अनुशासन पर्व

अध्याय 93: तालाब खुदवाने और वृक्ष लगाने का पुण्य

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिनवतितमोऽध्यायः ॥

33 श्लोक · 93 में से 274

इस अध्याय में क्या होता है

तालाब खुदवाने और वृक्ष लगाने का पुण्य

युधिष्ठिर बाग़ और तालाब का फल पूछते हैं। भीष्म कहते हैं कि तालाब बनवाने वाला तीनों लोकों में पूजित होता है। वर्षा भर जिसके तालाब में जल रहे उसे अग्निहोत्र का फल, शरद भर रहे तो हज़ार गौओं के दान का, और ग्रीष्म तक जल टिके तो अश्वमेध का फल मिलता है। जहाँ गौएँ, मृग, पक्षी और सज्जन पानी पीते और विश्राम करते हैं, वहाँ बनाने वाले का पुण्य अनन्त है और उसका पूरा कुल तर जाता है। जलदान सब दानों से बढ़कर है। फिर वे वृक्षों पर आते हैं। वृक्ष फूलों से देवताओं, फलों से पितरों और छाया से अतिथियों का सत्कार करते हैं; लगाने वाले के लिए वे पुत्र हैं और परलोक में तारते हैं।

युधिष्ठिर उवाच

93.1

आरामाणां तटाकानां यत्फलं कुरुपुङ्गव ।
तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ

ārāmāṇāṃ taṭākānāṃ yatphalaṃ kurupuṅgava |
tadahaṃ śrotumicchāmi tvatto'dya bharatarṣabha

भीष्म उवाच

93.2

सुप्रदर्शा बलवती चित्रा धातुविभूषिता ।
उपेता सर्वभूतैश्च श्रेष्ठा भूमिरिहोच्यते

supradarśā balavatī citrā dhātuvibhūṣitā |
upetā sarvabhūtaiśca śreṣṭhā bhūmirihocyate

93.3

तस्याः क्षेत्रविशेषाश्च तटाकानां च बन्धनम् ।
औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः

tasyāḥ kṣetraviśeṣāśca taṭākānāṃ ca bandhanam |
audakāni ca sarvāṇi pravakṣyāmyanupūrvaśaḥ

93.4

तटाकानां च वक्ष्यामि कृतानां चापि ये गुणाः ।
त्रिषु लोकेषु सर्वत्र पूजनीयस्तटाकवान्

taṭākānāṃ ca vakṣyāmi kṛtānāṃ cāpi ye guṇāḥ |
triṣu lokeṣu sarvatra pūjanīyastaṭākavān

93.5

अथवा मित्रसदनं मैत्रं मित्रविवर्धनम् ।
कीर्तिसंजननं श्रेष्ठं तटाकानां निवेशनम्

athavā mitrasadanaṃ maitraṃ mitravivardhanam |
kīrtisaṃjananaṃ śreṣṭhaṃ taṭākānāṃ niveśanam

93.6

धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः ।
तटाकसुकृतं देशे क्षेत्रमेकं महाश्रयम्

dharmasyārthasya kāmasya phalamāhurmanīṣiṇaḥ |
taṭākasukṛtaṃ deśe kṣetramekaṃ mahāśrayam

93.7

चतुर्विधानां भूतानां तटाकमुपलक्षयेत् ।
तटाकानि च सर्वाणि दिशन्ति श्रियमुत्तमाम्

caturvidhānāṃ bhūtānāṃ taṭākamupalakṣayet |
taṭākāni ca sarvāṇi diśanti śriyamuttamām

93.8

देवा मनुष्यगन्धर्वाः पितरोरगराक्षसाः ।
स्थावराणि च भूतानि संश्रयन्ति जलाशयम्

devā manuṣyagandharvāḥ pitaroragarākṣasāḥ |
sthāvarāṇi ca bhūtāni saṃśrayanti jalāśayam

93.9

तस्मात्तांस्ते प्रवक्ष्यामि तटाके ये गुणाः स्मृताः ।
या च तत्र फलावाप्तिर्ऋषिभिः समुदाहृताः

tasmāttāṃste pravakṣyāmi taṭāke ye guṇāḥ smṛtāḥ |
yā ca tatra phalāvāptirṛṣibhiḥ samudāhṛtāḥ

93.10

वर्षाकाले तटाके तु सलिलं यस्य तिष्ठति ।
अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः

varṣākāle taṭāke tu salilaṃ yasya tiṣṭhati |
agnihotraphalaṃ tasya phalamāhurmanīṣiṇaḥ

93.11

शरत्काले तु सलिलं तटाके यस्य तिष्ठति ।
गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम्

śaratkāle tu salilaṃ taṭāke yasya tiṣṭhati |
gosahasrasya sa pretya labhate phalamuttamam

93.12

हेमन्तकाले सलिलं तटाके यस्य तिष्ठति ।
स वै बहुसुवर्णस्य यज्ञस्य लभते फलम्

hemantakāle salilaṃ taṭāke yasya tiṣṭhati |
sa vai bahusuvarṇasya yajñasya labhate phalam

93.13

यस्य वै शैशिरे काले तटाके सलिलं भवेत् ।
तस्याग्निष्टोमयज्ञस्य फलमाहुर्मनीषिणः

yasya vai śaiśire kāle taṭāke salilaṃ bhavet |
tasyāgniṣṭomayajñasya phalamāhurmanīṣiṇaḥ

93.14

तटाकं सुकृतं यस्य वसन्ते तु महाश्रयम् ।
अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते

taṭākaṃ sukṛtaṃ yasya vasante tu mahāśrayam |
atirātrasya yajñasya phalaṃ sa samupāśnute

93.15

निदाघकाले पानीयं तटाके यस्य तिष्ठति ।
वाजिमेधफलं तस्य फलं वै मुनयो विदुः

nidāghakāle pānīyaṃ taṭāke yasya tiṣṭhati |
vājimedhaphalaṃ tasya phalaṃ vai munayo viduḥ

93.16

स कुलं तारयेत्सर्वं यस्य खाते जलाशये ।
गावः पिबन्ति सलिलं साधवश्च नराः सदा

sa kulaṃ tārayetsarvaṃ yasya khāte jalāśaye |
gāvaḥ pibanti salilaṃ sādhavaśca narāḥ sadā

93.17

तटाके यस्य गावस्तु पिबन्ति तृषिता जलम् ।
मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत

taṭāke yasya gāvastu pibanti tṛṣitā jalam |
mṛgapakṣimanuṣyāśca so'śvamedhaphalaṃ labheta

93.18

यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च ।
तटाके यस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते

yatpibanti jalaṃ tatra snāyante viśramanti ca |
taṭāke yasya tatsarvaṃ pretyānantyāya kalpate

93.19

दुर्लभं सलिलं तात विशेषेण परत्र वै ।
पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती

durlabhaṃ salilaṃ tāta viśeṣeṇa paratra vai |
pānīyasya pradānena prītirbhavati śāśvatī

93.20

तिलान्ददत पानीयं दीपान्ददत जागृत ।
ज्ञातिभिः सह मोदध्वमेतत्प्रेत्य सुदुर्लभम्

tilāndadata pānīyaṃ dīpāndadata jāgṛta |
jñātibhiḥ saha modadhvametatpretya sudurlabham

93.21

सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते ।
पानीयं नरशार्दूल तस्माद्दातव्यमेव हि

sarvadānairgurutaraṃ sarvadānairviśiṣyate |
pānīyaṃ naraśārdūla tasmāddātavyameva hi

93.22

एवमेतत्तटाकस्य कीर्तितं फलमुत्तमम् ।
अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामवरोपणम्

evametattaṭākasya kīrtitaṃ phalamuttamam |
ata ūrdhvaṃ pravakṣyāmi vṛkṣāṇāmavaropaṇam

93.23

स्थावराणां च भूतानां जातयः षट् प्रकीर्तिताः ।
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः

sthāvarāṇāṃ ca bhūtānāṃ jātayaḥ ṣaṭ prakīrtitāḥ |
vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ

93.24

एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे ।
कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम्

etā jātyastu vṛkṣāṇāṃ teṣāṃ rope guṇāstvime |
kīrtiśca mānuṣe loke pretya caiva phalaṃ śubham

93.25

लभते नाम लोके च पितृभिश्च महीयते ।
देवलोके गतस्यापि नाम तस्य न नश्यति

labhate nāma loke ca pitṛbhiśca mahīyate |
devaloke gatasyāpi nāma tasya na naśyati

93.26

अतीतानागते चोभे पितृवंशं च भारत ।
तारयेद्वृक्षरोपी च तस्माद्वृक्षांश्च रोपयेत्

atītānāgate cobhe pitṛvaṃśaṃ ca bhārata |
tārayedvṛkṣaropī ca tasmādvṛkṣāṃśca ropayet

93.27

तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः ।
परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान्

tasya putrā bhavantyete pādapā nātra saṃśayaḥ |
paralokagataḥ svargaṃ lokāṃścāpnoti so'vyayān

93.28

पुष्णैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन् ।
धायया चातिथिं तात पूजयन्ति महीरुहः

puṣṇaiḥ suragaṇānvṛkṣāḥ phalaiścāpi tathā pitṝn |
dhāyayā cātithiṃ tāta pūjayanti mahīruhaḥ

93.29

किन्नरोरगरक्षांसि देवगन्धर्वमानवाः ।
तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान्

kinnaroragarakṣāṃsi devagandharvamānavāḥ |
tathā ṛṣigaṇāścaiva saṃśrayanti mahīruhān

93.30

पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् ।
वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र तु

puṣpitāḥ phalavantaśca tarpayantīha mānavān |
vṛkṣadaṃ putravadvṛkṣāstārayanti paratra tu

93.31

तस्मात्तटाके सद्वृक्षा रोप्याः श्रेयोर्थिना सदा ।
पुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः

tasmāttaṭāke sadvṛkṣā ropyāḥ śreyorthinā sadā |
putravatparipālyāśca putrāste dharmataḥ smṛtāḥ

93.32

तटाककृद्वृक्षरोपी इष्टयज्ञश्च यो द्विजः ।
एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः

taṭākakṛdvṛkṣaropī iṣṭayajñaśca yo dvijaḥ |
ete svarge mahīyante ye cānye satyavādinaḥ

93.33

तस्मात्तटाकं कुर्वीत आरामांश्चैव रोपयेत् ।
यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत्

tasmāttaṭākaṃ kurvīta ārāmāṃścaiva ropayet |
yajecca vividhairyajñaiḥ satyaṃ ca satataṃ vadet

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)