प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः ।
यस्याः किञ्चिन्नाददते ज्ञातयो न स विक्रयः
prācetasasya vacanaṃ kīrtayanti purāvidaḥ |
yasyāḥ kiñcinnādadate jñātayo na sa vikrayaḥ
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकाशीतितमोऽध्यायः ॥
15 श्लोक · 81 में से 274
भीष्म प्राचेतस का वचन सुनाते हैं: जिस कन्या के लिए कुटुम्बी कुछ नहीं लेते, वह विक्रय नहीं है, और जो कुछ दिया जाए वह पूरा कन्या का ही है। कल्याण चाहने वाले पिता, भाई, ससुर और देवर स्त्रियों का आदर और लाड़ करें। जहाँ स्त्रियाँ पूजी जाती हैं वहाँ देवता रमते हैं; जहाँ नहीं, वहाँ सब क्रियाएँ निष्फल होती हैं, और दुःखी बहन-बेटियों के शाप से घर श्रीहीन हो जाते हैं। स्वर्ग जाते हुए मनु ने स्त्रियों को पुरुषों के संरक्षण में सौंपा। विदेहराज की पुत्री का श्लोक उद्धृत है: स्त्री का अलग यज्ञ, श्राद्ध या उपवास नहीं, पति की सेवा ही उसका धर्म है और उसी से वह स्वर्ग जीतती है। फिर: बचपन में पिता, यौवन में पति और बुढ़ापे में पुत्र रक्षा करते हैं। स्त्रियाँ साक्षात् श्री हैं।
भीष्म उवाच
प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः ।
यस्याः किञ्चिन्नाददते ज्ञातयो न स विक्रयः
prācetasasya vacanaṃ kīrtayanti purāvidaḥ |
yasyāḥ kiñcinnādadate jñātayo na sa vikrayaḥ
अर्हणं तत्कुमारीणामानृशंस्यं व्रतं च तत् ।
सर्वं च प्रतिदेयं स्यात्कन्यायै तदशेषतः
arhaṇaṃ tatkumārīṇāmānṛśaṃsyaṃ vrataṃ ca tat |
sarvaṃ ca pratideyaṃ syātkanyāyai tadaśeṣataḥ
पितृभिर्भ्रातृभिश्चापि श्वशुरैरथ देवरैः ।
पूज्या लालयितव्याश्च बहुकल्याणमीप्सुभिः
pitṛbhirbhrātṛbhiścāpi śvaśurairatha devaraiḥ |
pūjyā lālayitavyāśca bahukalyāṇamīpsubhiḥ
यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत् ।
अप्रमोदात्पुनः पुंसः प्रजनो न प्रवर्धते
yadi vai strī na roceta pumāṃsaṃ na pramodayet |
apramodātpunaḥ puṃsaḥ prajano na pravardhate
पूज्या लालयितव्याश्च स्त्रियो नित्यं जनाधिप ।
स्त्रियो यत्र च पूज्यन्ते रमन्ते तत्र देवताः
pūjyā lālayitavyāśca striyo nityaṃ janādhipa |
striyo yatra ca pūjyante ramante tatra devatāḥ
अपूजिताश्च यत्रैताः सर्वास्तत्राफलाः क्रियाः ।
तदा चैतत्कुलं नास्ति यदा शोचन्ति जामयः
apūjitāśca yatraitāḥ sarvāstatrāphalāḥ kriyāḥ |
tadā caitatkulaṃ nāsti yadā śocanti jāmayaḥ
जामीशप्तानि गेहानि निकृत्तानीव कृत्यया ।
नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव
jāmīśaptāni gehāni nikṛttānīva kṛtyayā |
naiva bhānti na vardhante śriyā hīnāni pārthiva
स्त्रियः पुंसां परिददौ मनुर्जिगमिषुर्दिवम् ।
अबलाः स्वल्पकौपीनाः सुहृद सत्यजिष्णवः
striyaḥ puṃsāṃ paridadau manurjigamiṣurdivam |
abalāḥ svalpakaupīnāḥ suhṛda satyajiṣṇavaḥ
ईर्षवो मानकामाश्च चण्डाश्च सुहृदोऽबुधाः ।
स्त्रियस्तु मानमर्हन्ति ता मानयत मानवाः
īrṣavo mānakāmāśca caṇḍāśca suhṛdo'budhāḥ |
striyastu mānamarhanti tā mānayata mānavāḥ
स्त्रीप्रत्ययो हि वै धर्मो रतिभोगाश्च केवलाः ।
परिचर्या नमस्कारास्तदायत्ता भवन्तु वः
strīpratyayo hi vai dharmo ratibhogāśca kevalāḥ |
paricaryā namaskārāstadāyattā bhavantu vaḥ
उत्पादनमपत्यस्य जातस्य परिपालनम् ।
प्रीत्यर्थं लोकयात्रायाः पश्यत स्त्रीनिबन्धनम्
utpādanamapatyasya jātasya paripālanam |
prītyarthaṃ lokayātrāyāḥ paśyata strīnibandhanam
सम्मान्यमानाश्चैता हि सर्वकार्याष्यवाप्स्यथ ।
विदेहराजदुहिता चात्र श्लोकमगायत
sammānyamānāścaitā hi sarvakāryāṣyavāpsyatha |
videharājaduhitā cātra ślokamagāyata
नास्ति यज्ञः स्त्रियाः कश्चिन्न श्राद्धं नोप्रवासकम् ।
धर्मः स्वभर्तृशुश्रूषा तया स्वर्गं जयन्त्युत
nāsti yajñaḥ striyāḥ kaścinna śrāddhaṃ nopravāsakam |
dharmaḥ svabhartṛśuśrūṣā tayā svargaṃ jayantyuta
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्राश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति
pitā rakṣati kaumāre bhartā rakṣati yauvane |
putrāśca sthāvire bhāve na strī svātantryamarhati
श्रिय एताः स्त्रियो नाम सत्कार्या भूतिमिच्छता ।
लालिताऽनुगृहीता च श्रीः स्त्री भवति भारतः
śriya etāḥ striyo nāma satkāryā bhūtimicchatā |
lālitā'nugṛhītā ca śrīḥ strī bhavati bhārataḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)