अनुशासन पर्व

अध्याय 91: परशुराम और विश्वामित्र के जन्म की भविष्यवाणी

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकनवतितमोऽध्यायः ॥

21 श्लोक · 91 में से 274

इस अध्याय में क्या होता है

परशुराम और विश्वामित्र के जन्म की भविष्यवाणी

च्यवन कुशिक को होनी बताते हैं। भृगुओं के यजमान क्षत्रिय भविष्य में उनसे बैर करके उन्हें गर्भ तक में मारेंगे। तब भृगुकुल में सूर्य-से तेजस्वी और्व जन्मेंगे, जिनकी क्रोधाग्नि पृथ्वी को जलाने लगेगी, और वे उसे समुद्र में वडवामुख में डाल देंगे। उनके पुत्र ऋचीक को सम्पूर्ण धनुर्वेद प्राप्त होगा, जिसे वे जमदग्नि को देंगे। ऋचीक कुशिक की पौत्री, गाधि की पुत्री से विवाह करेंगे, और ब्रह्मा के विधान से दो स्त्रियों के बीच हुए उलट-फेर से क्षत्रधर्मी ब्राह्मण परशुराम जन्मेंगे, और गाधि को ब्राह्मणधर्मी, महातपस्वी क्षत्रिय पुत्र विश्वामित्र प्राप्त होगा। कुशिक प्रसन्न होकर वर माँगते हैं कि उनका कुल ब्रह्मनिष्ठ और धर्मपरायण हो। च्यवन तीर्थयात्रा पर चले जाते हैं, और जैसा उन्होंने कहा था, वैसा ही हुआ।

च्यवन उवाच

91.1

अवश्यं कथनीयं मे तवैतन्नरपुङ्गव ।
यदर्थं त्वाहमुच्छेत्तुं सम्प्राप्तो मनुजाधिप

avaśyaṃ kathanīyaṃ me tavaitannarapuṅgava |
yadarthaṃ tvāhamucchettuṃ samprāpto manujādhipa

91.2

भूगूणां क्षत्रिया याज्या नित्यमेतज्जनाधिप ।
ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना

bhūgūṇāṃ kṣatriyā yājyā nityametajjanādhipa |
te ca bhedaṃ gamiṣyanti daivayuktena hetunā

91.3

क्षत्रियाश्च भृगून्सर्वान्वधिष्यन्ति नराधिप ।
आगर्भादनुकृन्तन्तो दैतदण्डनिपीडिताः

kṣatriyāśca bhṛgūnsarvānvadhiṣyanti narādhipa |
āgarbhādanukṛntanto daitadaṇḍanipīḍitāḥ

91.4

तत उत्पत्स्यतेऽस्माकं कुले गोत्रविवर्धनः ।
और्वो नाम महातेजा ज्वलितार्कसमद्युतिः

tata utpatsyate'smākaṃ kule gotravivardhanaḥ |
aurvo nāma mahātejā jvalitārkasamadyutiḥ

91.5

स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति ।
महीं सपर्वतवनां यः करिष्यति भस्मसात् ।

sa trailokyavināśāya kopāgniṃ janayiṣyati |
mahīṃ saparvatavanāṃ yaḥ kariṣyati bhasmasāt |

91.6

कञ्चित्कालं तु वह्निं च स एव शमयिष्यति ।
समुद्रे वडवावक्त्रे प्रक्षिप्य मुनिसत्तमः ।

kañcitkālaṃ tu vahniṃ ca sa eva śamayiṣyati |
samudre vaḍavāvaktre prakṣipya munisattamaḥ |

91.7

पुत्रं तस्य महाराज ऋचीकं भृगुनन्दनम् ।
साक्षात्कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनघ

putraṃ tasya mahārāja ṛcīkaṃ bhṛgunandanam |
sākṣātkṛtsno dhanurvedaḥ samupasthāsyate'nagha

91.8

क्षत्रियाणामभावाय दैवयुक्तेनु हेतुना ।
स तु तं प्रतिगृह्यैव पुत्रे संक्रामयिष्यति

kṣatriyāṇāmabhāvāya daivayuktenu hetunā |
sa tu taṃ pratigṛhyaiva putre saṃkrāmayiṣyati

91.9

जमदग्नौ महाभागे तपसा भावितात्मनि ।
स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति

jamadagnau mahābhāge tapasā bhāvitātmani |
sa cāpi bhṛguśārdūlastaṃ vedaṃ dhārayiṣyati

91.10

कुलात्तु तव धर्मात्मन्कन्यां सोऽधिगमिष्यति ।
उद्भावनार्थं भवतो वंशस्य भरतर्षभ

kulāttu tava dharmātmankanyāṃ so'dhigamiṣyati |
udbhāvanārthaṃ bhavato vaṃśasya bharatarṣabha

91.11

क्षत्रहन्ता भवेद्धिंस्र इति दैवं सनातनम् ।
नारायणमुपास्यास्य वरात्तं पुत्रमृच्छति

kṣatrahantā bhaveddhiṃsra iti daivaṃ sanātanam |
nārāyaṇamupāsyāsya varāttaṃ putramṛcchati

91.12

गाधेर्दुहितरं प्राप्यि पौत्रीं तव महातपाः ।
ब्राह्मणं क्षत्रधर्माणं पुत्रमुत्पादयिष्यति

gādherduhitaraṃ prāpyi pautrīṃ tava mahātapāḥ |
brāhmaṇaṃ kṣatradharmāṇaṃ putramutpādayiṣyati

91.13

क्षत्रियं विप्रधर्माणं बृहस्पतिमिवौजसा ।
विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम् ।
तपसा महता युक्तं प्रदास्यति महाद्युते

kṣatriyaṃ vipradharmāṇaṃ bṛhaspatimivaujasā |
viśvāmitraṃ tava kule gādheḥ putraṃ sudhārmikam |
tapasā mahatā yuktaṃ pradāsyati mahādyute

91.14

स्त्रियौ तु कारणं तत्र परिवर्ते भविष्यतः ।
पितामहनियोगाद्वै नान्यथैतद्भविष्यति

striyau tu kāraṇaṃ tatra parivarte bhaviṣyataḥ |
pitāmahaniyogādvai nānyathaitadbhaviṣyati

91.15

तृतीये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति ।
भविता त्वं च सम्बन्धी भृगूणां भावितात्मनाम्

tṛtīye puruṣe tubhyaṃ brāhmaṇatvamupaiṣyati |
bhavitā tvaṃ ca sambandhī bhṛgūṇāṃ bhāvitātmanām

भीष्म उवाच

91.16

कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः ।
श्रुत्वा हृष्टोऽभवद्राजा वाक्यं चेदमुवाच ह ।
एवमस्त्विति धर्मात्मा तदा भरतसत्तम

kuśikastu munervākyaṃ cyavanasya mahātmanaḥ |
śrutvā hṛṣṭo'bhavadrājā vākyaṃ cedamuvāca ha |
evamastviti dharmātmā tadā bharatasattama

91.17

च्यवनस्तु महातेजाः पुनरेव नराधिपम् ।
वरार्थं चोदयामास तमुवाच स पार्थिवः

cyavanastu mahātejāḥ punareva narādhipam |
varārthaṃ codayāmāsa tamuvāca sa pārthivaḥ

91.18

बाढमेवं ग्रहीष्यामि कामांस्त्वत्तो महामुने ।
ब्रह्मभूतं कुलं मेऽस्तु धर्मे चास्य मनो भवेत्

bāḍhamevaṃ grahīṣyāmi kāmāṃstvatto mahāmune |
brahmabhūtaṃ kulaṃ me'stu dharme cāsya mano bhavet

91.19

एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः ।
अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा

evamuktastathetyevaṃ pratyuktvā cyavano muniḥ |
abhyanujñāya nṛpatiṃ tīrthayātrāṃ yayau tadā

91.20

एतत्ते कथितं सर्वमशेषेण मया नृप ।
भृगूणां कुशिकानां च अभिसम्बन्धकारणम्

etatte kathitaṃ sarvamaśeṣeṇa mayā nṛpa |
bhṛgūṇāṃ kuśikānāṃ ca abhisambandhakāraṇam

91.21

यथोक्तमृषिणा चापि तदा तदभवन्नृप ।
जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव हि

yathoktamṛṣiṇā cāpi tadā tadabhavannṛpa |
janma rāmasya ca munerviśvāmitrasya caiva hi

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)