अनुशासन पर्व

अध्याय 55: कन्यादान के विषय में नारद का उपदेश

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चपञ्चाशोऽध्यायः ॥

22 श्लोक · 55 में से 274

इस अध्याय में क्या होता है

कन्यादान के विषय में नारद का उपदेश

मार्कण्डेय नारद से कन्याओं के विवाह और पुत्रों के अधिकार पर पूछते हैं। नारद कहते हैं कि कन्या उचित समय पर योग्य वर को दी जाए, और जो बन्धु युवा कन्या को महीनों अविवाहित रखता है वह भारी पाप का भागी होता है। जिस कन्या का केवल वाग्दान हुआ हो और पति मर जाए, वह दूसरे पति के साथ फिर संस्कार पा सकती है, वह पुनर्भू कहलाती है और उसका पुत्र हव्य-कव्य दे सकता है। वे अविवाहित कन्या के कानीन पुत्र और गर्भवती अवस्था में ब्याही स्त्री के सहोढ पुत्र का उल्लेख करते हैं। मोल ली, दी गई या हरी गई कन्या जिसका विधिवत पाणिग्रहण न हुआ, वह गौण है। अन्त में नारद कहते हैं कि कन्याओं में लक्ष्मी बसती हैं और वे हर मंगल कार्य में पूज्य हैं।

मार्कण्डेय उवाच

55.1

श्रुतं वर्णावरैर्दत्तं हव्यं कव्यं च नारद ।
सम्प्रयोगे च पुत्राणां कन्यानां च ब्रवीहि मे

śrutaṃ varṇāvarairdattaṃ havyaṃ kavyaṃ ca nārada |
samprayoge ca putrāṇāṃ kanyānāṃ ca bravīhi me

नारद उवाच

55.2

कन्याप्रदानं प्रत्राणां स्त्रीणां संयोगमेव च ।
आनुपूर्व्यान्मया सम्यगुच्यमानं निबोध मे

kanyāpradānaṃ pratrāṇāṃ strīṇāṃ saṃyogameva ca |
ānupūrvyānmayā samyagucyamānaṃ nibodha me

55.3

जातमात्रा तु दातव्या कन्यका सदृशे वरे ।
काले दत्तासु कन्यासु पिता धर्मेण युज्यते

jātamātrā tu dātavyā kanyakā sadṛśe vare |
kāle dattāsu kanyāsu pitā dharmeṇa yujyate

55.4

यस्तु पुष्पवतीं कन्यां बान्धवो न प्रयच्छति ।
मासिमासि गते बन्धुस्तस्या भ्रौणघ्न्यमाप्नुते

yastu puṣpavatīṃ kanyāṃ bāndhavo na prayacchati |
māsimāsi gate bandhustasyā bhrauṇaghnyamāpnute

55.5

यस्तु कन्यां गृहे रुन्ध्याद्ग्राम्यैर्भोगैर्विवर्जिताम् ।
अवध्यातः स कन्याया बन्धुः प्राप्नोति भ्रूणहाम्

yastu kanyāṃ gṛhe rundhyādgrāmyairbhogairvivarjitām |
avadhyātaḥ sa kanyāyā bandhuḥ prāpnoti bhrūṇahām

55.6

दूषिता पाणिमात्रेण मृते भर्तरि दारिका ।
संस्कारं लभते नारी द्वितीये सा पुनः पतौ

dūṣitā pāṇimātreṇa mṛte bhartari dārikā |
saṃskāraṃ labhate nārī dvitīye sā punaḥ patau

55.7

पुनर्भूर्नाम सा कन्या सपुत्रा हव्यकव्यदा ।
अदूष्या सा प्रसूतीषु प्रजानां दारकर्मणि

punarbhūrnāma sā kanyā saputrā havyakavyadā |
adūṣyā sā prasūtīṣu prajānāṃ dārakarmaṇi

मार्कण्डेय उवाच

55.8

या तु कन्या प्रसूयेत गर्भिणी या तु वा भवेत् ।
कथं दारक्रियां भूयः सा भवेदृषिसत्तम

yā tu kanyā prasūyeta garbhiṇī yā tu vā bhavet |
kathaṃ dārakriyāṃ bhūyaḥ sā bhavedṛṣisattama

नारद उवाच

55.9

तत्वार्थनिश्चितं शब्दं कन्यका नयतेऽग्नये ।
तस्मात्कुर्वन्ति वै भावं कुमार्यस्ता न कन्यकाः

tatvārthaniścitaṃ śabdaṃ kanyakā nayate'gnaye |
tasmātkurvanti vai bhāvaṃ kumāryastā na kanyakāḥ

55.10

ब्रह्महत्यात्रिभागेन गर्भाधानविशोधितः ।
गृह्णीयात्तां चतुर्भागविशुद्धां सर्जनात्पुनः

brahmahatyātribhāgena garbhādhānaviśodhitaḥ |
gṛhṇīyāttāṃ caturbhāgaviśuddhāṃ sarjanātpunaḥ

मार्कण्डेय उवाच

55.11

कथं कन्यासु ये जाता बन्धूनां दूषिताः सदा ।
कस्य ते हव्यकव्यानि प्रदास्यन्ति महामुने

kathaṃ kanyāsu ye jātā bandhūnāṃ dūṣitāḥ sadā |
kasya te havyakavyāni pradāsyanti mahāmune

नारद उवाच

55.12

कन्यायास्तु पितुः पुत्राः कानीना हव्यकव्यदाः ।
अन्तर्वत्नयास्तु यः पाणिं गृह्णीयात्स सहोढजः

kanyāyāstu pituḥ putrāḥ kānīnā havyakavyadāḥ |
antarvatnayāstu yaḥ pāṇiṃ gṛhṇīyātsa sahoḍhajaḥ

मार्कण्डेय उवाच

55.13

अथ येनाहितो गर्भः कन्यायां तत्र नारद ।
कथं पुत्रफलं तस्य भवेदेतत्प्रचक्ष्व मे

atha yenāhito garbhaḥ kanyāyāṃ tatra nārada |
kathaṃ putraphalaṃ tasya bhavedetatpracakṣva me

नारद उवाच

55.14

धर्माचारेषु ते नित्यं दूषकाः कृतशोधनाः ।
बीजं च नश्यते तेषां मोघचेष्टा भवन्ति ते

dharmācāreṣu te nityaṃ dūṣakāḥ kṛtaśodhanāḥ |
bījaṃ ca naśyate teṣāṃ moghaceṣṭā bhavanti te

मार्कण्डेय उवाच

55.15

अथ काचिद्भवेत्कन्या क्रीता दत्ता हृताऽपि वा ।
कथं पुत्रकृतं तस्यास्तद्भवेद्दषिसत्तम

atha kācidbhavetkanyā krītā dattā hṛtā'pi vā |
kathaṃ putrakṛtaṃ tasyāstadbhaveddaṣisattama

नारद उवाच

55.16

क्रीता दत्ता हृता चैव या कन्या पाणिवर्जिता ।
कौमारी नाम सा भार्या प्रसवेदौरसान्सुतान् ।
न पत्न्यर्थे शुभा प्रोक्ता तत्कर्मण्यपराजिते

krītā dattā hṛtā caiva yā kanyā pāṇivarjitā |
kaumārī nāma sā bhāryā prasavedaurasānsutān |
na patnyarthe śubhā proktā tatkarmaṇyaparājite

मार्कण्डेय उवाच

55.17

केन मङ्गलकृत्येषु विनियुज्यन्ति कन्यकाः ।
एतदिच्छामि विज्ञातुं तत्वेनेह महामुने

kena maṅgalakṛtyeṣu viniyujyanti kanyakāḥ |
etadicchāmi vijñātuṃ tatveneha mahāmune

नारद उवाच

55.18

नित्यं निवसते लक्ष्मीः कन्यकासु प्रतिष्ठिता ।
शोभना शुभयोग्या च पूज्या मङ्गलकर्मसु

nityaṃ nivasate lakṣmīḥ kanyakāsu pratiṣṭhitā |
śobhanā śubhayogyā ca pūjyā maṅgalakarmasu

55.19

आकरस्थं यथा रत्नं सर्वकामफलोपगम् ।
तथा कन्या महालक्ष्मीः सर्वलोकस्य मङ्गलम्

ākarasthaṃ yathā ratnaṃ sarvakāmaphalopagam |
tathā kanyā mahālakṣmīḥ sarvalokasya maṅgalam

55.20

एवं कन्या परा लक्ष्मी रतिस्तोषश्च देहिनाम् ।
महाकुलानां चारित्रवृत्तेन निकषोपलम्

evaṃ kanyā parā lakṣmī ratistoṣaśca dehinām |
mahākulānāṃ cāritravṛttena nikaṣopalam

55.21

आनयित्वा स्वकाद्वर्णात्कन्यकां यो भजेन्नरः ।
दातारं हव्यकव्यानां पुत्रकं या प्रसूयति

ānayitvā svakādvarṇātkanyakāṃ yo bhajennaraḥ |
dātāraṃ havyakavyānāṃ putrakaṃ yā prasūyati

55.22

साध्वी कुलं वर्धयति साध्वी पुष्टिग्रहे परा ।
साध्वी लक्ष्मी रतिः साक्षात्प्रतिष्ठा सन्ततिस्तथा

sādhvī kulaṃ vardhayati sādhvī puṣṭigrahe parā |
sādhvī lakṣmī ratiḥ sākṣātpratiṣṭhā santatistathā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)