अनुशासन पर्व

अध्याय 77: विपुल दिव्य पुष्प लाते हैं और शाप सुनते हैं

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तसप्ततितमोऽध्यायः ॥

33 श्लोक · 77 में से 274

इस अध्याय में क्या होता है

विपुल दिव्य पुष्प लाते हैं और शाप सुनते हैं

कठोर तप के बाद विपुल ने माना कि उन्होंने दोनों लोक जीत लिए हैं। कुछ समय बाद आकाश से जाती एक दिव्य स्त्री से सुगन्धित पुष्प आश्रम के पास गिरे। रुचि उन्हें केशों में लगाकर चम्पा में बड़ी बहन प्रभावती के उत्सव में गईं, जो अंगराज चित्ररथ की रानी थीं। प्रभावती ने वैसे पुष्प माँगे, और देवशर्मा ने विपुल को भेजा। लौटते समय सूने वन में विपुल ने एक स्त्री-पुरुष को हाथ पकड़े चक्र की तरह घूमते देखा। झगड़ते हुए उन्होंने शपथ ली कि झूठा वहीं जाए जहाँ मरकर विपुल जाएँगे। सोने-चाँदी के पासों से जुआ खेलते छह पुरुषों ने भी वही शपथ ली। व्याकुल विपुल ने अपना जीवन टटोला और एक दोष पाया: रुचि की रक्षा का ढंग उन्होंने गुरु को नहीं बताया था।

भीष्म उवाच

77.1

विपुलस्त्वकरोत्तीव्रं तपः कृत्वा गुरोर्वचः ।
तपोयुक्तमथात्मानममन्यत स वीर्यवान्

vipulastvakarottīvraṃ tapaḥ kṛtvā gurorvacaḥ |
tapoyuktamathātmānamamanyata sa vīryavān

77.2

स तेन कर्मणा स्वर्गं पृथिवीं पृथिवीपते ।
चचार गतभीः प्रीतो लब्धकीर्तिवरो नृप

sa tena karmaṇā svargaṃ pṛthivīṃ pṛthivīpate |
cacāra gatabhīḥ prīto labdhakīrtivaro nṛpa

77.3

उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः ।
कर्मणा तेन कौरव्य तपसा विपुलेन च

ubhau lokau jitau cāpi tathaivāmanyata prabhuḥ |
karmaṇā tena kauravya tapasā vipulena ca

77.4

अथ काले व्यतिक्रान्ते कस्मिंश्चित्कुरुनन्दन ।
रुच्या भगिन्या आदानं प्रभूतदनधान्यवत्

atha kāle vyatikrānte kasmiṃścitkurunandana |
rucyā bhaginyā ādānaṃ prabhūtadanadhānyavat

77.5

एतस्मिन्नेव काले तु दिव्या काचिद्वराङ्गना ।
बिभ्रती परमं रूपं जगामाथ विहायसा

etasminneva kāle tu divyā kācidvarāṅganā |
bibhratī paramaṃ rūpaṃ jagāmātha vihāyasā

77.6

तस्याः शरीरात्पुष्पाणि पतितानि महीतले ।
तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत

tasyāḥ śarīrātpuṣpāṇi patitāni mahītale |
tasyāśramasyāvidūre divyagandhāni bhārata

77.7

तान्यगृह्णात्ततो राजन्रुचिर्ललितलोचना ।
तदा निमन्त्रकस्तस्या अङ्गेभ्यः क्षिप्रमागमत्

tānyagṛhṇāttato rājanrucirlalitalocanā |
tadā nimantrakastasyā aṅgebhyaḥ kṣipramāgamat

77.8

तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती ।
भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै

tasyā hi bhaginī tāta jyeṣṭhā nāmnā prabhāvatī |
bhāryā citrarathasyātha babhūvāṅgeśvarasya vai

77.9

पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी ।
आमन्त्रिता ततोऽगच्छद्रुचिरङ्गपतेर्गृहम्

pinahya tāni puṣpāṇi keśeṣu varavarṇinī |
āmantritā tato'gacchadruciraṅgapatergṛham

77.10

पुष्पाणि तानि दृष्ट्वा तु तदाङ्गेन्द्रवराङ्गना ।
भगिनीं चोदयामास पुष्पार्थे चारुलोचना

puṣpāṇi tāni dṛṣṭvā tu tadāṅgendravarāṅganā |
bhaginīṃ codayāmāsa puṣpārthe cārulocanā

77.11

सा भर्त्रे सर्वमाचष्ट रुचिः सुरुचिरानना ।
भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत

sā bhartre sarvamācaṣṭa ruciḥ surucirānanā |
bhaginyā bhāṣitaṃ sarvamṛṣistaccābhyanandata

77.12

ततो विपुलमानाय्य देवशर्मा महातपाः ।
पुष्पार्थे चोदयामास गच्छगच्छेति भारत

tato vipulamānāyya devaśarmā mahātapāḥ |
puṣpārthe codayāmāsa gacchagaccheti bhārata

77.13

विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः ।
स तथेत्यब्रवीद्राजंस्तं च देशं जगाम ह

vipulastu gurorvākyamavicārya mahātapāḥ |
sa tathetyabravīdrājaṃstaṃ ca deśaṃ jagāma ha

77.14

यस्मिन्देशे तु तान्यासन्पतितानि नभस्तलात् ।
अम्लानान्यपि तत्रासन्कुसुमान्यपराण्यपि

yasmindeśe tu tānyāsanpatitāni nabhastalāt |
amlānānyapi tatrāsankusumānyaparāṇyapi

77.15

स ततस्तानि जग्राह दिव्यानि रुचिराणि च ।
प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत

sa tatastāni jagrāha divyāni rucirāṇi ca |
prāptāni svena tapasā divyagandhāni bhārata

77.16

सम्प्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः ।
तदा जगाम तूर्णं च चम्पां चम्पकमालिनीम्

samprāpya tāni prītātmā gurorvacanakārakaḥ |
tadā jagāma tūrṇaṃ ca campāṃ campakamālinīm

77.17

स वने निर्जने तात ददर्श मिथुनं नृणाम् ।
चक्रवत्परिवर्तन्तं गृहीत्वा पाणिना करम्

sa vane nirjane tāta dadarśa mithunaṃ nṛṇām |
cakravatparivartantaṃ gṛhītvā pāṇinā karam

77.18

तत्रैकस्तूर्णमगमत्तत्पदे च विवर्तयन् ।
एकस्तु न तदा राजंश्चक्रतुः कलहं ततः

tatraikastūrṇamagamattatpade ca vivartayan |
ekastu na tadā rājaṃścakratuḥ kalahaṃ tataḥ

77.19

त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नेति तथाऽपरः ।
पतितेति च तौ राजन्परस्परमथोचतुः

tvaṃ śīghraṃ gacchasītyeko'bravīnneti tathā'paraḥ |
patiteti ca tau rājanparasparamathocatuḥ

77.20

तयोर्विस्पर्धतोरेवं शपथोऽयमभूत्तदा ।
सहसोद्दिश्य विपुलं ततो वाक्यमथोचतुः

tayorvispardhatorevaṃ śapatho'yamabhūttadā |
sahasoddiśya vipulaṃ tato vākyamathocatuḥ

77.21

आवयोरनृतं प्राह यस्तस्याभूद्द्विजस्य वै ।
विपुलस्य परे लोके या गतिः सा भवेदिति

āvayoranṛtaṃ prāha yastasyābhūddvijasya vai |
vipulasya pare loke yā gatiḥ sā bhavediti

77.22

एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽभवत् ।
एवं तीव्रतपाश्चाहं कष्टश्चायं परिश्रमः

etacchrutvā tu vipulo viṣaṇṇavadano'bhavat |
evaṃ tīvratapāścāhaṃ kaṣṭaścāyaṃ pariśramaḥ

77.23

मिथुनस्यास्य किं मे स्यात्कृतं पापं यथा गतिः ।
अनिष्टा सर्वभूतानां कीर्तिताऽनेन मेऽद्य वै

mithunasyāsya kiṃ me syātkṛtaṃ pāpaṃ yathā gatiḥ |
aniṣṭā sarvabhūtānāṃ kīrtitā'nena me'dya vai

77.24

एवं सञ्चिन्तयन्नेव विपुलो राजसत्तम ।
अवाङ्मुखो दीनमना दध्यौ दुष्कृतमात्मनः

evaṃ sañcintayanneva vipulo rājasattama |
avāṅmukho dīnamanā dadhyau duṣkṛtamātmanaḥ

77.25

ततः षडन्यान्पुरुषानक्षैः काञ्चनराजतैः ।
अपश्यद्दीव्यमानान्वै लोभामर्षान्वितांस्तथा

tataḥ ṣaḍanyānpuruṣānakṣaiḥ kāñcanarājataiḥ |
apaśyaddīvyamānānvai lobhāmarṣānvitāṃstathā

77.26

कुर्वतः शपथं तेन यः कृतो मिथुनेन तु ।
विपुलं वै समुद्दिश्य तेपि वाक्यमथाब्रुवन्

kurvataḥ śapathaṃ tena yaḥ kṛto mithunena tu |
vipulaṃ vai samuddiśya tepi vākyamathābruvan

77.27

लोभमास्थाय योऽस्माकं विषमं कर्तुमुत्सहेत् ।
विपुलस्य परे लोके या गतिस्तामवाप्नुयात् ।

lobhamāsthāya yo'smākaṃ viṣamaṃ kartumutsahet |
vipulasya pare loke yā gatistāmavāpnuyāt |

77.28

एतच्छ्रुत्वा तु विपुलो नापश्यद्धर्मसङ्करम् ॥
जन्मप्रभृति कौरव्य कृतपूर्वमथात्मनः

etacchrutvā tu vipulo nāpaśyaddharmasaṅkaram ||
janmaprabhṛti kauravya kṛtapūrvamathātmanaḥ

77.29

स प्रदध्यौ तथा राजन्नग्नावग्निरिवाहितः ।
दह्यमानेन मनसा शापं श्रुत्वा तथाविधम्

sa pradadhyau tathā rājannagnāvagnirivāhitaḥ |
dahyamānena manasā śāpaṃ śrutvā tathāvidham

77.30

तस्य चिन्तयतस्तात बह्वीर्वाचो निशम्य तु ।
इदमासीन्मनसि च रुच्या रक्षणकारितम्

tasya cintayatastāta bahvīrvāco niśamya tu |
idamāsīnmanasi ca rucyā rakṣaṇakāritam

77.31

लक्षणं लक्षणेनैव वदनं वदनेन च ।
विधाय न मया चोक्तं सत्यमेतद्गुरोस्तथा

lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca |
vidhāya na mayā coktaṃ satyametadgurostathā

77.32

एतदात्मनि कौरव्य दुष्कृतं विपुलस्तदा ।
अमन्यत महाभाग तथा तच्च न संशयः

etadātmani kauravya duṣkṛtaṃ vipulastadā |
amanyata mahābhāga tathā tacca na saṃśayaḥ

77.33

स चम्पां नगरीमेत्य पुष्पाणि गुरवे ददौ ।
पूजयामास च गुरुं विधिवत्स गुरुप्रियः

sa campāṃ nagarīmetya puṣpāṇi gurave dadau |
pūjayāmāsa ca guruṃ vidhivatsa gurupriyaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)