किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम् ।
ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाऽप्यलिङ्गिनम्
kimāhurbharataśreṣṭha pātraṃ viprāḥ sanātanam |
brāhmaṇaṃ liṅginaṃ caiva brāhmaṇaṃ vā'pyaliṅginam
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षष्टितमोऽध्यायः ॥
41 श्लोक · 60 में से 274
युधिष्ठिर पूछते हैं कि दान का सच्चा पात्र कौन है। भीष्म कहते हैं कि अपनी वृत्ति पर चलने वाला ब्राह्मण सुपात्र है, चिह्नधारी हो या नहीं, और परम श्रद्धा से दिया दान उद्दण्ड दाता को भी पवित्र करता है। देवकार्य में ब्राह्मण की परीक्षा नहीं की जाती, पितृकार्य में की जाती है। सुपात्र कुलीन, कर्मनिष्ठ, विद्वान, दयालु, लज्जाशील, सरल और सत्यवादी होता है। चार वचन हैं: पृथ्वी कहती हैं कि वेदनिष्ठ के दोष समुद्र में फेंकी वस्तु की तरह डूब जाते हैं; कश्यप कहते हैं कि शील के बिना वेद और कुल रक्षा नहीं करते; अग्नि विद्या से दूसरों का यश नष्ट करने वाले को धिक्कारते हैं; मार्कण्डेय कहते हैं कि हजार अश्वमेध सत्य के आधे भार के बराबर भी नहीं। एक सुपात्र ब्राह्मण पूरे कुल को तार देता है।
युधिष्ठिर उवाच
किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम् ।
ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाऽप्यलिङ्गिनम्
kimāhurbharataśreṣṭha pātraṃ viprāḥ sanātanam |
brāhmaṇaṃ liṅginaṃ caiva brāhmaṇaṃ vā'pyaliṅginam
भीष्म उवाच
स्ववृत्तिमभिपन्नाय लिङ्गिने चेतराय च ।
देयमाहुर्महाराज उभावेतौ तपस्विनौ
svavṛttimabhipannāya liṅgine cetarāya ca |
deyamāhurmahārāja ubhāvetau tapasvinau
युधिष्ठिर उवाच
श्रद्धया परयाऽपूतो यः प्रयच्छेद्द्विजातये ।
हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह
śraddhayā parayā'pūto yaḥ prayaccheddvijātaye |
havyaṃ kavyaṃ tathā dānaṃ ko doṣaḥ syātpitāmaha
भीष्म उवाच
श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः ।
पूतो भवति सर्वत्र किमुत त्वं महाद्युते
śraddhāpūto narastāta durdānto'pi na saṃśayaḥ |
pūto bhavati sarvatra kimuta tvaṃ mahādyute
युधिष्ठिर उवाच
न ब्राह्मणं परिक्षेत दैवेषु सततं नरः ।
कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः
na brāhmaṇaṃ parikṣeta daiveṣu satataṃ naraḥ |
kavyapradāne tu budhāḥ parīkṣyaṃ brāhmaṇaṃ viduḥ
भीष्म उवाच
न ब्राह्मणः साधयते हव्यं दैवात्प्रसिद्ध्यति ।
देवप्रसादादिज्यन्ते यजमानैर्न संशयः
na brāhmaṇaḥ sādhayate havyaṃ daivātprasiddhyati |
devaprasādādijyante yajamānairna saṃśayaḥ
ब्राह्मणान्भरतश्रेष्ठ सततं ब्रह्मवादिनः ।
मार्कण्डेयः पुरा प्राह इति लोकेषु बुद्धिमान् ।
ब्राह्मणाः पात्रभूताश्च शुद्धा नैवं पितृष्विह
brāhmaṇānbharataśreṣṭha satataṃ brahmavādinaḥ |
mārkaṇḍeyaḥ purā prāha iti lokeṣu buddhimān |
brāhmaṇāḥ pātrabhūtāśca śuddhā naivaṃ pitṛṣviha
युधिष्ठिर उवाच
अपर्वोऽप्यथवा विद्वान्सम्बन्धी वा यथा भवेत् ।
तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः
aparvo'pyathavā vidvānsambandhī vā yathā bhavet |
tapasvī yajñaśīlo vā kathaṃ pātraṃ bhavettu saḥ
भीष्म उवाच
कुलीनः कर्मकृद्वैद्यस्तथैवाप्यनृशंस्यवान् ।
ह्रीमानृजुः सत्यवादी पात्रं पूर्वे च ये त्रयः
kulīnaḥ karmakṛdvaidyastathaivāpyanṛśaṃsyavān |
hrīmānṛjuḥ satyavādī pātraṃ pūrve ca ye trayaḥ
तत्रेमं शृणु मे पार्थ चतुर्णां तेजसां मतम् ।
पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि
tatremaṃ śṛṇu me pārtha caturṇāṃ tejasāṃ matam |
pṛthivyāḥ kāśyapasyāgnermārkaṇḍeyasya caiva hi
पृथिव्युवाच ।
यथा महार्णवे क्षिप्तः क्षिप्रं नेष्टुर्विनश्यति ।
तथा दुश्चरितं सर्वं त्रयीनित्ये निमज्जति
pṛthivyuvāca |
yathā mahārṇave kṣiptaḥ kṣipraṃ neṣṭurvinaśyati |
tathā duścaritaṃ sarvaṃ trayīnitye nimajjati
काश्यप उवाच
सर्वे च वेदाः सह षङ्भिरङ्गैः
साङ्ख्यं पुराणं च कुले च जन्म ।
नैतानि सर्वाणि गतिर्भवन्ति
शीलव्यपेतस्य नृप द्विजस्य
sarve ca vedāḥ saha ṣaṅbhiraṅgaiḥ
sāṅkhyaṃ purāṇaṃ ca kule ca janma |
naitāni sarvāṇi gatirbhavanti
śīlavyapetasya nṛpa dvijasya
अग्निरुवाच
अधीयानः पण्डितम्मन्यमानो
यो विद्यया हन्ति यशः परेषाम् ।
ब्रह्मन्स तेन लभते ब्रह्मवध्यां
लोकास्तस्य ह्यन्तवन्तो भवन्ति
adhīyānaḥ paṇḍitammanyamāno
yo vidyayā hanti yaśaḥ pareṣām |
brahmansa tena labhate brahmavadhyāṃ
lokāstasya hyantavanto bhavanti
मार्कण्डेय उवाच
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
नाभिजानामि यज्ञं तु सत्यस्यार्धमवाप्नुयात्
aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam |
nābhijānāmi yajñaṃ tu satyasyārdhamavāpnuyāt
भीष्म उवाच
इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः ।
पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः
ityuktvā te jagmurāśu catvāro'mitatejasaḥ |
pṛthivī kāśyapo'gniśca prakṛṣṭāyuśca bhārgavaḥ
युधिष्ठिर उवाच
यदि ते ब्राह्मणा लोके व्रतिनो भुञ्जते हविः ।
दत्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत्
yadi te brāhmaṇā loke vratino bhuñjate haviḥ |
dattaṃ brāhmaṇakāmāya kathaṃ tatsukṛtaṃ bhavet
भीष्म उवाच
आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः ।
भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते
ādiṣṭino ye rājendra brāhmaṇā vedapāragāḥ |
bhuñjate brahmakāmāya vrataluptā bhavanti te
युधिष्ठिर उवाच
अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः ।
किं निमित्तं भवेदत्र तन्मे ब्रूहि पितामह
anekāntaṃ bahudvāraṃ dharmamāhurmanīṣiṇaḥ |
kiṃ nimittaṃ bhavedatra tanme brūhi pitāmaha
भीष्म उवाच
अहिंसा सत्यमकोध आनृशंस्यं दमस्तथा ।
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम्
ahiṃsā satyamakodha ānṛśaṃsyaṃ damastathā |
ārjavaṃ caiva rājendra niścitaṃ dharmalakṣaṇam
ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम् ।
अनाचरन्तस्तद्धर्म सङ्करेऽभिरता प्रभो
ye tu dharmaṃ praśaṃsantaścaranti pṛthivīmimām |
anācarantastaddharma saṅkare'bhiratā prabho
तेभ्यो हिरण्यं रत्नं वा गामश्वं वा ददाति यः ।
दशवर्षाणि विष्ठां स भुङ्क्ते निरयमास्थितः
tebhyo hiraṇyaṃ ratnaṃ vā gāmaśvaṃ vā dadāti yaḥ |
daśavarṣāṇi viṣṭhāṃ sa bhuṅkte nirayamāsthitaḥ
धनेन पुल्कसानां च तथैवान्तेवसायिनाम् ।
कृतं कर्माकृतं वाऽपि रागमोहेन जल्पताम्
dhanena pulkasānāṃ ca tathaivāntevasāyinām |
kṛtaṃ karmākṛtaṃ vā'pi rāgamohena jalpatām
वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे ।
न ददन्तीह राजेन्द्र ते लोकान्भुञ्जतेऽशुभान्
vaiśvadevaṃ ca ye mūḍhā viprāya brahmacāriṇe |
na dadantīha rājendra te lokānbhuñjate'śubhān
युधिष्ठिर उवाच
किं परं ब्रह्मचर्यं च किं परं धर्मलक्षणम् ।
किञ्च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह
kiṃ paraṃ brahmacaryaṃ ca kiṃ paraṃ dharmalakṣaṇam |
kiñca śreṣṭhatamaṃ śaucaṃ tanme brūhi pitāmaha
भीष्म उवाच
ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम् ।
मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम्
brahmacaryaṃ paraṃ tāta madhumāṃsasya varjanam |
maryādāyāṃ sthito dharmaḥ śamaḥ śaucasya lakṣaṇam
युधिष्ठिर उवाच
कस्मिन्काले चरेद्धर्म कस्मिन्कालेऽर्थमाचरेत् ।
कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह
kasminkāle careddharma kasminkāle'rthamācaret |
kasminkāle sukhī ca syāttanme brūhi pitāmaha
भीष्म उवाच
काल्यमर्थं निषेवेत ततो धर्ममनन्तरम् ।
पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम्
kālyamarthaṃ niṣeveta tato dharmamanantaram |
paścātkāmaṃ niṣeveta na ca gacchetprasaṅgitām
ब्राह्मणांश्चैव मन्येत गुरूंश्चाप्यभिपूजयेत् ।
सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः
brāhmaṇāṃścaiva manyeta gurūṃścāpyabhipūjayet |
sarvabhūtānulomaśca mṛduśīlaḥ priyaṃvadaḥ
अधिकारे यदनृतं यच्च राजसु पैशुनम् ।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया
adhikāre yadanṛtaṃ yacca rājasu paiśunam |
guroścālīkanirbandhaḥ samāni brahmahatyayā
प्रहरेन्न नरेन्द्रेषु न हन्याद्गां तथैव च ।
भ्रूणहत्यासमं चैतदुभयं ये निषेधते
praharenna narendreṣu na hanyādgāṃ tathaiva ca |
bhrūṇahatyāsamaṃ caitadubhayaṃ ye niṣedhate
नाग्निं परित्यजेज्जातु न च वेदान्परित्यजेत् ।
न च ब्राह्मणमाक्रोशेत्समं तद्ब्रह्महत्यया
nāgniṃ parityajejjātu na ca vedānparityajet |
na ca brāhmaṇamākrośetsamaṃ tadbrahmahatyayā
युधिष्ठिर उवाच
कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम् ।
कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह
kīdṛśāḥ sādhavo viprāḥ kebhyo dattaṃ mahāphalam |
kīdṛśānāṃ ca bhoktavyaṃ tanme brūhi pitāmaha
भीष्म उवाच
अक्रोधना धर्मपराः सत्यनित्या दमे रताः ।
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम्
akrodhanā dharmaparāḥ satyanityā dame ratāḥ |
tādṛśāḥ sādhavo viprāstebhyo dattaṃ mahāphalam
अमानिनः सर्वसहा दृढार्था विजितेन्द्रियाः ।
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम्
amāninaḥ sarvasahā dṛḍhārthā vijitendriyāḥ |
sarvabhūtahitā maitrāstebhyo dattaṃ mahāphalam
अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः ।
स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम्
alubdhāḥ śucayo vaidyā hrīmantaḥ satyavādinaḥ |
svakarmaniratā ye ca tebhyo dattaṃ mahāphalam
साङ्गांश्च चतुरो वेदानधीते यो द्विजर्षभः ।
षड्भ्यः प्रवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः
sāṅgāṃśca caturo vedānadhīte yo dvijarṣabhaḥ |
ṣaḍbhyaḥ pravṛttaḥ karmabhyastaṃ pātramṛṣayo viduḥ
ये त्वेवंगुणजातीयास्तेभ्यो दत्तं महाफलम् ।
सहस्रगुणमाप्नोति गुणार्हाय प्रदायकः
ye tvevaṃguṇajātīyāstebhyo dattaṃ mahāphalam |
sahasraguṇamāpnoti guṇārhāya pradāyakaḥ
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः ।
तारयेत कुलं सर्वमेकोऽपीह द्विजर्षभः ।
तृप्ते तृप्ताः सर्वदेवाः पितरो मुनयोपि च
prajñāśrutābhyāṃ vṛttena śīlena ca samanvitaḥ |
tārayeta kulaṃ sarvameko'pīha dvijarṣabhaḥ |
tṛpte tṛptāḥ sarvadevāḥ pitaro munayopi ca
गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत् ।
द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति
gāmaśvaṃ vittamannaṃ vā tadvidhe pratipādayet |
dravyāṇi cānyāni tathā pretyabhāve na śocati
तारयेत कुलं सर्वमेकोपि ह द्विजोत्तमः ।
किमङ्ग पुनरेवैते तस्मात्पात्रं समाचरेत्
tārayeta kulaṃ sarvamekopi ha dvijottamaḥ |
kimaṅga punarevaite tasmātpātraṃ samācaret
निशाम्य च गुणोपेतं ब्राह्मणं साधुसम्मतम् ।
दूरादानाय्य सत्कृत्य सर्वतश्चापि पूजयेत्
niśāmya ca guṇopetaṃ brāhmaṇaṃ sādhusammatam |
dūrādānāyya satkṛtya sarvataścāpi pūjayet
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)