.13

एषां तद्वचनं श्रुत्वा पद्मयोनिः सनातनः ।
उवाच परमप्रीतस्त्रिदशानर्थवद्वचः

eṣāṃ tadvacanaṃ śrutvā padmayoniḥ sanātanaḥ |
uvāca paramaprītastridaśānarthavadvacaḥ

102.14

विदितं मे सुराः सर्वे दानवानां विवेष्टितम् ।
मनुष्यादेश्च निधनं कालेयैः कालचोदितैः

viditaṃ me surāḥ sarve dānavānāṃ viveṣṭitam |
manuṣyādeśca nidhanaṃ kāleyaiḥ kālacoditaiḥ

102.15

क्षयस्तेपामनुप्राप्तः कालेनोपहताश्च ये ।
उपायं संप्रवक्ष्यामि समुद्रस्य विशोषणे

kṣayastepāmanuprāptaḥ kālenopahatāśca ye |
upāyaṃ saṃpravakṣyāmi samudrasya viśoṣaṇe

102.16

अगस्त्य इतिविग्व्यातो वारुणिः सुसमाहितः ।
तमुपागम्य सहिता इममर्थं प्रयाचत

agastya itivigvyāto vāruṇiḥ susamāhitaḥ |
tamupāgamya sahitā imamarthaṃ prayācata

102.17

स हि शक्तो महातेजाः क्षणात्पातुं महोदधिम् ।
अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोपणे

sa hi śakto mahātejāḥ kṣaṇātpātuṃ mahodadhim |
agastyena vinā ko hi śakto'nyo'rṇavaśopaṇe

102.18

अन्यथा हि न शक्यास्ते विना सागरशोपणम् ।
समुद्रे च क्षयं नीते कालेयान्निहनिष्यथ

anyathā hi na śakyāste vinā sāgaraśopaṇam |
samudre ca kṣayaṃ nīte kāleyānnihaniṣyatha

102.19

एवं श्रुत्वा वचो देवा ब्रह्मणः परमेष्ठिनः ।
परमेष्ठिनमाज्ञाप्यअगस्त्यस्याश्रमं ययुः

evaṃ śrutvā vaco devā brahmaṇaḥ parameṣṭhinaḥ |
parameṣṭhinamājñāpyaagastyasyāśramaṃ yayuḥ

102.20

तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम् ।
उपास्यमानमृपिभिर्देवैरिव पितामहम्

tatrāpaśyanmahātmānaṃ vāruṇiṃ dīptatejasam |
upāsyamānamṛpibhirdevairiva pitāmaham

102.21

तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम् ।
आश्रमश्थं तपोराशिं कर्मभिः स्वैस्तु तुष्टुवुः

te'bhigamya mahātmānaṃ maitrāvaruṇimacyutam |
āśramaśthaṃ taporāśiṃ karmabhiḥ svaistu tuṣṭuvuḥ

देवा ऊचुः

102.22

नहुपेणाभितप्तानां त्वं लोकानां गतिः पुरा ।
भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः

nahupeṇābhitaptānāṃ tvaṃ lokānāṃ gatiḥ purā |
bhraṃśitaśca suraiśvaryāllokārthaṃ lokakaṇṭakaḥ

102.23

क्रोधात्प्रवृद्धस्तरणं भास्करस्य नभोगतः ।
वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते

krodhātpravṛddhastaraṇaṃ bhāskarasya nabhogataḥ |
vacastavānatikrāmanvindhyaḥ śailo na vardhate

102.24

तमसा चावृतेलोके मृत्युनाऽभ्यर्दिताः प्रजाः ।
त्वामेव नाथमासाद्य निर्वृतिं परमां गताः

tamasā cāvṛteloke mṛtyunā'bhyarditāḥ prajāḥ |
tvāmeva nāthamāsādya nirvṛtiṃ paramāṃ gatāḥ

102.25

अस्माकं भयभीतानां नित्यशो भगवान्गतिः ।
ततस्त्वार्ताः प्रयाचामो वरं त्वां वरदो ह्यसि

asmākaṃ bhayabhītānāṃ nityaśo bhagavāngatiḥ |
tatastvārtāḥ prayācāmo varaṃ tvāṃ varado hyasi

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)