अनुशासन पर्व

अध्याय 78: देवशर्मा जोड़े और छह पुरुषों का रहस्य बताते हैं

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टसप्ततितमोऽध्यायः ॥

31 श्लोक · 78 में से 274

इस अध्याय में क्या होता है

देवशर्मा जोड़े और छह पुरुषों का रहस्य बताते हैं

देवशर्मा विपुल से पूछते हैं कि वन में क्या देखा। वे बताते हैं कि वह जोड़ा दिन और रात थे, जो चक्र की तरह घूमते हैं, और छह जुआरी ऋतुएँ थीं; वे एकान्त के हर कर्म को देखते हैं, और उन्होंने याद दिलाया कि विपुल ने अपना कर्म गुरु को नहीं बताया। फिर भी विपुल ने काम-रहित मन से रक्षा की, इसलिए दोष नहीं हुआ। पत्नी को एक भाव से और पुत्री को दूसरे भाव से गले लगाते हैं; मन ही निर्णायक है। फिर देवशर्मा पत्नी और शिष्य सहित स्वर्ग गए। भीष्म कहते हैं कि मार्कण्डेय ने गंगा-तट पर यह कथा सुनाई थी। स्त्रियों की सदा रक्षा हो: साध्वी स्त्रियाँ लोकमाताएँ हैं जो पृथ्वी को धारण करती हैं, दुष्ट कुल नष्ट करती हैं। ऐसी रक्षा केवल विपुल कर सके।

भीष्म उवाच

78.1

तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत् ।
देवशर्मा महातेजा यत्तच्छृणु जनाधिप

tamāgatamabhiprekṣya śiṣyaṃ vākyamathābravīt |
devaśarmā mahātejā yattacchṛṇu janādhipa

देवशर्मोवाच

78.2

किं त्वया मिथुनं दृष्टं तस्मिञ्शिष्य महावने ।
ते त्वां जानन्ति निपुणा आत्मा च रुचिरेव च

kiṃ tvayā mithunaṃ dṛṣṭaṃ tasmiñśiṣya mahāvane |
te tvāṃ jānanti nipuṇā ātmā ca rucireva ca

विपुल उवाच

78.3

ब्रह्मर्षे मिथुनं किन्तत्के च षट्पुरुषा विभो ।
ये मां जानन्ति तत्त्वेन यन्मां त्वं परिपृच्छसि

brahmarṣe mithunaṃ kintatke ca ṣaṭpuruṣā vibho |
ye māṃ jānanti tattvena yanmāṃ tvaṃ paripṛcchasi

देवशर्मोवाच

78.4

यद्वै तन्मिथुनं ब्रह्मिन्नहोरात्रं हि विद्धि तत् ।
चक्रवत्परिवर्तेत तत्ते जानाति दुष्कृतम्

yadvai tanmithunaṃ brahminnahorātraṃ hi viddhi tat |
cakravatparivarteta tatte jānāti duṣkṛtam

78.5

ये च ते पुरुषा विप्र अक्षैर्दीव्यन्ति हृष्टवत् ।
ऋतूंस्तानभिजानीहि ते ते जानन्ति दुष्कृतम्

ye ca te puruṣā vipra akṣairdīvyanti hṛṣṭavat |
ṛtūṃstānabhijānīhi te te jānanti duṣkṛtam

78.6

न मां कश्चिद्विजानीत इति कृत्वा न विश्वसेत् ।
नरो रहसि पापात्मा पापकं कर्म वै द्विज

na māṃ kaścidvijānīta iti kṛtvā na viśvaset |
naro rahasi pāpātmā pāpakaṃ karma vai dvija

78.7

कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा ।
पश्यन्ति ऋतवश्चापि तथा दिननिशेऽप्युत

kurvāṇaṃ hi naraṃ karma pāpaṃ rahasi sarvadā |
paśyanti ṛtavaścāpi tathā dinaniśe'pyuta

78.8

तथैव हि भवेयुस्ते लोकाः पापकृतो यथा ।
कृत्वाऽनाचक्षतः कर्म मम तच्च यथा कृतम्

tathaiva hi bhaveyuste lokāḥ pāpakṛto yathā |
kṛtvā'nācakṣataḥ karma mama tacca yathā kṛtam

78.9

ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम् ।
स्मारयन्तस्तथा प्राहुस्ते यथा श्रउतवान्भवान्

te tvāṃ harṣasmitaṃ dṛṣṭvā guroḥ karmānivedakam |
smārayantastathā prāhuste yathā śrautavānbhavān

78.10

अहोरात्रं विजानाति ऋतवश्चापि नित्यशः ।
पुरुषे पापकं कर्म शुभं वाऽशुभकर्मिणः

ahorātraṃ vijānāti ṛtavaścāpi nityaśaḥ |
puruṣe pāpakaṃ karma śubhaṃ vā'śubhakarmiṇaḥ

78.11

तत्त्वया मम यत्कर्म व्यभिचाराद्भयात्मकम् ।
नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज

tattvayā mama yatkarma vyabhicārādbhayātmakam |
nākhyātamiti jānantaste tvāmāhustathā dvija

78.12

तेनैव हि भवेयुस्ते लोकाः पापकृतो यथा ।
कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम्

tenaiva hi bhaveyuste lokāḥ pāpakṛto yathā |
kṛtvā nācakṣataḥ karma mama yacca tvayā kṛtam

78.13

तथाऽशक्याश्च दुर्वृत्ता रक्षितुं प्रमदा द्विज ।
न च त्वं कृतवान्किंचिदागः प्रीतोस्मि तेन ते

tathā'śakyāśca durvṛttā rakṣituṃ pramadā dvija |
na ca tvaṃ kṛtavānkiṃcidāgaḥ prītosmi tena te

78.14

मनोदोषविहीनानां न दोषः स्यात्तथा तव ।
अन्यथाऽऽलिङ्ग्यते कान्ता स्नेहेन दुहिताऽन्यथा

manodoṣavihīnānāṃ na doṣaḥ syāttathā tava |
anyathā''liṅgyate kāntā snehena duhitā'nyathā

78.15

यतेश्च कामुकानां च योषिद्रूपेऽन्यथा मतिः ।
अशिक्षयैव मनसः प्रायो लोकस्तु वञ्च्यते

yateśca kāmukānāṃ ca yoṣidrūpe'nyathā matiḥ |
aśikṣayaiva manasaḥ prāyo lokastu vañcyate

78.16

लालेत्युद्विजते लोको वक्त्रासव इति स्पहा ।
अबन्धायोग्यमनसामिति मन्त्रात्मदैवकम्

lāletyudvijate loko vaktrāsava iti spahā |
abandhāyogyamanasāmiti mantrātmadaivakam

78.17

न रागस्नेहलोभान्धं कर्मिणां तन्महाफलम् ।
निष्कषायो विशुद्धस्त्वं रुच्यावेशान्न दूषितः

na rāgasnehalobhāndhaṃ karmiṇāṃ tanmahāphalam |
niṣkaṣāyo viśuddhastvaṃ rucyāveśānna dūṣitaḥ

78.18

यदि त्वहं त्वां दुर्वृत्तमद्राक्षं द्विजसत्तम ।
शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा

yadi tvahaṃ tvāṃ durvṛttamadrākṣaṃ dvijasattama |
śapeyaṃ tvāmahaṃ krodhānna me'trāsti vicāraṇā

78.19

सञ्जन्ति पुरुषे नार्यः पुंसां सोऽर्थश्च पुष्कलः ।
अन्यथा रक्षतः शापोऽभविष्यत्ते मतिश्च मे

sañjanti puruṣe nāryaḥ puṃsāṃ so'rthaśca puṣkalaḥ |
anyathā rakṣataḥ śāpo'bhaviṣyatte matiśca me

78.20

रक्षिता च त्वया पुत्र मम चापि निवेदिता ।
अहं ते प्रीतिमांस्तात स्वस्थः स्वर्गं गमिष्यसि

rakṣitā ca tvayā putra mama cāpi niveditā |
ahaṃ te prītimāṃstāta svasthaḥ svargaṃ gamiṣyasi

78.21

इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः ।
मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः

ityuktvā vipulaṃ prīto devaśarmā mahānṛṣiḥ |
mumoda svargamāsthāya sahabhāryaḥ saśiṣyakaḥ

78.22

इदमाख्यातवांश्चापि ममाख्यानं महामुनिः ।
मार्कण्डेयः पुरा राजन्गङ्गाकूले कथान्तरे

idamākhyātavāṃścāpi mamākhyānaṃ mahāmuniḥ |
mārkaṇḍeyaḥ purā rājangaṅgākūle kathāntare

78.23

तस्माद्ब्रवीमि पार्थ त्वां स्त्रियो रक्ष्याः सदैव च ।
उभयं दृश्यते तासु सततं साध्वसाधु च

tasmādbravīmi pārtha tvāṃ striyo rakṣyāḥ sadaiva ca |
ubhayaṃ dṛśyate tāsu satataṃ sādhvasādhu ca

78.24

स्त्रियः साध्व्यो महाभागाः सम्मता लोकमातरः ।
धारयन्ति महीं राजन्निमां सवनकाननाम्

striyaḥ sādhvyo mahābhāgāḥ sammatā lokamātaraḥ |
dhārayanti mahīṃ rājannimāṃ savanakānanām

78.25

असाध्व्यश्चापि दुर्वृत्ताः कुलघ्नाः पापनिश्चयाः ।
विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजैर्नृप

asādhvyaścāpi durvṛttāḥ kulaghnāḥ pāpaniścayāḥ |
vijñeyā lakṣaṇairduṣṭaiḥ svagātrasahajairnṛpa

78.26

एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः ।
अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः

evametāsu rakṣā vai śakyā kartuṃ mahātmabhiḥ |
anyathā rājaśārdūla na śakyā rakṣituṃ striyaḥ

78.27

एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः ।
नासामस्ति प्रियो नाम मैथुने सङ्गमेति यः

etā hi manujavyāghra tīkṣṇāstīkṣṇaparākramāḥ |
nāsāmasti priyo nāma maithune saṅgameti yaḥ

78.28

एताः कृत्याश्च कष्टाश्च कृतघ्ना भरतर्षभ ।
न चैकस्मिन्नमन्त्येताः पुरुषे पाण्डुनन्दन

etāḥ kṛtyāśca kaṣṭāśca kṛtaghnā bharatarṣabha |
na caikasminnamantyetāḥ puruṣe pāṇḍunandana

78.29

नासु स्नेहो नरैः कार्यस्तथैवेर्ष्या जनेश्वर ।
खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव ह ।
अनृताविह पर्वादिदोषवर्जं नराधिप

nāsu sneho naraiḥ kāryastathaiverṣyā janeśvara |
khedamāsthāya bhuñjīta dharmamāsthāya caiva ha |
anṛtāviha parvādidoṣavarjaṃ narādhipa

78.30

विहन्येतान्यथा कुर्वन्नरः कौरवनन्दन ।
सर्वथा राजशार्दूल युक्तः सर्वत्र युज्यते

vihanyetānyathā kurvannaraḥ kauravanandana |
sarvathā rājaśārdūla yuktaḥ sarvatra yujyate

78.31

तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः ।
नान्यः शक्तस्त्रिलोकेऽस्मिन्रक्षितुं नृप योषितः

tenaikena tu rakṣā vai vipulena kṛtā striyāḥ |
nānyaḥ śaktastriloke'sminrakṣituṃ nṛpa yoṣitaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)