श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः ।
नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे
śrutaṃ me bhavato vākyamannadānasya yo vidhiḥ |
nakṣatrayogasyedānīṃ dānakalpaṃ bravīhi me
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनशततमोऽध्यायः ॥
36 श्लोक · 99 में से 274
युधिष्ठिर पूछते हैं कि किस नक्षत्र में कौन-सा दान हो। भीष्म वह संवाद सुनाते हैं जो नारद ने द्वारका में देवकी से कहा। कृत्तिका में ब्राह्मणों को घी मिली खीर खिलाने से उत्तम लोक मिलते हैं। रोहिणी में मांस, अन्न, घी और दूध; मृगशिरा में बछड़े सहित दुधारू गौ; आर्द्रा में तिल मिली खिचड़ी; पुनर्वसु में पुए। पुष्य में सोना, आश्लेषा में चाँदी या बैल, मघा में तिल भरे पात्र, हस्त में हाथियों वाला रथ, चित्रा में बैल, स्वाती में अपना सबसे प्रिय धन, विशाखा में अन्न और वस्त्र सहित गाड़ी। श्रवण में कम्बल, शतभिषा में चन्दन। उत्तरभाद्रपद में पाठ भेड़ के मांस का दान कहता है, रेवती में काँसे की दोहनी सहित गौ, अश्विनी में घोड़ों वाला रथ और भरणी में तिलधेनु। देवकी ने यह अपनी बहुओं को सिखाया।
युधिष्ठिर उवाच
श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः ।
नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे
śrutaṃ me bhavato vākyamannadānasya yo vidhiḥ |
nakṣatrayogasyedānīṃ dānakalpaṃ bravīhi me
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरानम् ।
देवक्याश्चैव संवादं समर्षेर्नारदस्य च
atrāpyudāharantīmamitihāsaṃ purānam |
devakyāścaiva saṃvādaṃ samarṣernāradasya ca
द्वारकामनुसम्प्राप्तं नारदं देवदर्शनम् ।
पप्रच्छेदं वचः प्रश्नं देवकी धर्मदर्शिनी
dvārakāmanusamprāptaṃ nāradaṃ devadarśanam |
papracchedaṃ vacaḥ praśnaṃ devakī dharmadarśinī
तस्याः सम्पृच्छमानाया देवर्षिर्नारदस्ततः ।
आचष्ट विधइवत्सर्वं तच्छृणुष्व विशाम्पते
tasyāḥ sampṛcchamānāyā devarṣirnāradastataḥ |
ācaṣṭa vidhaivatsarvaṃ tacchṛṇuṣva viśāmpate
नारद उवाच
कृत्तिकासु महाभागे पायसेन ससर्पिषा ।
सन्तर्प्य ब्राह्मणान्साधूँल्लोकानाप्नोत्यनुत्तमान्
kṛttikāsu mahābhāge pāyasena sasarpiṣā |
santarpya brāhmaṇānsādhūm̐llokānāpnotyanuttamān
रोहिण्यां प्रसृतैर्मार्गैर्मांसैरन्नेन सर्पिषा ।
पयोऽन्नपानं दातव्यमनृणार्थं द्विजातये
rohiṇyāṃ prasṛtairmārgairmāṃsairannena sarpiṣā |
payo'nnapānaṃ dātavyamanṛṇārthaṃ dvijātaye
दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते ।
गच्छन्ति मानुपाल्लोकात्स्वर्गलोकमनुत्तमम्
dogdhrīṃ dattvā savatsāṃ tu nakṣatre somadaivate |
gacchanti mānupāllokātsvargalokamanuttamam
आर्द्रायां कृसरं दत्त्वा तिलभिश्रमुपोषितः ।
नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान्
ārdrāyāṃ kṛsaraṃ dattvā tilabhiśramupoṣitaḥ |
narastarati durgāṇi kṣuradhārāṃśca parvatān
पूपान्पुनर्वसौ दत्त्वा तथैवान्नानि शोभने ।
यशस्वी रूपसम्पन्नो बह्वन्नो जायते कुले
pūpānpunarvasau dattvā tathaivānnāni śobhane |
yaśasvī rūpasampanno bahvanno jāyate kule
पुण्येण कनकं दत्त्वा कृतं वाऽकृतमेव च ।
अनालोकेषु लोकेषु सोमवत्स विराजते
puṇyeṇa kanakaṃ dattvā kṛtaṃ vā'kṛtameva ca |
anālokeṣu lokeṣu somavatsa virājate
आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति ।
स सर्पभयनिर्मुक्तः सम्भवानधितिष्ठति
āśleṣāyāṃ tu yo rūpyamṛṣabhaṃ vā prayacchati |
sa sarpabhayanirmuktaḥ sambhavānadhitiṣṭhati
मघासु तिलपूर्णानि वर्धमानानि मानवः ।
प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते
maghāsu tilapūrṇāni vardhamānāni mānavaḥ |
pradāya putrapaśumāniha pretya ca modate
फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः ।
भक्ष्यान्फाणितसंयुक्तान्दत्त्वा सौभाग्यमृच्छति
phalgunīpūrvasamaye brāhmaṇānāmupoṣitaḥ |
bhakṣyānphāṇitasaṃyuktāndattvā saubhāgyamṛcchati
घृतक्षीरसमायुक्तं विधिवत्षष्टिकौदनम् ।
उत्तराविषये दत्त्वा स्वर्गलोके महीयते
ghṛtakṣīrasamāyuktaṃ vidhivatṣaṣṭikaudanam |
uttarāviṣaye dattvā svargaloke mahīyate
यद्यत्प्रदीयते दानमुत्तराविषये नरैः ।
महाफलमनन्तं तद्भवतीति विनिश्चयः
yadyatpradīyate dānamuttarāviṣaye naraiḥ |
mahāphalamanantaṃ tadbhavatīti viniścayaḥ
हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः ।
प्राप्नोति परमाँल्लोकान्पुण्यकामसमन्वितान्
haste hastirathaṃ dattvā caturyuktamupoṣitaḥ |
prāpnoti paramām̐llokānpuṇyakāmasamanvitān
चित्रायां वृषभं दत्त्वा पुण्यगन्धांश्च भारत ।
चरन्त्यप्सरसां लोके रमन्ते नन्दने तथा
citrāyāṃ vṛṣabhaṃ dattvā puṇyagandhāṃśca bhārata |
carantyapsarasāṃ loke ramante nandane tathā
स्वात्यामथ धनं दत्त्वा यदिष्टतममात्मनः ।i
प्राप्नोति लोकान्स शुभानिह चैव महद्यशः
svātyāmatha dhanaṃ dattvā yadiṣṭatamamātmanaḥ |i
prāpnoti lokānsa śubhāniha caiva mahadyaśaḥ
विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् ।
सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम् ।
viśākhāyāmanaḍvāhaṃ dhenuṃ dattvā ca dugdhadām |
saprāsaṅgaṃ ca śakaṭaṃ sadhānyaṃ vastrasaṃyutam |
पितॄन्देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते ।
न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति
pitṝndevāṃśca prīṇāti pretya cānantyamaśnute |
na ca durgāṇyavāpnoti svargalokaṃ ca gacchati
दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति ।
नरकादींश्च संक्लेशान्नाप्नोतीति विनिश्चयः
dattvā yathoktaṃ viprebhyo vṛttimiṣṭāṃ sa vindati |
narakādīṃśca saṃkleśānnāpnotīti viniścayaḥ
अनुराधासु प्रावरं वरान्नं समुपोषितः ।
दत्त्वा युगशतं चापि नरः स्वर्गे महीयते
anurādhāsu prāvaraṃ varānnaṃ samupoṣitaḥ |
dattvā yugaśataṃ cāpi naraḥ svarge mahīyate
कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् ।
ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां स गच्छति
kālaśākaṃ tu viprebhyo dattvā martyaḥ samūlakam |
jyeṣṭhāyāmṛddhimiṣṭāṃ vai gatimiṣṭāṃ sa gacchati
मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः ।
पितॄन्प्रीणयते चापि गतिमिष्टां च गच्छति ।
mūle mūlaphalaṃ dattvā brāhmaṇebhyaḥ samāhitaḥ |
pitṝnprīṇayate cāpi gatimiṣṭāṃ ca gacchati |
अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः ।
कुलवृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे
atha pūrvāsvaṣāḍhāsu dadhipātrāṇyupoṣitaḥ |
kulavṛttopasampanne brāhmaṇe vedapārage
प्रदाय जायते प्रेत्य कुले सुबहुगोधने ।
उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम्
pradāya jāyate pretya kule subahugodhane |
udamanthaṃ sasarpiṣkaṃ prabhūtamadhuphāṇitam
दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्नुयात् ।
दुग्धं त्वभिजिते योगे दत्त्वा मधुघृतप्लुतम् ।
धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते
dattvottarāsvaṣāḍhāsu sarvakāmānavāpnuyāt |
dugdhaṃ tvabhijite yoge dattvā madhughṛtaplutam |
dharmanityo manīṣibhyaḥ svargaloke mahīyate
श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव वा ।
श्वेतेन याति यानेन स्वर्गलोकानसंवृतान्
śravaṇe kambalaṃ dattvā vastrāntaritameva vā |
śvetena yāti yānena svargalokānasaṃvṛtān
गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः ।
वस्त्रराशिधनं सद्यः प्रेत्य राज्यं प्रपद्यते
goprayuktaṃ dhaniṣṭhāsu yānaṃ dattvā samāhitaḥ |
vastrarāśidhanaṃ sadyaḥ pretya rājyaṃ prapadyate
गन्धाञ्शतभिषग्योगे दत्त्वा सागरुचन्दनान् ।
प्राप्नोत्यप्सरसां सङ्घान्प्रेत्य गन्धांश्च शाश्वतान्
gandhāñśatabhiṣagyoge dattvā sāgarucandanān |
prāpnotyapsarasāṃ saṅghānpretya gandhāṃśca śāśvatān
पूर्वप्रोष्ठपदायोगे राजमाषान्प्रदाय तु ।
सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत्
pūrvaproṣṭhapadāyoge rājamāṣānpradāya tu |
sarvabhakṣaphalopetaḥ sa vai pretya sukhī bhavet
औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति ।
स पितॄन्प्रीणयति वै प्रेत्य चानन्त्यमश्नुते
aurabhramuttarāyoge yastu māṃsaṃ prayacchati |
sa pitṝnprīṇayati vai pretya cānantyamaśnute
कांस्योपदोहनां धेनु रेवत्यां यः प्रयच्छति ।
सा प्रेत्य कामानादाय दातारमुपतिष्ठति
kāṃsyopadohanāṃ dhenu revatyāṃ yaḥ prayacchati |
sā pretya kāmānādāya dātāramupatiṣṭhati
रथमश्वसमायुक्तं दत्त्वाऽश्विन्यां नरोत्तमः ।
हस्त्यश्वरथसम्पन्ने वर्चस्वी जायते कुले
rathamaśvasamāyuktaṃ dattvā'śvinyāṃ narottamaḥ |
hastyaśvarathasampanne varcasvī jāyate kule
भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै ।
गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा
bharaṇīṣu dvijātibhyastiladhenuṃ pradāya vai |
gāḥ suprabhūtāḥ prāpnoti naraḥ pretya yaśastathā
भीष्म उवाच
इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः ।
देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम्
ityeṣa lakṣaṇoddeśaḥ prokto nakṣatrayogataḥ |
devakyā nāradeneha sā snuṣābhyo'bravīdidam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)