इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः ।
मोहेन परमाविष्टा देवदृष्टेन कर्मणा
ime vai mānavā loke strīṣu sajjantyabhīkṣṇaśaḥ |
mohena paramāviṣṭā devadṛṣṭena karmaṇā
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःसप्ततितमोऽध्यायः ॥
17 श्लोक · 74 में से 274
युधिष्ठिर कहते हैं कि पुरुष स्त्रियों में और स्त्रियाँ पुरुषों में दैव से रचे मोह के कारण आसक्त रहते हैं, और उनके मन में तीव्र संशय है कि जो स्त्रियाँ अनुरक्त होकर फिर विरक्त हो जाती हैं, उनकी रक्षा कैसे हो। इस छोटे अंश का उत्तर स्त्रियों को नई घास खोजती गायों के समान बताता है, और कहता है कि शम्बर, नमुचि, बलि और कुम्भीनसि असुरों की सारी माया स्त्रियाँ जानती हैं। वे हँसने वाले के साथ हँसती और रोने वाले के साथ रोती हैं। हज़ार जीभों वाला सौ वर्ष जीकर भी उनके दोष पूरे न कह सके, और उशना तथा बृहस्पति के शास्त्र भी उनकी बुद्धि से बढ़कर नहीं। अन्त में प्रश्न फिर आता है कि क्या उनकी रक्षा सम्भव है। यहाँ वक्ता-चिह्न कुछ उलझे हुए हैं।
युधिष्ठिर उवाच
इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः ।
मोहेन परमाविष्टा देवदृष्टेन कर्मणा
ime vai mānavā loke strīṣu sajjantyabhīkṣṇaśaḥ |
mohena paramāviṣṭā devadṛṣṭena karmaṇā
स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम् ।
अत्र मे संशयस्तीव्रो हृदि सम्परिवर्तते
striyaśca puruṣeṣveva pratyakṣaṃ lokasākṣikam |
atra me saṃśayastīvro hṛdi samparivartate
कथमासां नराः सङ्गं कुर्वते कुरुनन्दनः ।
स्त्रियो वातेषु रज्यन्ते विरज्यन्ते च ताः पुनः
kathamāsāṃ narāḥ saṅgaṃ kurvate kurunandanaḥ |
striyo vāteṣu rajyante virajyante ca tāḥ punaḥ
इति ताः पुरुषव्याघ्र कथं शक्यास्तु रक्षितुम् ।
प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि
iti tāḥ puruṣavyāghra kathaṃ śakyāstu rakṣitum |
pramadāḥ puruṣeṇeha tanme vyākhyātumarhasi
भीष्म उवाच
एत्वा हि स्वीयमायाभिर्वञ्चयन्तीह मानवान् ।
न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः
etvā hi svīyamāyābhirvañcayantīha mānavān |
na cāsāṃ mucyate kaścitpuruṣo hastamāgataḥ
गावो नवतृणानीव गृह्णन्त्येता नवन्नवम्
gāvo navatṛṇānīva gṛhṇantyetā navannavam
शम्बरस्य च या माया माया या नमुचेरपि ।
बलेः कुम्भीनसेश्चैव सर्वास्तां योषितो विदुः
śambarasya ca yā māyā māyā yā namucerapi |
baleḥ kumbhīnaseścaiva sarvāstāṃ yoṣito viduḥ
हसन्तं प्रहसन्त्येता रुद्रन्तं प्ररुदन्ति च ।
अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः
hasantaṃ prahasantyetā rudrantaṃ prarudanti ca |
apriyaṃ priyavākyaiśca gṛhṇate kālayogataḥ
यदि जिह्वासहस्रं स्याज्जीवेच्च शरदां शतम् ।
अनन्यकर्मा स्त्रीदोषाननुक्त्वा निधनं व्रजेत्
yadi jihvāsahasraṃ syājjīvecca śaradāṃ śatam |
ananyakarmā strīdoṣānanuktvā nidhanaṃ vrajet
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ।
स्त्री बुद्ध्या न विशिष्येत तास्तु रक्ष्याः कथं नरैः
uśanā veda yacchāstraṃ yacca veda bṛhaspatiḥ |
strī buddhyā na viśiṣyeta tāstu rakṣyāḥ kathaṃ naraiḥ
अनृतं सत्यमित्याहुः सत्यं चापि तथाऽनृतम् ।
इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ।
दोषास्पदेऽशुचौ देहे ह्यासां सक्तास्त्वहो नराः
anṛtaṃ satyamityāhuḥ satyaṃ cāpi tathā'nṛtam |
iti yāstāḥ kathaṃ vīra saṃrakṣyāḥ puruṣairiha |
doṣāspade'śucau dehe hyāsāṃ saktāstvaho narāḥ
स्त्रीणां बुद्ध्यर्थनिष्कर्षादर्थशास्त्राणि शत्रुहन् ।
बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै
strīṇāṃ buddhyarthaniṣkarṣādarthaśāstrāṇi śatruhan |
bṛhaspatiprabhṛtibhirmanye sadbhiḥ kṛtāni vai
संपूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु ।
अपास्ताश्च तथा राजन्विकुर्वन्ति मनः स्त्रियः
saṃpūjyamānāḥ puruṣairvikurvanti mano nṛṣu |
apāstāśca tathā rājanvikurvanti manaḥ striyaḥ
इमाः प्रजा महापाहो धार्मिक्य इति नः श्रुतम्
imāḥ prajā mahāpāho dhārmikya iti naḥ śrutam
सत्कृतासत्कृताश्चापि विकुर्वन्ति मनः सदा ।
कस्ताः शक्तो रक्षितुं स्यादिति मे संशयो महान्
satkṛtāsatkṛtāścāpi vikurvanti manaḥ sadā |
kastāḥ śakto rakṣituṃ syāditi me saṃśayo mahān
तथा ब्रूहि महाभाग कुरूणां वंशवर्धन ।
यदि शक्या कुरुश्रेष्ठ रक्षा तासां कदाचन ।
tathā brūhi mahābhāga kurūṇāṃ vaṃśavardhana |
yadi śakyā kuruśreṣṭha rakṣā tāsāṃ kadācana |
कर्तुं वा कृतपूर्वं वा तन्मे व्याख्यातुमर्हसि
kartuṃ vā kṛtapūrvaṃ vā tanme vyākhyātumarhasi
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)