वन पर्व

अध्याय 101: रात में कालकेयों द्वारा मुनियों का भक्षण

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकाधिकशततमोऽध्यायः ॥

27 श्लोक · 101 में से 315

इस अध्याय में क्या होता है

रात में कालकेयों द्वारा मुनियों का भक्षण

दिन में समुद्र में छिपे कालकेय रात को निकलकर आश्रमों में ऋषियों को खा जाते हैं। वसिष्ठ के आश्रम में एक सौ सत्तानवे ब्राह्मण, च्यवन के आश्रम में सौ मुनि और भरद्वाज के आश्रम में वायु और जल पर रहने वाले बीस ब्रह्मचारी उनका भोजन बनते हैं। भोर होने पर धरती शंखों के ढेर जैसी हड्डियों, टूटे स्रुवों और बिखरी अग्नियों से भर जाती है। स्वाध्याय और यज्ञ रुक जाते हैं। लोग गुफाओं में भागते हैं और वीर समुद्र में छिपे शत्रु को नहीं खोज पाते। देवता नारायण की शरण जाते हैं और स्तुति करते हैं कि आपने वराह बनकर पृथ्वी उठाई, नृसिंह बनकर हिरण्यकशिपु को मारा, वामन बनकर बलि से त्रिलोक लिया और जम्भ को गिराया। वे लोकों की रक्षा की प्रार्थना करते हैं।

लोमश उवाच

101.1

समुद्रं ते समाश्रित्य वरुणं निधमम्भसः ।
कालेयाः संप्रवर्तन्त त्रैलोक्यस्य विनाशने

samudraṃ te samāśritya varuṇaṃ nidhamambhasaḥ |
kāleyāḥ saṃpravartanta trailokyasya vināśane

101.2

ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन् ।
आश्रमेषु च ये सन्ति पुण्येष्वायतनेषु च

te rātrau samabhikruddhā bhakṣayanti sadā munīn |
āśrameṣu ca ye santi puṇyeṣvāyataneṣu ca

101.3

वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः ।
अशीतिः शतमष्टौ च नव चान्ये तपस्विनः

vasiṣṭhasyāśrame viprā bhakṣitāstairdurātmabhiḥ |
aśītiḥ śatamaṣṭau ca nava cānye tapasvinaḥ

101.4

च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम् ।
फलमूलाशनानां हि मुनीनां भक्षितं शतम्

cyavanasyāśramaṃ gatvā puṇyaṃ dvijaniṣevitam |
phalamūlāśanānāṃ hi munīnāṃ bhakṣitaṃ śatam

101.5

एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा ।
कालेयास्ते दुरात्मानो भक्षयन्तस्तपोधनान्

evaṃ rātrau sma kurvanti viviśuścārṇavaṃ divā |
kāleyāste durātmāno bhakṣayantastapodhanān

101.6

भरद्वाजाश्रमे चैव नियता ब्र्हमचारिणः ।
वाय्वाहाराम्बुभक्षाश्च विंशतिः संनिषूदिताः

bharadvājāśrame caiva niyatā brhamacāriṇaḥ |
vāyvāhārāmbubhakṣāśca viṃśatiḥ saṃniṣūditāḥ

101.7

एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा ।
निशायां परिबाधन्ते समुद्राम्बुबलाश्रयात् ।
कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान्बहून्

evaṃ krameṇa sarvāṃstānāśramāndānavāstadā |
niśāyāṃ paribādhante samudrāmbubalāśrayāt |
kālopasṛṣṭāḥ kāleyā ghnanto dvijagaṇānbahūn

101.8

न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम ।
एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु

na cainānanvabudhyanta manujā manujottama |
evaṃ pravṛttāndaityāṃstāṃstāpaseṣu tapasviṣu

101.9

क्षयाय जगतः क्रूराः पर्यटन्ति स्म मेदिनीम्

kṣayāya jagataḥ krūrāḥ paryaṭanti sma medinīm

101.10

प्रभाते समदृश्यन्त नियताहारकर्शिताः ।
महीतलस्था मुनयः शरीरैर्गतजीवितैः

prabhāte samadṛśyanta niyatāhārakarśitāḥ |
mahītalasthā munayaḥ śarīrairgatajīvitaiḥ

101.11

क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसन्धिभिः ।
आकीर्णैराचिता भूमिः शङ्खानामिव राशिभिः

kṣīṇamāṃsairvirudhirairvimajjāntrairvisandhibhiḥ |
ākīrṇairācitā bhūmiḥ śaṅkhānāmiva rāśibhiḥ

101.12

लशैर्विप्रविद्धैश्च स्रुवैर्भग्नैस्तथैव च ।
विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता

laśairvipraviddhaiśca sruvairbhagnaistathaiva ca |
vikīrṇairagnihotraiśca bhūrbabhūva samāvṛtā

101.13

निःस्वाध्यायवपट्कारं नष्टयज्ञोत्सवक्रियम् ।
जगदासीन्निरुत्साहं कालेयभयपीडितम्

niḥsvādhyāyavapaṭkāraṃ naṣṭayajñotsavakriyam |
jagadāsīnnirutsāhaṃ kāleyabhayapīḍitam

101.14

एवं संक्षीयमाणाश्च मानवा मनुजेश्वर ।
आत्मत्राणपपा भीताः प्राद्रवन्त दिशो भयात्

evaṃ saṃkṣīyamāṇāśca mānavā manujeśvara |
ātmatrāṇapapā bhītāḥ prādravanta diśo bhayāt

101.15

केचिद्गुहाः प्रविविशुर्निर्भरांश्चापरे श्रिताः ।
अपरे मरणोद्विग्ना भयात्प्राणान्समुत्सृजन्

kecidguhāḥ praviviśurnirbharāṃścāpare śritāḥ |
apare maraṇodvignā bhayātprāṇānsamutsṛjan

101.16

केचिदत्रमहेष्वासाः शूराः परमहर्षिताः ।
मार्गमाणआः परं यत्नं दानवानां प्रचक्रिरे

kecidatramaheṣvāsāḥ śūrāḥ paramaharṣitāḥ |
mārgamāṇaāḥ paraṃ yatnaṃ dānavānāṃ pracakrire

101.17

न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान् ।
श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च

na caitānadhijagmuste samudraṃ samupāśritān |
śramaṃ jagmuśca paramamājagmuḥ kṣayameva ca

101.18

जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये ।
आजग्मुः परमामार्तिं त्रिदशा मनुजेश्वर

jagatyupaśamaṃ yāte naṣṭayajñotsavakriye |
ājagmuḥ paramāmārtiṃ tridaśā manujeśvara

101.19

समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे

sametya samahendrāśca bhayānmantraṃ pracakrire

101.20

शरण्यं शरणं देवं नारायणमजं विभुम् ।
तेऽभिगम्य नमस्कृत्य वैकुण्ठमपराजितम् ।
ततो देवाः समस्तास्ते तदोचुर्मधुसूदनम्

śaraṇyaṃ śaraṇaṃ devaṃ nārāyaṇamajaṃ vibhum |
te'bhigamya namaskṛtya vaikuṇṭhamaparājitam |
tato devāḥ samastāste tadocurmadhusūdanam

101.21

त्वंनः स्रष्टा च भर्ता च हर्ता च जगतः प्रभो ।
त्वया सृष्टमिदं विश्वं यच्चेङ्गं यच्च नेङ्गति ।
त्वय्येव पुण्डरीकाक्ष पुनस्तत्प्रविलीयते

tvaṃnaḥ sraṣṭā ca bhartā ca hartā ca jagataḥ prabho |
tvayā sṛṣṭamidaṃ viśvaṃ yacceṅgaṃ yacca neṅgati |
tvayyeva puṇḍarīkākṣa punastatpravilīyate

101.22

त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण ।
वाराहं वपुराश्रित्यजगदर्थे समुद्धृता

tvayā bhūmiḥ purā naṣṭā samudrātpuṣkarekṣaṇa |
vārāhaṃ vapurāśrityajagadarthe samuddhṛtā

101.23

आदिदैत्यो महावीर्यो हिरण्यकशिपुः पुरा ।
नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम

ādidaityo mahāvīryo hiraṇyakaśipuḥ purā |
nārasiṃhaṃ vapuḥ kṛtvā sūditaḥ puruṣottama

101.24

अवध्यः सर्वभूतानां बलिश्चापि महासुरः ।
वामनं वपुराश्रित्य त्रैलोक्याद्धंशितस्त्वया

avadhyaḥ sarvabhūtānāṃ baliścāpi mahāsuraḥ |
vāmanaṃ vapurāśritya trailokyāddhaṃśitastvayā

101.25

असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः ।
यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः

asuraśca maheṣvāso jambha ityabhiviśrutaḥ |
yajñakṣobhakaraḥ krūrastvayaiva vinipātitaḥ

101.26

एवमादीनि कर्माणि येषां संख्या न विद्यते ।
अस्माकं भयभीतानां त्वं गतिर्मधुसूदन

evamādīni karmāṇi yeṣāṃ saṃkhyā na vidyate |
asmākaṃ bhayabhītānāṃ tvaṃ gatirmadhusūdana

101.27

तस्मात्त्वां देवदेवेश लोकार्थं ज्ञापयामहे ।
रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात् ।
शरणागतसंत्राणे त्वमेकोऽसि दृढव्रतः

tasmāttvāṃ devadeveśa lokārthaṃ jñāpayāmahe |
rakṣa lokāṃśca devāṃśca śakraṃ ca mahato bhayāt |
śaraṇāgatasaṃtrāṇe tvameko'si dṛḍhavrataḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)