श्राद्धकाले च दैवे च पित्र्येऽपि च पितामह ।
इच्छामीह त्वयाऽऽख्यातं विहितं यत्सुरर्षिभिः
śrāddhakāle ca daive ca pitrye'pi ca pitāmaha |
icchāmīha tvayā''khyātaṃ vihitaṃ yatsurarṣibhiḥ
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकषष्टितमोऽध्यायः ॥
57 श्लोक · 61 में से 274
युधिष्ठिर देवकार्य और पितृकार्य के नियम पूछते हैं। भीष्म कहते हैं कि देवकार्य पूर्वाह्न में, पितृकार्य अपराह्न में और मनुष्यों को दान मध्याह्न में हो। समय से बाहर दिया, लाँघा गया, चाटा गया, कुत्ते से छुआ, बाल या कीड़े गिरा, ओंकार या मन्त्र बिना परोसा भाग राक्षसों को जाता है। वे श्राद्ध में न बुलाए जाने योग्य लोग गिनाते हैं: पतित और उन्मत्त; कुष्ठ, क्षय, मिर्गी या अन्धेपन वाले; वैद्य, वेतन पर देवालय सेवक, सोम बेचने वाले, गायक, नर्तक, सूदखोर और अन्य। योग्य अतिथि व्रती, सावित्री के ज्ञाता और कर्मनिष्ठ होते हैं, चाहे खेती करें। दिन के तीन-तीन मुहूर्त के पाँच भाग हैं और श्राद्ध चौथे भाग अपराह्न में होता है। अन्त में श्राद्ध में बोले जाने वाले वचन और हर वर्ण की मेखला तथा दण्ड बताते हैं।
युधिष्ठिर उवाच
श्राद्धकाले च दैवे च पित्र्येऽपि च पितामह ।
इच्छामीह त्वयाऽऽख्यातं विहितं यत्सुरर्षिभिः
śrāddhakāle ca daive ca pitrye'pi ca pitāmaha |
icchāmīha tvayā''khyātaṃ vihitaṃ yatsurarṣibhiḥ
भीष्म उवाच
दैवं पौर्वाह्णिके कुर्यादपराह्णे तु पैतृकम् ।
मङ्गलाचारसम्पन्नः कृतशौचः प्रयत्नवान्
daivaṃ paurvāhṇike kuryādaparāhṇe tu paitṛkam |
maṅgalācārasampannaḥ kṛtaśaucaḥ prayatnavān
मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तिभिः ।
कालहीनं तु यद्दानं तं भागं रक्षसां विदुः
manuṣyāṇāṃ tu madhyāhne pradadyādupapattibhiḥ |
kālahīnaṃ tu yaddānaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ
लङ्घितं चावलीढं च लाकपूर्वं च यत्कृतम् ।
रजस्वलाभिदृष्टं च तं भागं रक्षसां विदुः
laṅghitaṃ cāvalīḍhaṃ ca lākapūrvaṃ ca yatkṛtam |
rajasvalābhidṛṣṭaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ
अवघुष्टं च यद्भुक्तमव्रतेन च भारत ।
परामृष्टं शुना चैव तं भागं रक्षसां विदुः
avaghuṣṭaṃ ca yadbhuktamavratena ca bhārata |
parāmṛṣṭaṃ śunā caiva taṃ bhāgaṃ rakṣasāṃ viduḥ
केशकीटावपतितं क्षुतं श्वभिरवेक्षितम् ।
रुदितं चावधूतं च तं भागं रक्षसां विदुः
keśakīṭāvapatitaṃ kṣutaṃ śvabhiravekṣitam |
ruditaṃ cāvadhūtaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ
निरोङ्कारेण यद्भुक्तं सशस्त्रेण च भारत ।
दुरात्मना च यद्भुक्तं तं भागं रक्षसां विदुः
niroṅkāreṇa yadbhuktaṃ saśastreṇa ca bhārata |
durātmanā ca yadbhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ
परोच्छिष्टं च यद्भुक्तं परिभुक्तं च यद्भवेत् ।
दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः
parocchiṣṭaṃ ca yadbhuktaṃ paribhuktaṃ ca yadbhavet |
daive pitrye ca satataṃ taṃ bhāgaṃ rakṣasāṃ viduḥ
मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते ।
त्रिभिर्वर्णैर्नरश्रेष्ठ तं भागं रक्षसां विदुः
mantrahīnaṃ kriyāhīnaṃ yacchrāddhaṃ pariviṣyate |
tribhirvarṇairnaraśreṣṭha taṃ bhāgaṃ rakṣasāṃ viduḥ
आज्याहुतिं विना चैव यत्किञ्चित्परिविष्यते ।
दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः
ājyāhutiṃ vinā caiva yatkiñcitpariviṣyate |
durācāraiśca yadbhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ
ये भागा रक्षसां प्राप्तास्त उक्ता भरतर्षभ ।
अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु
ye bhāgā rakṣasāṃ prāptāsta uktā bharatarṣabha |
ata ūrdhvaṃ visargasya parīkṣāṃ brāhmaṇe śṛṇu
यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च ।
दैवे वाऽप्यथ पित्र्ये वा राजन्नार्हन्ति केतनम्
yāvantaḥ patitā viprā jaḍonmattāstathaiva ca |
daive vā'pyatha pitrye vā rājannārhanti ketanam
श्वित्री क्लीबश्च कुष्ठी च तता यक्ष्महतश्च यः ।
अपस्मारी च यश्चान्धो राजन्नार्हन्ति केतनम्
śvitrī klībaśca kuṣṭhī ca tatā yakṣmahataśca yaḥ |
apasmārī ca yaścāndho rājannārhanti ketanam
चिकित्सका देवलका वृथा नियमधारिणः ।
सोमविक्रयिणश्चैव श्राद्धे नार्हन्ति केतनम्
cikitsakā devalakā vṛthā niyamadhāriṇaḥ |
somavikrayiṇaścaiva śrāddhe nārhanti ketanam
गायना नर्तकाश्चैव प्लवका वादकास्तथा ।
कथका योधकाश्चैव राजन्नार्हन्ति केतनम्
gāyanā nartakāścaiva plavakā vādakāstathā |
kathakā yodhakāścaiva rājannārhanti ketanam
होतारो वृषलानां च वृषलाध्यापकास्तथा ।
तथा वृषलशिष्याश्च राजन्नार्हन्ति केतनम्
hotāro vṛṣalānāṃ ca vṛṣalādhyāpakāstathā |
tathā vṛṣalaśiṣyāśca rājannārhanti ketanam
अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत ।
नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ
anuyoktā ca yo vipro anuyuktaśca bhārata |
nārhatastāvapi śrāddhaṃ brahmavikrayiṇau hi tau
अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः ।
ब्राह्मणः सर्वविद्योऽपि राजन्नार्हति केतनम्
agraṇīryaḥ kṛtaḥ pūrvaṃ varṇāvaraparigrahaḥ |
brāhmaṇaḥ sarvavidyo'pi rājannārhati ketanam
अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये ।
स्तेनाश्च पतिताश्चैव राजन्नार्हन्ति केतनम्
anagnayaśca ye viprā mṛtaniryātakāśca ye |
stenāśca patitāścaiva rājannārhanti ketanam
अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत ।
पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम्
aparijñātapūrvāśca gaṇapūrvāśca bhārata |
putrikāpūrvaputrāśca śrāddhe nārhanti ketanam
ऋणकर्ता च यो राजन्यश्च वार्धुषिको नरः ।
प्राणिविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम्
ṛṇakartā ca yo rājanyaśca vārdhuṣiko naraḥ |
prāṇivikrayavṛttiśca rājannārhanti ketanam
स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ ।
आजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम्
strīpūrvāḥ kāṇḍapṛṣṭhāśca yāvanto bharatarṣabha |
ājapā brāhmaṇāścaiva śrāddhe nārhanti ketanam
श्राद्धे दैवे च निर्दिष्टो ब्राह्मणो भरतर्षभ ।
दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः
śrāddhe daive ca nirdiṣṭo brāhmaṇo bharatarṣabha |
dātuḥ pratigrahītuśca śṛṇuṣvānugrahaṃ punaḥ
चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः ।
सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः
cīrṇavratā guṇairyuktā bhaveyurye'pi karṣakāḥ |
sāvitrījñāḥ kriyāvantaste rājanketanakṣamāḥ
क्षात्रधर्मिणमप्याजौ केतयेत्कुलजं द्विजम् ।
न त्वेव वणिजं तात श्राद्धे च परिकल्पयेत्
kṣātradharmiṇamapyājau ketayetkulajaṃ dvijam |
na tveva vaṇijaṃ tāta śrāddhe ca parikalpayet
अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत् ।
अस्तेनश्चातिथिज्ञश्च स राजन्केतनक्षमः
agnihotrī ca yo vipro grāmavāsī ca yo bhavet |
astenaścātithijñaśca sa rājanketanakṣamaḥ
सावित्रीं जपते यस्तु त्रिकालं भरतर्षभ ।
भिक्षावृत्तिः क्रियावांश्च स राजन्केतनक्षमः
sāvitrīṃ japate yastu trikālaṃ bharatarṣabha |
bhikṣāvṛttiḥ kriyāvāṃśca sa rājanketanakṣamaḥ
उदितास्तमितो यश्च तथैवास्तमितोदितः ।
अहिंस्रश्चाल्पदोषश्च स राजन्केतनक्षमः
uditāstamito yaśca tathaivāstamitoditaḥ |
ahiṃsraścālpadoṣaśca sa rājanketanakṣamaḥ
अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ ।
संसर्ग भैक्ष्यवृत्तिश्च स राजन्केतनक्षमः
akalkako hyatarkaśca brāhmaṇo bharatarṣabha |
saṃsarga bhaikṣyavṛttiśca sa rājanketanakṣamaḥ
अव्रती कितवः स्तेनः प्राणिविक्रयिको वणिक् ।
सनिष्कृतिः पुनः सोमं पीतवान्केतनक्षमः
avratī kitavaḥ stenaḥ prāṇivikrayiko vaṇik |
saniṣkṛtiḥ punaḥ somaṃ pītavānketanakṣamaḥ
अर्जयित्वा धनं पूर्वं दारुणैरपि कर्मभिः ।
भवेत्सर्वातिथिः पश्चात्स राजन्केतनक्षमः
arjayitvā dhanaṃ pūrvaṃ dāruṇairapi karmabhiḥ |
bhavetsarvātithiḥ paścātsa rājanketanakṣamaḥ
ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम् ।
अदेयं पितृविप्रेभ्यो यच्च क्लैब्यादुपार्जितम्
brahmavikrayanirdiṣṭaṃ striyā yaccārjitaṃ dhanam |
adeyaṃ pitṛviprebhyo yacca klaibyādupārjitam
क्रियमाणेऽपवर्गे च यो द्विजो भरतर्षभ ।
न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम्
kriyamāṇe'pavarge ca yo dvijo bharatarṣabha |
na vyāharati yadyuktaṃ tasyādharmo gavānṛtam
श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा ।
सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर
śrāddhasya brāhmaṇaḥ kālaḥ prāptaṃ dadhi ghṛtaṃ tathā |
somakṣayaśca māṃsaṃ ca yadāraṇyaṃ yudhiṣṭhira
मुहूर्तानां त्रयं पूर्वमह्नः प्रातरिति स्मृतम् ।
जपध्यानादिभिस्तस्मिन्विप्रैः कार्यं शुभव्रतम्
muhūrtānāṃ trayaṃ pūrvamahnaḥ prātariti smṛtam |
japadhyānādibhistasminvipraiḥ kāryaṃ śubhavratam
सङ्गवाख्यं त्रिभागं तु मध्याह्नस्त्रिमुहूर्तकः ।
लौकिकं सङ्गवेऽर्धं च स्नानादि ह्यथ मध्यमे
saṅgavākhyaṃ tribhāgaṃ tu madhyāhnastrimuhūrtakaḥ |
laukikaṃ saṅgave'rdhaṃ ca snānādi hyatha madhyame
चतुर्थमपराह्णं तु त्रिमुहूर्तं तु पित्र्यकम् ।
सायाह्नस्त्रिमुहूर्तं च मध्यमं कविभिः स्मृतम्
caturthamaparāhṇaṃ tu trimuhūrtaṃ tu pitryakam |
sāyāhnastrimuhūrtaṃ ca madhyamaṃ kavibhiḥ smṛtam
चतुर्थ त्वपराह्णाख्ये श्राद्धं कुर्यात्सदा नृप
caturtha tvaparāhṇākhye śrāddhaṃ kuryātsadā nṛpa
प्रागुदीचीमुखा विप्राः विश्वेदेवे च दक्षिणाः ।
श्रावितेषु सुतृप्तेषु पिण्डं दद्यात्सदक्षिणम्
prāgudīcīmukhā viprāḥ viśvedeve ca dakṣiṇāḥ |
śrāviteṣu sutṛpteṣu piṇḍaṃ dadyātsadakṣiṇam
श्राद्धापवर्गे विप्रस्य दातारो वोस्त्वितीरयेत् ।
क्षत्रियस्यापि यो ब्रूयात्प्रीयन्तां पितरस्त्विति
śrāddhāpavarge viprasya dātāro vostvitīrayet |
kṣatriyasyāpi yo brūyātprīyantāṃ pitarastviti
अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत ।
अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत
apavarge tu vaiśyasya śrāddhakarmaṇi bhārata |
akṣayyamabhidhātavyaṃ svasti śūdrasya bhārata
पुण्याहवाचनं दैवं ब्राह्मणस्य विधीयते ।
एतदेव निरोङ्कारं क्षत्रियस्य विधीयते
puṇyāhavācanaṃ daivaṃ brāhmaṇasya vidhīyate |
etadeva niroṅkāraṃ kṣatriyasya vidhīyate
वैश्यस्य दैवे वक्तव्यं प्रीयन्तां देवता इति ।
गोर्हिसायां चतुर्भागं पूर्वं विप्रातिकेतिनः
vaiśyasya daive vaktavyaṃ prīyantāṃ devatā iti |
gorhisāyāṃ caturbhāgaṃ pūrvaṃ viprātiketinaḥ
वर्णावरेषु भुञ्जानं क्रमाच्छूद्रे चतुर्गुणम् ।
नान्यत्र ब्राह्मणो ब्रूयात्पूर्वं विप्रेण केतितः
varṇāvareṣu bhuñjānaṃ kramācchūdre caturguṇam |
nānyatra brāhmaṇo brūyātpūrvaṃ vipreṇa ketitaḥ
अभोजने च दोषः स्याद्वर्जयेच्छूद्रकेतनम् ।
शूद्रान्नरसपुष्टाङ्गो द्विजो नोर्ध्वां गतिं लभेत्
abhojane ca doṣaḥ syādvarjayecchūdraketanam |
śūdrānnarasapuṣṭāṅgo dvijo nordhvāṃ gatiṃ labhet
अशुचिर्नैव चाश्नीयान्नास्तिको मानवर्जितः ।
न पूर्वं लङ्घयेल्लोभादेकवर्णोऽपि पार्थिव
aśucirnaiva cāśnīyānnāstiko mānavarjitaḥ |
na pūrvaṃ laṅghayellobhādekavarṇo'pi pārthiva
विप्राः स्मृता भूमिदेवा उपकुर्वाणवर्जिताः ।
कर्मणामानुपूर्व्येण विदिपूर्वं कृतं शृणु
viprāḥ smṛtā bhūmidevā upakurvāṇavarjitāḥ |
karmaṇāmānupūrvyeṇa vidipūrvaṃ kṛtaṃ śṛṇu
जातकर्मादिकाः सर्वास्त्रिषु वर्णेषु भारत ।
ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर
jātakarmādikāḥ sarvāstriṣu varṇeṣu bhārata |
brahmakṣatre hi mantroktā vaiśyasya ca yudhiṣṭhira
विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी ।
बाल्वजी ह्येव वैश्यस्य धर्म एष युधिष्ठिर
viprasya raśanā mauñjī maurvī rājanyagāminī |
bālvajī hyeva vaiśyasya dharma eṣa yudhiṣṭhira
पालाशो द्विजदण्डः स्यादश्वत्थः क्षत्रियस्य तु ।
औदुम्बरश्च वैश्यस्य धर्म एष युधिष्ठिर
pālāśo dvijadaṇḍaḥ syādaśvatthaḥ kṣatriyasya tu |
audumbaraśca vaiśyasya dharma eṣa yudhiṣṭhira
दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु ।
ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसंज्ञितः ।
चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः
dātuḥ pratigrahītuśca dharmādharmāvimau śṛṇu |
brāhmaṇasyānṛte'dharmaḥ proktaḥ pātakasaṃjñitaḥ |
caturguṇaḥ kṣatriyasya vaiśyasyāṣṭaguṇaḥ smṛtaḥ
नान्यत्र ब्राह्मणोऽश्नीयात्पूर्वं विप्रेण केतितः ।
[यवीयान्पशुहिंसायां तुल्यधर्मा भवेत्स हि
nānyatra brāhmaṇo'śnīyātpūrvaṃ vipreṇa ketitaḥ |
[yavīyānpaśuhiṃsāyāṃ tulyadharmā bhavetsa hi
तथा राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः ।
यवीयान्पशुहिंसायां भागार्धं समवाप्नुयात्
tathā rājanyavaiśyābhyāṃ yadyaśnīyāttu ketitaḥ |
yavīyānpaśuhiṃsāyāṃ bhāgārdhaṃ samavāpnuyāt
दैवं वाऽप्यथवा पित्र्यं योऽश्नीयाद्ब्राह्मणादिषु ।]
अस्नातो ब्राह्मणो राजंस्तस्याधर्मोऽनृतं स्मृतम्
daivaṃ vā'pyathavā pitryaṃ yo'śnīyādbrāhmaṇādiṣu |]
asnāto brāhmaṇo rājaṃstasyādharmo'nṛtaṃ smṛtam
आशौचो ब्राह्मणो राजन्योऽश्नीयाद्ब्राह्मणादिषु ।
ज्ञानपूर्वमथो लोभात्तस्याधर्मो गवानृतम्
āśauco brāhmaṇo rājanyo'śnīyādbrāhmaṇādiṣu |
jñānapūrvamatho lobhāttasyādharmo gavānṛtam
अर्थेनान्येन यो लिप्सेत्कर्मार्थं चैव भारत ।
आमन्त्रयति राजेन्द्र तस्याधर्मोऽनृतं स्मृतम्
arthenānyena yo lipsetkarmārthaṃ caiva bhārata |
āmantrayati rājendra tasyādharmo'nṛtaṃ smṛtam
अवेदव्रतचारित्रास्त्रिभिर्वर्णैर्युधिष्ठिर ।
मन्त्रवत्परिविष्यन्ते तस्याधर्मो गवानृतम्
avedavratacāritrāstribhirvarṇairyudhiṣṭhira |
mantravatpariviṣyante tasyādharmo gavānṛtam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)